________________
२३० तत्त्वार्थश्लोकवार्तिके
[सू० १९ पक्षे तु प्राप्तेरभावोऽप्राप्तिः सा च न भिद्यते भावस्य स्वयं सर्वत्राभेदात् । कथमवग्रहाद्युत्पत्तौ सा कारणमिति चेत् तस्यां तत्प्रादुर्भावानुभवात् निमित्तमात्रत्वोपपत्तेः प्राप्तिवत् प्रधानं तु कारणं खावरणक्षयोपशम एवेति न किंचन विरुद्धमुत्पश्यामः ॥ अत्र परस्य चक्षुषि प्राप्यकारित्वसाधनमनूद्य दूषयन्नाह;
चक्षुः प्राप्तपरिच्छेदकारणं रूपव्यक्तितः । स्पर्शनादिवदित्येके तन्न पक्षस्य बाधनात् ॥ ८॥ बाह्यं चक्षुर्यदा तावत् कृष्णतारादि दृश्यताम् । प्राप्तं प्रत्यक्षतो बाधात् तस्यार्थाप्राप्तिवेदिनः॥९॥ शक्तिरूपमदृश्यं चेदनुमानेन बाधनम् । आगमेन सुनिर्णीतासंभवद्वाधकेन च ॥१०॥ व्यक्तिरूपस्य चक्षुषः प्राप्यकारित्वे साध्ये प्रत्यक्षेण बाध्यते पक्षोनुष्णोमिरित्यादिवत् । प्रत्यक्षतः साध्यविपर्ययसिद्धेः शक्तिरूपस्य तस्य तथात्वसाधनेनुमानेन बाध्यते तत एव सुनिर्णीतासंभवबाधकेनागमेन च । किं तदनुमानं पक्षस्य बाधकमित्याह;
तत्राप्राप्तिपरिच्छेदि चक्षुः स्पष्टानवग्रहात् । अन्यथा तदसंभूतेर्घाणादेरिव सर्वथा ॥ ११ ॥
केवलव्यतिरेकानुमानमन्यथानुपपत्त्येकलक्षणयोगादुपपन्नं पक्षस्य बाधकमिति भावः । अत्र हेतोरसिद्धतामाशंक्य परिहरन्नाह;
चक्षुषा शक्तिरूपेण तारकागतमंजनं । न स्पृष्टमिति तद्धेतोरसिद्धत्वमिहोच्यते ॥ १२॥ शक्तिः शक्तिमतोन्यत्र तिष्ठतार्थेन युज्यते । तत्रस्थेन तु नैवेति कोन्यो ब्रूयाज्जडात्मनः ॥१३॥ व्यक्तिरूपाच्चक्षुषः शक्तिमतोन्यत्र दूरादिदेशे तिष्ठतार्थेन घटादिना शक्तींद्रियं युज्यते न पुनर्व्यक्तिनयनस्थेनांजनादिनेति कोन्यो जडात्मवादिनो ब्रूयात् । दूरादिदेशस्थेनार्थेन व्यक्तिचक्षुषः संबंधपूर्वकं चक्षुः संबध्यते तद्वेदनस्यान्यथानुपपत्तेरितिचेत् स्यादेतदेवं यद्यसंबंधेन तत्र वेदनमुपजनयितुं नेत्रेण न शक्येत मनोवत् । न हि प्राप्तिरेव तस्य विषयज्ञानजनननिमित्तमंजनादेः प्राप्तस्याप्रवेदनात् । योग्यतायास्तत्र भावात्तदप्रवेदनमिति चेत् सैवास्तु किं प्राप्तिनिर्बधेन । योग्यतायां हि सत्यां किंचिदक्षं प्राप्तमर्थ परिच्छिनत्ति किंचिदप्राप्तमिति यथाप्रतीतमभ्युपगंतव्यं । न हि प्राप्त्यभावेर्थपरिच्छेदनयोग्यताक्षस्य न संभवति मनोवद्विरोधाभावात् । येन प्रतीत्यतिक्रमः क्रियते ततो न खरूपासिद्धो हेतुः । पक्षाव्यापकोपि न भवतीत्याह;पक्षाव्यापकता हेतोर्मनस्यप्राप्यकारिणि । विरहादिति मंतव्यं नास्यापेक्षत्वयोग्यतः ॥१४॥
चक्षुरेव ह्यनुपक्षीकृतं न पुनर्मनस्तस्याप्राप्यकारित्वेन प्रसिद्धत्वात् स्वयमप्रसिद्धस्य साध्यत्वेन व्यवस्थापनात् । न वेदमप्रसिद्धमित्याह;
मनसोप्राप्यकारित्वं नाप्रसिद्धं प्रवादिनाम् । कान्यथातीतदूरादिपदार्थग्रहणं ततः ॥ १५ ॥
न ह्यतीतादयो दूरस्थार्था मनसा प्राप्यकारिणा विषयीकर्तुं शक्या इति सर्वैः प्रवादिभिरप्राप्यकारि तदंगीकर्तव्यमन्यथातीतदूरादिवस्तुपरिच्छित्तेरनुपपत्तेः । ततो न पक्षाव्यापको हेतुः स्पृष्टानवग्रहादिति पक्षीकृते चक्षुषि भावात् । नाप्यनैकांतिको विरुद्धो वा प्राप्यकारिणि विपक्षे स्पर्शनादावसंभवादित्यतो हेतोर्भवत्येव साध्यसिद्धिः । इतश्च भवतीत्याह;
काचाद्यंतरितार्थानां ग्रहाचाप्राप्तकारिता | चक्षुषः प्राप्यकारित्वे मनसः स्पर्शनादिवत् ॥१६॥
ननु च यद्यंतरितार्थग्रहणं स्वभावकालांतरितार्थग्रहणमिप्यते तदा न सिद्धं साधनं चक्षुषि तदभावात् । देशांतरितार्थग्रहणं चेत्तदेव साध्यं साधनं चेत्यायातं । देशांतरितार्थग्राहित्वमेव ह्यप्राप्यकारि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org