________________
प्रथमोऽध्यायः ।
२२७
प्राप्यकारींद्रियैर्युक्तोनिसृतानुक्तवस्तुनः । नावग्रहादिरित्येके प्राप्यकारीणि तानि वा ||३७| प्राप्यकारिभिरिंद्रियैः स्पर्शनरसनघ्राणश्रोत्रैरनिसृतस्यानुक्तस्य चार्थस्यावग्रहादिरनुपपन्न एव विरोधात् । तदुपपन्नत्वे वा न तानि प्राप्यकारीणि चक्षुर्वत् । चक्षुषोपि प्राप्तार्थपरिच्छेदहेतुत्वमप्राप्यकारित्वं तच्चानिसृतानुक्तार्थावग्रहादिहेतोः स्पर्शनादिरस्तीति केचित् ॥
1
तन्नानिसृतभावस्यानुक्तस्यापि च कैश्चन । सूक्ष्मैरंशैः परिप्राप्तस्याक्षैस्तैरवबोधनात् ॥ ३८ ॥ निस्सृतोक्तमथैवं स्यात्तस्येत्यपि न शक्यते । सर्वाप्राप्तिम वेक्ष्यैवानिसृतानुक्ततास्थितेः ॥ ३९ ॥ न हि वयं कात्र्येनाप्राप्तिमर्थस्यानिसृतत्वमनुक्तत्वं वा ब्रूमहे यतस्तदवग्रहादिहेतोरिंद्रियस्याप्राप्यकारित्वमायुज्यते । किं तर्हि । सूक्ष्मैरवयवैस्तद्विषयज्ञानावरणक्षयोपशमरहितजनावेद्यैः कैश्चित् प्राप्तानवभासस्य चानिसृतस्यानुक्तस्य च परिच्छेदे प्रवर्तमानमिंद्रियं नाप्राप्यकारि स्याच्चक्षुष्येवमप्राप्यकारित्वस्याप्रतीतेः । कथं तर्हि चक्षुरनिंद्रियाभ्याम निस्सृतानुक्तावग्रहादिस्तयोरपि प्राप्यकारित्वप्रसंगादिति चेन्न, योग्यदेशावस्थितेरेव प्राप्तेरभिधानात् । तथा च रसगंधस्पर्शानां स्वग्राहिभिरिंद्रियैः स्पृष्टिबंधस्वयोग्यदेशावस्थितिः : शब्दस्य श्रोत्रेण स्पृष्टिमात्रं रूपस्य चक्षुषाभिमुखतयानतिदूरा तयावस्थितिः । सा च यथा सकलस्य वस्त्रादेस्तथा तदवयवानां च केषांचिदिति तत्परिच्छेदिना चक्षुषा प्राप्यकारित्वमुपढौकते । स्वस्मिन्नस्पृष्टानामबद्धानां च तदवयवानां कियतां चित्तेन परिच्छेदनात् तावता चा निस्सृतानुक्तावग्रहादि - सिद्धेः किमधिकेनाभिहितेन ॥
·
ध्रुवस्स सेतरस्यात्रावग्रहादेर्न वाध्यते । नित्यानित्यात्मके भावे सिद्धिः स्याद्वादिनोंजसा ॥४०॥ यदि कश्चिद्ध्रुव एवार्थः कश्चिदध्रुवः स्यात्तदा स्याद्वादिनस्तत्रावग्रहावबोधमाचक्षाणस्य खसिद्धांत - बाधः स्यान्न पुनरेकमर्थं कथंचिद्ध्रुवमध्रुवं चावधारयतस्तस्य सिद्धांते सुप्रसिद्धत्वात्स तथा विरोधो बाधक इति चेत् न, तस्यापि सुप्रतीते विषयेऽनवकाशात् । प्रतीतं च सर्वस्य वस्तुनो नित्यानित्यात्मकत्वात् । प्रत्यक्षतोनुमानाच्च तस्यावबोधादन्यथा जातुचिदप्रतीते परमार्थतो नोभयरूपतार्थस्य तत्रान्यतरखभावस्य कल्पनारोपितत्वादित्यपि न कल्पनीयं नित्यानित्यखभावयोरन्यतरकल्पितत्वे तदविनाभाविनोपरस्यापि कल्पितत्वप्रसंगात् । न चोभयोस्तयोः कल्पितत्वे किंचिदकल्पितं वस्तुनो रूपमुपपत्तिमनुसरति यतस्तत्र व्यवतिष्ठते वायमिति तदुभयमंजसाभ्युपगंतव्यम् ॥
अर्थस्य ॥ १७ ॥
किमर्थमिदं सूत्र्यते सामर्थ्यसिद्धत्वादितिचेदत्रोच्यते;
ननु बह्वादयो धर्माः सेतराः कस्य धर्मिणः । तेऽवग्रहादयो येषामित्यर्थस्येति सूत्रितम् ॥ १ ॥ न कश्चिद्धर्मी विद्यते बह्वादिभ्योन्योऽनन्यो वानेकदोषानुषंगात्तदभावेन तेपि धर्मिणां धर्मपरतंत्रलक्षणत्वात्स्वतंत्राणामसंभवात् । ततः केषामवग्रहादयः क्रियाविशेषा इत्याक्षिपंतं प्रतीदमुच्यते । अर्थस्याबाधितप्रतीतिसिद्धस्य धर्मिणो बह्वादीनां सेतराणां तत्परतंत्रतया प्रतीयमानानां धर्माणामवग्रहादयः परिच्छित्तिविशेषास्तदेकं मतिज्ञानमिति सूत्रत्रयेणैकं वाक्यं चतुर्थसूत्रापेक्षेण वा प्रतिपत्तव्यं ॥
कः पुनरर्थो नामेत्याह;—
यो व्यक्तो द्रव्यपर्यायात्मार्थः सोत्राभिसंहितः । अव्यक्तस्योत्तरे सूत्रे व्यंजनस्योपवर्णनात् ॥ २ ॥ केवलो नार्थपर्यायः सूरेरिष्टो विरोधतः । तस्य बह्वादिपर्यायविशिष्टत्वेन संविदः ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org