________________
२२३
प्रथमोऽध्यायः । नन्वेवं परस्यापि समानेतरज्ञानसंतानैकत्वमदृष्टविशेषादेवाविरुद्धमतोक्षज्ञानसमनंतरप्रत्ययं निश्चयात्मकं मानसप्रत्यक्षं सिद्ध्यतीत्यभ्युपगमेपि दूषणमाह;
प्रत्यक्ष मानसं स्वार्थनिश्चयात्मकमस्ति चेत् । स्पष्टाभमक्षविज्ञानं किमर्थक्यादुपेयते ॥ ५६ ॥
अक्षसंवेदनाभावे तस्योत्पत्तौ विरोधतः । सर्वेषामंधतादीनां कृतं तत्कल्पनं यदि ॥ ५७ ॥ . तदाक्षानिद्रियोत्याचं स्वार्थनिश्चयनात्मकं । रूपादिवेदनं युक्तमेकं ख्यापयितुं सताम् ॥५८॥
यथैव ह्यक्षव्यापाराभावे मानसप्रत्यक्षस्य निश्चयात्मकस्योत्पत्तौ जात्यंधादीनामपि तदुत्पत्तिप्रसंगादंधबधिरतादिविरोधस्तथा मनोव्यापारापायेप्यक्षज्ञानस्योत्पत्तिर्विगुणमनस्कस्यापि तदुत्पत्तिप्रसंगात् मनस्कारापेक्षत्वविरोध इत्यक्षमनोपेक्षमक्षज्ञानमक्षमनोपेक्षत्वादेव च निश्चयात्मकमस्तु किमन्येन मानसप्रत्यक्षेण ।। ननु यद्येकमेवेदमिंद्रियानिद्रियनिमित्तरूपादिज्ञानं तदा कथं क्रमतोवग्रहेहावभावौ परस्परं भिन्नौ स्यातां नोचेत्कथमेकं तद्विरोधादित्यत्रोच्यते
क्रमादवग्रहेहात्मद्रव्यपर्यायगोचरं । जीवस्यावृत्तिविच्छेदविशेषक्रमहेतुकम् ॥ ५९ ॥ तत्समक्षेतरव्यक्तिशक्त्येकार्थवदेकदा । न विरुद्धं विचित्राभज्ञानवद्वा प्रतीतितः ॥ ६० ॥
प्रत्यक्षपरोक्षव्यक्तिरूपमेकमर्थं विचित्राभासं ज्ञानं वा स्वयम विरुद्धं युगपदभ्युपगच्छत् क्रमतो द्रव्य. पर्यायात्मकमर्थ परिच्छिददवग्रहेहावभावभिन्नमेकं मतिज्ञानं विरुद्धमुद्भावयतीति कथं विशुद्धात्मा ? तदशक्यविवेचनस्याविशेषात् । न ह्ये कस्यात्मनो वर्णसंस्थानादिविशेषणद्रव्यतद्विशेष्यग्राहिणावग्रहेहाप्रत्ययौ खहेतुक्रमाक्रमशो भवन्न वात्मांतरं नेतुं शक्यौ संतौ शक्यविवेचनौ न स्यातां चित्रज्ञानवत् तथा प्रतीतेरविशेषात् । कथं पुनरवायः स्यादित्याह;
अवग्रहगृहीतार्थभेदमाकांक्षतोक्षजः । स्पष्टोवायस्तदावारक्षयोपशमतोत्र तु ॥ ६१ ॥ संशयो वा विपर्यासस्तदभावे कुतश्चन । तेनेहातो विभिन्नोसौ संशीतिभ्रांतिहेतुतः ॥ ६२॥ विपरीतस्वभावत्वात्संशयाधनिबंधनं । अवायं हि प्रभाषते केचिद् दृढतरत्वतः ॥ ६३ ॥ अक्षज्ञानतया त्वैक्यमीहयावग्रहेण च । यात्यवायः क्रमात्पुंसस्तथात्वेन विवर्तनात् ॥ ६४ ॥ विच्छेदाभावतः स्पष्टप्रतिभासस्य धारणा । पर्यंतस्योपयुक्ताक्षनरस्यानुभवात्स्वयम् ॥ ६५ ॥
ननु च यत्रैवावग्रहगृहीतार्थस्य विशेषप्रवर्तनमीहायास्तत्रैवावायस्य धारणायाश्च ततो नावायधारणायाः प्रमाणत्वं गृहीतग्रहणादिति पराकूतमनूद्य प्रतिक्षिपन्नाह;--
अवायस्य प्रमाणत्वं धारणायाश्च नेष्यते । समीहयेहिते स्वार्थे गृहीतग्रहणादिति ॥६६॥ तदानुमाप्रमाणत्वं व्याप्रियात्तत एव ते । इत्युक्तं स्मरणादीनां प्रामाण्यप्रतिपादने ॥ ६७ ॥
सत्यपि गृहीतग्राहित्वेवायधारणयोः खस्मिन्नर्थे च प्रमाणत्वं युक्तमुपयोगविशेषात् । न हि यथेहा गृह्णाति विशेष कदाचित्संशयादिहेतुत्वेन तथा चावायः तस्य दृढतरत्वेन सर्वदा संशयाद्यहेतुत्वेन व्यापारात् । नापि यथावायः कदाचिद्विस्मरणहेतुत्वेनापि तत्र व्याप्रियते तथा धारणा तस्याः कालांतराविस्मरणहेतुत्वेनोपयोगादीहावायाभ्यां दृढतमत्वात् । प्रपंचतो निश्चितं चैतत्स्मरणादिप्रमाणत्वप्ररूपणायामिति नेह प्रतन्यते ॥
बहुबहुविधक्षिणानिसृतानुक्तध्रुवाणां सेतराणाम् ॥ १६ ॥ किमर्थमिदं सूत्रं ब्रवीति । यद्यवग्रहादिविषयविशेषनिर्ज्ञानार्थ तदा न वक्तव्यमुत्तरत्र सर्वज्ञानानां विषयप्ररूपणात् प्रयोजनांतराभावादिति मन्यमानं प्रत्याह;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org