________________
२२४ तत्त्वार्थश्लोकवार्तिके
[सू० १६ केषां पुनरिमेवग्रहादयः कर्मणामिति । प्राह संप्रतिपत्त्यर्थं बढित्यादिप्रभेदतः ॥ १॥ __नावग्रहादीनां विषयविशेषनिर्ज्ञानार्थमिदमुच्यते प्राधान्येन । किं तर्हि । बह्वादिकर्मद्वारेण तेषां प्रभेदनिश्चयार्थ कर्मणि षष्ठीविधानात् ॥ कथं तर्हि बह्वादीनां कर्मणामवग्रहादीनां च क्रियाविशेषाणां परस्परमभिसंबंध इत्याह;
बाद्यवग्रहादीनां परस्परमसंशयम् । प्रत्येकमभिसंबंधः कार्यो न समुदायतः ॥२॥ बहोः संख्याविशेषस्यावग्रहो विपुलस्य वा । क्षयोपशमतो नुः स्यादीहावायोथ धारणा ॥३॥ इतरस्याबहोरेकद्वित्वाख्यस्याल्पकस्य वा । सेतरग्रहणादेवं प्रत्येतव्यमशेषतः ॥ ४ ॥
बहुविधस्य ब्यादिप्रकारस्य विपुलप्रकारस्य वा तदितरस्यैकद्विप्रकारस्याल्पप्रकारस्य वा, क्षिप्रस्याचिरकालप्रवृत्तेरितरस्य चिरकालप्रवृत्तेः, अनिःसृतस्यासकलपुद्गलोद्गतिमत इतरस्य सकलपुद्गलोद्गतिमतः, अनुक्तस्याभिप्रायेण विज्ञेयस्येतरस्य सर्वात्मना प्रकाशितस्य, ध्रुवस्याविचलितस्येतरस्य विचलितस्यावग्रह इत्यशेपतोवग्रहः संबंधनीयः, तथेहा तथावायस्तथा धारणेति समुदायतोभिसंबंधोनिष्टप्रतिपत्तिहेतुः प्रतिक्षिप्तो भवति ॥ कथं बहुबहुविधयोस्तदितरयोश्च भेद इत्याह;
व्यक्तिजात्याश्रितत्वेन तयोर्बहुविधस्य च । भेदः परस्परं तद्वद्धोध्यस्तदितरस्य च ॥५॥
व्यक्तिविशेषौ बहुत्वतदितरत्वधर्मी जातिविषयौ तु बहुविधत्वतदितरत्वधर्माविति बहुबहुविधयोस्तदितरयोश्च भेदः सिद्धः । एवं बढेकविधयोरभेद इत्यपास्तं बहूनामप्यनेकानामेकप्रकारत्वं ह्येकविधं न पुनर्बहुत्वमेवेत्युदाहृतं द्रष्टव्यम् ॥
क्षिप्रस्थाचिरकालस्याध्रुवस्य चलितात्मनः । स्वभावैक्यं न मंतव्यं तथा तदितरस्य च ॥६॥ ___ अचिरकालत्वं ह्याशुप्रतिपत्तिविषयत्वं चलितत्वं पुनरनियतप्रतिपत्तिगोचरत्वमिति स्वभावभेदात् क्षिप्राध्रुवं नैक्यमवसेयं । तथा तदितरयोरक्षिप्रध्रुवयोस्तत एव ।।
निःशेषपुद्गलोद्गत्यभावाद्भवति निःसृतः । स्तोकपुद्गलनिष्क्रांतेरनुक्तस्त्वाभिसंहितः ॥७॥?) निष्क्रांतो निःसृतः कात्स्यादुक्तः संदर्शितो मतः। इति तद्भेदनिर्णीतेरयुक्तैकत्वचोदना ॥८॥
अनिःसृतानुक्तयोनिःसृतोक्तयोश्च नैकत्वचोदना युक्ता लक्षणभेदात् ।। कुतो बह्वादीनां प्राधान्येन तदितरेषां गुणभावेन प्रतिपादनं न पुनर्विपर्ययेणेत्यत्रोच्यते
तत्र प्रधानभावेन बहादीनां निवेदनं । प्रकृष्टावृत्तिविश्लेषविशेषात नुः समुद्भवात् ॥९॥ तद्विशेषणभावेन कथं चात्राल्पयोग्यतां । समासृत्य समुद्भूतेरितरेषां विधीयते ॥ १० ॥ अथ बह्वादीनां क्रमनिर्देशकारणमाह;बहुज्ञानसमभ्यय॑ विशेषविषयत्वतः । स्फुटं बहुविधज्ञानाजातिभेदावभासिनः ॥ ११ ॥ तत्क्षिप्रज्ञानसामान्यात्तच्चानिःमृतवेदनात् । तदनुक्तगमात्सोपि ध्रुवज्ञानात्कुंतश्चन ॥ १२ ॥
तत्तद्विषयत्वादेर्बह्वादीन् समभ्यर्हितान् तथा बोध्यं तद्वाचकानां च क्रमनिर्देशकारणं । बह्वादीनां हि शब्दानामितरेतरयोगे द्वंद्वे बहुशब्दो बहुविधशब्दालाक् प्रयुक्तोभ्यर्हितत्वात् सोपि क्षिप्रशब्दात् सोप्यनिःसृतशब्दात्सोप्यनुक्तशब्दात् सोपि ध्रुवशब्दात् । एवं कथं शब्दानामभ्यर्हितत्वं? तद्वाच्यानामर्थानामभ्यर्हितत्वात् । तदपि कथं ? तद्राहिणां ज्ञानानामभ्यर्हितत्वोपपत्तेः । सोपि ज्ञानावरणवीर्यातरायक्षयोपशमविशेषप्रकर्षादुक्तविशुद्धिप्रकर्षस्य परमार्थतोभ्यर्हितस्य भावादिति । तदेव यथोक्तकमनिर्देशकस्य कारणमवसीयते कारणांतरस्याप्रतीतेः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org