SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २२६ तत्त्वार्थश्लोकवार्तिके (सू० १६ ननु रूपं गुणस्तस्य कथमनेकखभावत्वं विरोधात् । नैतत्साधु यतः-- गुणोनेकखभावः स्याद्रव्यवन्न गुणाश्रयः । इति रूपगुणेनेकस्वभावे चित्रशेमुषी ॥ २६ ॥ न हि गुणस्य निर्गुणत्ववन्निर्विशेषत्वं रूपे नीलनीलतरत्वादिविशेषप्रतीतेः । प्रतियोग्यपेक्षस्तत्र विशेषो न तात्त्विक इतिचेन्न, पृथक्त्वादेरतात्त्विकप्रसंगात् । पृथक्त्वादेरनेकद्रव्याश्रयस्यैवोत्पत्तेर्न प्रतियोग्यपेक्षत्वमितिचेन्न, तथापि तस्यैकपृथक्त्वादिप्रतियोग्यपेक्षया व्यवस्थानात् । सूक्ष्मत्वाद्यपेक्षकद्रव्याश्रया ' महत्वादिवत् तस्यास्खलत्प्रत्ययविषयत्वेन पारमार्थिकत्वेन नीलतरत्वादेरपि रूपविशेषस्य पारमार्थिकत्वं युक्तमन्यथा नैरात्म्यप्रसंगात् । नीलतरत्वादिवत्सर्वविशेषाणां प्रतिक्षेपे द्रव्यस्यासंभवात् । ततो द्रव्यवद्गुणादेरनेकखभावत्वं प्रत्ययविरुद्धमवबोद्धव्यम् ॥ नन्वनेकस्वभावत्वात्सर्वस्यार्थस्य तत्त्वतः । न चित्रव्यवहारः स्थाजैनानां कचिदित्यसत् ॥२७॥ सिद्धे जात्यंतरे चित्रे ततोपोद्धृत्य भाषते । जनो टेकमिदं नाना वेत्यर्थित्व विशेषतः॥२८॥ सिद्धेप्येकानेकखभावे जात्यंतरे सर्ववस्तुनि स्याद्वादिनां चित्रव्यवहाराहें ततो योद्धारकल्पनया कचिदेकत्रार्थित्वादेकमिदमिति कचिदनेकार्थित्वादनेकमिदमिति व्यवहारो जनैः प्रतन्यत इति सर्वत्र सर्वदा चित्रव्यवहारप्रसंगतः कचित्पुनरेकानेकखभावभावार्थित्वाच्चित्रव्यवहारोपीति नैकमेव किंचिच्चित्रं नाम यत्र नियतं वेदनं स्यात्प्रत्यर्थवशवर्तीति ।। योगिज्ञानवदिष्टं तद्बह्वाद्यर्थावभासनम् । ज्ञानमेकं सहस्रांशुप्रकाशज्ञानमेव चेत् ॥ २९ ॥ तदेवावग्रहाद्याख्यं प्राप्नुवत् किमु वार्यते । न च स्मृतिसहायेन कारणेनोपजन्यते ॥ ३०॥ बह्वाधवग्रहादीदं वेदनं शब्दबोधवत् । येनावभासनाद्भिन्नं ग्रहणं तत्र नेष्यते ॥ ३१ ॥ यो ह्यनेकत्रार्थेक्षावभासनमीश्वरज्ञानवदादित्यप्रकाशनवयाचक्षीत ननु तद्रहणं स्मृतिसहायेनेंद्रियेण जनितं तस्य प्रत्यर्थिवशवर्तित्वात् । स इदं प्रष्टव्यः किमिदं बह्वाद्यर्थे अवग्रहादिवेदनं स्मृतिनिरपेक्षिणाक्षेण जन्यते स्मृतिसहायेन वा ? प्रथमपक्षे सिद्धं स्याद्वादिमतं बह्वाद्यर्थावभासनस्यैवावग्रहादिज्ञानत्वेन व्यवस्थापनात् । द्वितीयकल्पनायां तु प्रतीतिविरोधतः खयमनुभूतपूर्वेपि बहाद्यर्थेवग्रहादिप्रतीतेः स्मृतिसहायेंद्रियजन्यत्वासंभवात् तत्र स्मृतेरनुदयात् तस्याः खयमनुभूतार्थ एव प्रवर्तनादन्यथातिप्रसंगात् । ततो नेदं बह्वाद्यवग्रहादिज्ञानमवभासनाद्भिन्नं शब्दज्ञानवत्स्मृतिसापेक्षं ग्रहणमिति मंतव्यं । ततो युगपदनेकांतार्थे न स्यात् । भवतु नाम धारणापर्यंतमवभासनं तत्र न पुनः स्मरणादिकं विरोधादिति मन्यमानं प्रत्याह-- बहौ बहुविधे चार्थे सेतरेऽवग्रहादिकम् । स्मरणं प्रत्यभिज्ञानं चिंता वाभिनिबोधनम् ॥३२॥ धारणाविषये तत्र न विरुद्धं प्रतीतितः । प्रवृत्तेरन्यथा जातु तन्मूलाया विरोधतः ।। ३३ ॥ न हि धारणाविषये बहाद्यर्थे स्मृतिविरुध्यते तन्मूलायास्तत्र प्रवृत्तेर्जातुचिदभावप्रसंगात् । नापि तत्र स्मृतिविषये प्रत्यभिज्ञायास्तत एव । नापि प्रत्यभिज्ञाविषये चिंतायाश्चिताविषये वाभिनिबोधस्य तत एव प्रतीयते च तत्र तन्मूला प्रवृत्तिरभ्रांता च प्रतीतिरिति निश्चितं प्राक् ।। क्षणस्थायितयार्थस्य निःशेषस्य प्रसिद्धितः । क्षिप्रावग्रह एवेति केचित्तदपरीक्षितम् ॥ ३४ ॥ स्थास्नूत्पित्सुविनाशित्वसमाक्रांतस्य वस्तुनः । समर्थयिष्यमाणस्य बहुतोबहुतोग्रतः ॥३५॥ कौटस्थात्पूर्वभावानां परस्याभ्युपगच्छतः । अक्षिप्रावग्रहैकांतोप्यतेनैव निराकृतः ॥ ३६ ॥ क्षिप्रावग्रहादिवदक्षिप्रावग्रहादयः संति त्रयात्मनो वस्तुनः सिद्धेः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001683
Book TitleTattvarthashloakvarttikam
Original Sutra AuthorVidyanandi
AuthorManoharlal
PublisherRamchandra Natharangji Mumbai
Publication Year1918
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy