________________
"
प्रथमोऽध्यायः ।
२२५
विजानाति न विज्ञानं बहून् बहुविधानपि । पदार्थानिति केषांचिन्मतं प्रत्यक्षवाधितम् ||१३|| प्रत्यक्षाणि बहून्येव तेष्वज्ञानानि चेत्कथम् । तद्वद्बोधक निर्भासैः शतैश्चेन्नाप्रवाधनात् ॥ १४ ॥ तद्बोधबहुतावित्तिर्बाधिकात्रेतिचेन्मतं । सा यद्येकेन बोधेन तदर्थेष्वनुमन्यताम् ॥ १५ ॥ बहुभिर्वेदनैरन्यज्ञानवेद्यैस्तु सा यदि । तदवस्था तदा प्रश्नोनवस्था च महीयसी ॥ १६ ॥ स्वतो बद्दर्थनिर्भासिज्ञानानां बहुता गतिः । नान्योन्यमनुसंधानाभावात्प्रत्यात्मवर्तिनाम् ॥ १७॥ तत्पृष्ठजो विकल्पचेदनुसंधानकृन्मतः । सोपि नानेकविज्ञानविषयस्ताव के मते ॥ १८ ॥ बर्थविषयो न स्याद्विकल्पः कथमन्यथा ।
स्पष्टः परंपरया स परिहारस्तथा सति यथैव बह्वर्थज्ञानानि बहून्येवानुसंधान विकल्पस्तत्पृष्ठः स्पष्टो व्यवस्यति तथा स्पष्टो व्यवसायः सकृद्बहून् बहुविधान् वा पदार्थानालंबतां विरोधाभावात् । परंपरया शश्वदेवं परिहृतं स्यात्ततो झटिति बह्वाद्यर्थस्यैव प्रतिपत्तेः ॥
एवं बहुत्वसंख्यायामेकस्यावेदनं ननु । संख्येयेषु बहुष्वित्ययुक्तं केचित्प्रपेदिरे ॥ १९ ॥ बहुत्वेन विशिष्टेषु संख्येयेषु प्रवर्तितः । बहुज्ञानस्य तद्भेदैकांताभावाच्च युक्तितः ॥ २० ॥ न हि बहुत्वमिदमिति ज्ञानं बहुष्वर्थेषु कस्यचिच्चकास्ति बहवोमी भावा इत्येकस्य वेदनस्यानुभवात् । संख्येयेभ्यो भिन्नामेव बहुत्वसंख्यां संचिन्वन् बहवोर्था इति चेत् तेषां सत्समवायित्वादित्ययुक्ता प्रतिपत्तिः । कुटाद्यवयविप्रतिपत्तौ साक्षात्तदारंभ कपरमाणु प्रतिपत्तिप्रसंगात् । अन्यत्र प्रतिपत्तौ नान्यत्र प्रतिपतिरितिचेत्, तर्हि बहुत्वसंवित्तौ बह्वर्थसंवित्तिरपि मा भूत् । येषां तु बहुत्वसंख्या विशिष्टेष्वर्थेषु ज्ञानं प्रवर्तमानं बहवोर्था इति प्रतीतिः तेषां न दोषोस्ति, बहुत्वसंख्यायाः संख्ये येभ्यः सर्वथा भेदानभ्युपगमात् । गुणगुणिनोः कथंचिदभेदस्य युक्त्या व्यवस्थापनात् । ततो न प्रत्यर्थवशवर्ति विज्ञानं बहुबहु - विधे संवेदनव्यवहाराभावप्रसंगात् ॥
कथं च मेचकज्ञानं प्रत्यर्थवशवर्तिनि । ज्ञाने सर्वत्र युज्येत परेषां नगरादिषु ॥ २१ ॥
न हि नगरं नाम किंचिदेकमस्ति ग्रामादि वा यतस्तद्वेदनं प्रत्यर्थवशवर्ति स्यात् । प्रासादादीनामल्पसंयुक्तसंयोगलक्षणात् प्रत्यासत्तिर्नगरादीति चेत् न, प्रासादादीनां स्वयं संयोगत्वेन संयोगांतरानाश्रयत्वात् । काष्ठेष्टकादीनां तल्लक्षणा प्रत्यासत्तिर्नगरादि भवत्वितिचेन्न, तस्याप्यनेकगत्वात् । न हि यथैकस्य काष्ठादेरेकेन केनचिदिष्टकादिना संयोगः स एवान्येनापि सर्वत्र संयोगत्वस्यैकत्वव्यापित्वादिप्रसंगात् समवायवत् । चित्रैकरूपवच्चित्रैकसंयोगो नगराद्येकमिति चेन्न, साध्यसमत्वादुदाहरणस्य । न ह्येकं चित्रं रूपं प्रसिद्धमुभयोरस्ति ॥
यथा नीलं तथा चित्रं रूपमेकं पटादिषु । चित्रज्ञानं प्रवर्तेत तत्रेत्यपि विरुध्यते ॥ २२ ॥ चित्रसंव्यवहारस्याभावादेकत्र जातुचित् । नानार्थेष्विंद्रनीलादिरूपेषु व्यवहारिणाम् ॥ २३ ॥ एकस्यानेकरूपस्य चित्रत्वेन व्यवस्थितेः । मण्यादेरिव नान्यस्य सर्वथातिप्रसंगतः ॥ २४ ॥ यथानेकवर्णमणेर्मयूरादेर्वानेकवर्णात्मकस्यैकस्य चित्रव्यपदेशस्तथा सर्वत्र रूपादावपि स व्यवतिष्ठते नान्यथा । न ह्येकत्र चित्रव्यवहारो युक्तः संतानांतरार्थनीलादिवत् नाप्यनेकत्रैव तद्वदेवेति निरूपित - प्रायम् ॥ नन्वेवं द्रव्यमेवैकमनेकस्वभावं चित्रं स्यान्न पुनरेकं रूपं । तथा च तत्र चित्रव्यवहारो न स्यात् । अत्रोच्यते—
चित्रं रूपमिति ज्ञानमेव न प्रतिहन्यते । रूपेप्यनेकरूपत्वप्रतीतेस्तद्विशेषतः ॥ २५ ॥
२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org