________________
प्रथमोऽध्यायः।
२२९ पूर्वकत्वेन तस्याननुभवात् । न चात्र यादृशमक्षानपेक्षं पादपादि साक्षात्करणपूर्वकं प्ररूपणमस्पष्टं तादृशमनुभूयते येन श्रुतज्ञानं तदनुमन्येमहि । श्रुतस्य स्मृत्याद्यपेक्षया स्पष्टत्वात् । संस्थानादिसामान्यस्य प्रतिभासनात् । सन्निकृष्टपादपादिप्रतिभासनापेक्षया तु दविष्ठपादपादिप्रतिभासनमस्पष्टमक्षजमपीति युक्तोनेन व्यभिचारः प्रकृतहेतोः । अपरः प्राह । स्पष्टमेव सर्वविज्ञानं खविषयेन्यस्य तद्व्यवस्थापकत्वायोगादप्रति• भासनवत् । ततो नास्पष्टो व्यंजनावग्रह इति........." (?)मन्येत स्पष्टास्पष्टावभासयोरबाधितवपुषोः
खयं सर्वस्यानुभवात् । ननु चास्पष्टत्वं यदि ज्ञानधर्मस्तदा कथमर्थस्यास्पष्टत्वमन्यस्यास्पष्टत्वादन्यस्यास्पष्टत्वेतिप्रसंगादितिचेत् तर्हि स्पष्टत्वमपि यदि ज्ञानस्य धर्मस्तदा कथमर्थस्य स्पष्टतातिप्रसंगस्य समानत्वात् । विषये विषयिधर्मस्योपचाराददोष इति चेत् तत एवान्यत्रापि न दोषः । यथैव हि दूरादस्पष्टखभावत्वमर्थस्य सन्निकृष्टस्पष्टताप्रतिभासनं बाध्यते तथा सन्निहितार्थस्य स्पष्टत्वमपि दूरादस्पष्टता प्रतिभासेन निराक्रियत इति नार्थः खयं कस्यचित्स्पष्टोऽस्पष्टो वा खविषयज्ञानस्पष्टत्वास्पष्टत्वाभ्यामेव तस्य तथा व्यवस्थापनात् । नन्वेवं ज्ञानस्य कुतः स्पष्टता ? खज्ञानत्वादिति चेन्न, अनवस्थानुषंगात् । खत एवेति चेत् सर्वज्ञानानां स्पष्टत्वापत्तिरित्यत्र कश्चिदाचष्टे । अक्षात्स्पष्टता ज्ञानस्येति तदयुक्तं, दविष्ठपादपादिज्ञानस्य दिवा तामसखगकुलविज्ञानस्य च स्पष्टत्वप्रसंगात् तदुत्पादकमक्षमेव न भवति दूरतमदिवसकरप्रतापाभ्यामुपहतत्वात् मरीचिकासु तोयाकारज्ञानोत्पादकाक्षवदिति चेत् तर्हि ताभ्यामक्षस्य खरूपमुपहन्यते शक्तिर्वा । न तावदाद्यः पक्षः तत्वरूपस्याविकलस्यानुभवात् । द्वितीयपक्षे तु योग्यतासिद्धिस्तव्यतिरेकेणाक्षशक्तेरव्यवस्थितेः । क्षयोपशमविशेषलक्षणायाः योग्यताया एव भावेंद्रियाख्यायाः खीकरणाहत्वात् ॥ ज्ञानस्य स्पष्टता लोकनिमित्तेत्यपि दृषितम् । एतेन स्थापिताकरी.............. (?) ॥ ८ ॥ सैवास्पष्टत्वहेतुः स्याद्यंजनावग्रहस्य नः । गंधादिद्रव्यपर्यायग्राहिणोप्यक्षजन्मनः ॥९॥
यथा स्पष्टज्ञानावरणवी-तरायक्षयोपशमविशेषादस्पष्टता व्यवतिष्ठत इति नान्यो हेतुरव्यभिचारी तत्र संभाव्यते ततोर्थस्यावग्रहादिः स्पष्टो व्यंजनस्यास्पष्टोऽवग्रह एवेति सूक्तम् ॥
न चक्षुरनिंद्रियाभ्याम् ॥ १९॥ किमवग्रहेहादीनां सर्वेषां प्रतिषेधार्थमिदमाहोखियंजनावग्रहस्यैवेति शंकायामिदमाचष्टे;नेत्याद्याह निषेधार्थमनिष्टस्य प्रसंगिनः । चक्षुर्मनोनिमित्तय व्यंजनावग्रहस्य तत् ॥ १॥ व्यंजनावग्रहो नैव चक्षुषानिद्रियेण च । अप्राप्यकारिणा तेन स्पष्टावग्रहहेतुना ॥ २ ॥ प्राप्यकारींद्रियश्चार्थे प्राप्तिभेदाद्धि कुत्रचित् । तद्योग्यतां विशेषां वा स्पष्टावग्रहकारणम् ॥३॥ यथा नवशरावादौ द्विवाद्यास्तोयविंदवः । अव्यक्तामार्द्रतां क्षिप्ताः कुर्वति प्राप्यकारिणः ॥४॥ पौनःपुन्येन विक्षिप्ता व्यक्तां तामेव कुर्वते । तत्प्राप्तिभेदतस्तद्वदिंद्रियाण्यप्यवग्रहम् ॥ ५॥ अप्राप्तिकारिणी चक्षुर्मनसी कुरुतः पुनः । व्यक्तामर्थपरिच्छित्तिमप्राप्तेरविशेषतः ॥६॥ यथायस्कांतपाषाणः शल्याकृष्टिं स्वशक्तितः । करोत्यप्राप्तिकारीति व्यक्तिमेव शरीरतः ॥७॥
न हि यथा स्वार्थयोः स्पृष्टिलक्षणाप्राप्तिरन्योपचयस्पृष्टितारतम्याद्भिद्यते तथा तयोः प्राप्तिर्देशव्यवधानलक्षणापि कास्येनास्पृष्टेरविशेषात् तद्व्यवधायकदेशास्पदादप्राप्तिरपि भिद्यते एवेतिचेत् किमयं पर्युदासप्रतिषेधः प्रसज्यप्रतिषेधो वा ? प्रथमपक्षेक्षार्थाप्राप्तिरन्या न वार्थः पुनरेवं “नजिव युक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः” इति वचनात सा च नावग्रहादेः कारणमिति तद्भेदेपि कुतस्तद्भेदः । द्वितीय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org