________________
२२८
तत्त्वार्थश्लोकवार्तिके
[सू० १८
तत एव न निःशेषपर्यायेभ्यः पराङ्मुखम् । द्रव्यमर्थो न चान्योन्यानपेक्ष्य तद्वयं भवेत् ॥४॥ एवमर्थस्य धर्माणां वादीतरभेदिनाम् । अवग्रहादयः सिद्धं तन्मतिज्ञानमीरितम् ॥ ५ ॥ न हि धर्मी धर्मेभ्योऽन्य एव यतः संबंधासिद्धिरनुपकारात् तदुपकारे वा कार्यकारणभावापत्तेस्तयोधर्मधर्मिभावाभावोग्निधूमवत् । धर्मिणि धर्माणां वृत्तौ च सर्वात्मना प्रत्येकं धर्मिबहुत्वापत्तिः एकदेशेन सावयवत्वं पुनस्तेभ्योवयवेभ्यो भेदे स एव पर्यनुयोगोनवस्था च प्रकारांतरेण वृत्तावदृष्टपरिकल्पन- ' मित्यादिदोषोपनिपातः स्यात् । नाप्यनन्य एव यतो धर्म्येव वा धर्म एव तदन्येतरायाः । ये चोभयासत्त्वं ततोपि सर्वो व्यवहार इत्युपालंभः संभवेत् । नापि तेनैव रूपेणान्यत्वमनन्यत्वं च धर्मधर्मिणोर्यतो विरोधोभय दोष संकरव्यतिकराः प्रतिपत्तव्याः स्युः । किं तर्हि । कथंचिदन्यत्वमनन्यत्वं च यथाप्रतीति जात्यंतरमविरुद्धं चित्रविज्ञानवत्सामान्यविशेषवद्वा सत्त्वाद्यात्मकैकप्रधानवद्वा चित्रपटवत्युक्तप्रायं । तत एव न सिद्धानामसिद्धानां वा बह्वादीनां धर्मिणि न पारतंत्र्यानुपपत्तिः कथंचित्तादात्म्यस्य ततः पारतंत्र्यस्य व्यवस्थितेः । न च तद्रव्यार्थतः सतां पर्यायार्थतोऽसतां धर्माणां धर्मी विरुज्यतेऽन्यथैव विरोधात् । ततो द्रव्यपर्यायात्मार्थौ धर्मी व्यक्तः प्रतीयतामव्यक्तस्य व्यंजनपर्यायस्योत्तरसूत्रे विधानात् । द्रव्यनिरपेक्षस्त्वर्थपर्यायः केवलो नार्थोत्र तस्याप्रमाणकत्वात् । नापि द्रव्यमात्रं परस्परं निरपेक्षं तदुभयं वा तत एव । न चैवंभूतस्यार्थस्य विवर्तानां बह्वादीतरभेदभृतामवग्रहादयो विरुध्यंते येन एवैकं मतिज्ञानं यथोक्तं न सिद्ध्येत् ॥
व्यंजनस्यावग्रहः ॥ १८ ॥
नारब्धव्यमिदं पूर्वसूत्रेणैव सिद्धत्वात् इत्यारे कायामाह ;
नियमार्थमिदं सूत्रं व्यंजनेत्यादि दर्शितम् । सिद्धे हि विधिरारभ्यो नियमाय मनीषिभिः ॥ १ ॥ किं पुनर्व्यजनमित्याह ;
अव्यक्तमत्र शब्दादिजातं व्यंजनमिष्यते । तस्यावग्रह एवेति नियमोध्यक्षवद्गतः ॥ २ ॥ ईहादयः पुनस्तस्य न स्युः स्पष्टार्थगोचराः । नियमेनेति सामर्थ्यादुक्तमत्र प्रतीयते ॥ ३ ॥ नन्वर्थावग्रहो यद्वदक्षतः स्पष्टगोचरः । तद्वत् किं नाभिमन्येत व्यंजनावग्रहोप्यसौ ॥ ४ ॥ क्षयोपशमभेदस्य तादृशोऽसंभवादिह । अस्पष्टात्मकसामान्य विषयत्वव्यवस्थितम् ॥ ५ ॥ अध्यक्षत्वं न हि व्याप्तं स्पष्टत्वेन विशेषतः । दविष्टपादपाध्यक्षज्ञानस्यास्पष्टतेक्षणात् ॥ ६ ॥ विशेषविषयत्वं च दिवा तामसपक्षिणां । तिग्मरोचिर्मयूखेषु भृंगपादावभासनात् ॥ ७ ॥ ननु च दूरतमदेशवर्तिनि पादपादौ ज्ञानमस्पष्टमस्मदादेरस्ति विशेषविषयं चादित्यकिरणेषु ध्यामलाकारमधुकरचरणवदवभासनमुलकादीनां प्रसिद्धं । ननु तदक्षजं श्रुतमस्पष्टत्वाच्छ्रुतमस्पष्टतर्कण मिति वचनात् । ततो न तेन व्यभिचारोक्षजत्वस्य हेतोः स्पष्टत्वे साध्ये व्यंजनावग्रहे धर्मिणीति कश्चित् । तन्न युक्त्यागमाविरुद्धं दविष्ठपादपादिज्ञानमक्षजमक्षान्वयव्यतिरेकानुविधायित्वात् सन्निकृष्टपादपादिविज्ञानवत् । श्रुतज्ञानं वा न भवति साक्षात्परं परया वा मतिपूर्वकत्वाभावात् तद्वदेवेति युक्तिविरुद्धमागमविरुद्धं च तस्य श्रुतज्ञानत्वं यतो धीमद्भिरनुभूयते । न चास्पष्टतर्कणं श्रुतस्य लक्षणं स्मृत्यादेरपि श्रुतत्वप्रसंगात् । मतिगृहीतेर्थेनिंद्रियबलादस्पष्टख संवेदनप्रत्यक्षादन्यत्वात्तर्कणं । नानाखरूपप्ररूपणं श्रुतमिति तस्य व्याख्याने 'श्रुतं मतिपूर्व' इत्येतदेव लक्षणं तथोक्तं स्यात् तच्च न प्रकृतज्ञानेस्ति । न हि साक्षाच्चक्षुर्मतिपूर्वकं तत्स्पष्टप्रतिभासानंतरं तदस्पष्टावभासनप्रसंगात् । नापि परंपरया लिंगादिश्रुतज्ञान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org