________________
प्रथमोऽध्यायः।
२३१ त्वमिति कश्चित् , तदसत् । चक्षुषोप्राप्तमर्थ परिच्छेत्तुं शक्तेः साध्यत्वात्तत्राप्रसिद्धत्वादप्राप्तकारणशक्तित्वस्याप्राप्यकारित्वस्येष्टत्वात् । साधनस्य पुनरंतरितार्थग्रहणस्य खसंवेदनप्रत्यक्षसिद्धस्याभिधानात् ।
ननु च काचाद्यंतरितार्थस्य प्राप्तस्यैव चक्षुषा परिच्छेदादसिद्धो हेतुरित्याशंकां परिहरन्नाह;विभज्य स्फटिकादींश्चेत्कथंचिच्चक्षुरंशवः । प्राप्नुवंस्तूलराश्यादीनश्वरान्नेति चाद्भुतम् ॥ १७॥
निष्ठुरस्थिरस्वभावान् स्फटिकादीन् विभज्य नयनरश्मयः प्रकाशयंति न पुनर्मुदुनाशिखभावांस्तूलराश्यादीनिति किमत्यद्भुतमाश्रित्य हेतोरसिद्धतामुद्भावयतः कथं स्वस्थाः १ ॥ सामर्थ्य पारदीयस्य यथा यस्यानुभेदने । नालांबूभाजनोद्भेदे मनागपि समीक्ष्यते ॥ १८ ॥ काचादिभेदने शक्तिस्तथा नयनरोचिषां । संभाव्या तूलराश्यादिभिदायां नेति केचन ॥१९॥ तदनातीतिकं सोयं काचादिरिति निश्चयात् । विनाशव्यवहारस्य तत्राभावाच कस्यचित्।।२०॥ समानसन्निवेशस्य तस्योत्पत्तेरनाशितां । जनो मन्येत निल्नकेशादेर्वेति चेन्मतम् ॥ २१॥ न कचित्प्रत्यभिज्ञानमेकत्वस्य प्रसाधकं । सियेदिति क्षणध्वंसि जगदापातमंजसा ॥ २२ ॥ आत्माघेकत्वसिद्धिश्चेत्प्रत्यभिज्ञानतो दृढात् । दाात्तत्र कुतो बाधाभावाचेत्प्रकृते समं॥२३॥ न हि स्फटिकादौ प्रत्यभिज्ञानस्यैकत्वपरामर्शिनः किंचिद्वाधकमस्ति पुरुषादिवत् । तद्भेदेनाभ्युपगमे तु बाधकमस्तीत्याह;-- काचाद्यंतरितानथोन् पश्यतश्च निरंतरं । तत्र भेदस्य निष्ठानान्नाभिन्नस्य करग्रहः ॥२४॥
सततं पश्यतो हि काचशिलादीन्नयनरश्मयो निरंतरं भिदंतीति प्रतिष्ठायां कथमभिन्नखभावानां तथा तस्य हस्तेन ग्रहणं तच्चेदस्ति तद्भेदाभ्युपगमं बाधिष्यत इति किं नश्चितया ॥ विनाशानंतरोत्पत्तौ पुनर्नाशे पुनर्भवेत् । कुतो निरंतरं तेन छादितार्थस्य दर्शनम् ॥ २५ ॥ स्पशेनेन च निर्भदशरीरस्य महोंगिनाम् । सांतरेणानुभूयंते तस्य स्पर्शनदर्शने ॥ २६॥
स्फटिकादेराशूत्पादविनाशाभ्यामभेदग्रहणं निरंतरं पश्यतः संततं न तद्भेदाभ्युपगमस्य बाधकमित्ययुक्तमाश्वेव स्पर्शनदर्शनयोस्तत्र प्रसंगात् । स्पर्शनास्पर्शनयोश्च । न च तत्र तदा कस्यचिदुपयुक्तस्यादर्शनास्पर्शनाभ्यां व्यवहितदर्शनस्पर्शने समनुभूयेते तद्विनाशस्य पूर्वोत्तरोत्पादाभ्यामाशु भाविभ्यां तिरोहितत्वान्न तत्रादर्शनमस्पर्शनं वा स्यादिति चेत् । नन्वेवं तदुत्पादस्य पूर्वोत्तरविनाशाभ्यामाशु भाविभ्यामेव विरोधान्नादर्शनस्पर्शने मा भूतां तदुत्पादयोः खमध्यगतविनाशतिरोधाने सामर्थ्य भावखभावत्वेन बलीयस्त्वात् तद्विनाशयोः स्वमध्यगतोत्पादतिरोधानेऽभावखभावत्वेन दुर्बलत्वादिति चेन्न, भावाभावस्वभावयोः समानबलत्वात् । तयोरन्यतरबलीयस्त्वे युगपद्भावाभावात्मकवस्तुप्रतीतिविरोधात् । न हि वस्तुनो भाव एव कदाचित्प्रतीयते स्वरूपादिचतुष्टयेनेव पररूपादिचतुष्टयेनापि भावप्रतीतिशक्तेः । न चानाद्यनंतसर्वात्मकं च वस्तु प्रतिभाति यतस्तथाभ्युपगमः श्रेयान् । नाप्यभाव एव वस्तुनोनुभूयते पररूपादिचतुष्टयेनेव खरूपादिचतुष्टयेनाप्यभावप्रतिपत्तिप्रसंगात् । न च सर्वथाप्यसत्प्रतिभाति यतस्तदभ्युपगमोपि कस्यचित्प्रतितिष्ठेत् । प्ररूपितप्रायं च भावाभावखभाववस्तु प्रतिभासनमिति कृतं प्रपंचेन । सर्वथोत्पादे विनाशे च पुनः पुनः स्फटिकादौ दर्शनस्पर्शनयोः सांतरयोः प्रसंजनस्य दुर्निवारत्वात् तदर्थोनुमीयेतेतिचेन्न, तेषां काचादेन भ्रांतत्वमर्थोपरक्तस्य विज्ञानस्यानुद्गतिर्नः (१) |
प्राप्तस्यांतरितार्थेन विभिन्नस्य परीक्षणात् । नार्थस्य दर्शनं सिऽदनुमा च तथैव वा ॥२७॥ नन्वत्रंतपरोक्षत्वे सत्यार्थस्यानुमागतेः । विज्ञानयोपरक्तत्वे तेन विज्ञायते कथम् ॥ २८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org