________________
२२२ तत्त्वार्थश्लोकवार्तिके
[सू०१५ व्यवस्थानाद्विरोधानवतारात् । कथमेकं ज्ञानं करणं क्रिया च युगपदिति चेत् तच्छक्तिद्वययोगात् पावकादिवत् । पावको दहत्यौष्ण्येनेत्यत्र हि दहनक्रिया तत्कारणं चौष्ण्यं युगपत्पावके दृष्टं तच्छक्तिद्वयसंबंधादिति निर्णीतप्रायं । नन्वथोपि वैशद्यस्य प्रतिसंख्यानानिरोध्यत्वस्य चासंभवान्न ततोवग्रहस्याक्षजत्वसिद्धिरिति पराकूतमुपदा निराकुरुते;निर्विकल्पकया दृष्ट्या गृहीतेथे स्वलक्षणे । तदान्यापोहसामान्यगोचरोवग्रहः स्फुटः ॥ ३२ ॥ सहभावो विकल्पोपि निर्विकल्पकया दृशा । परिकल्पनया वातो निषेध्य इति केचन ॥३३॥ तदसत्वार्थसंवित्तरविकल्पत्वदूषणात् । सदा स व्यवसायाक्षज्ञानस्यानुभवात्स्वयम् ॥ ३४ ॥ मनसोयुगपत्तिः सविकल्पाविकल्पयोः । मोहादैक्यं व्यवस्संतीत्यसत्पृथगपीक्षणात् ॥ ३५॥ लैंगिकादिविकल्पस्यास्पष्टात्मत्वोपलंभनात् । युक्ता नाक्षविकल्पानामस्पष्टात्मकतोदिता॥३६॥ अन्यथा तैमिरस्याक्षज्ञानस्य भ्रांततेक्षणात् । सर्वाक्षसंविदो भ्रांत्या किन्नोद्यते विकल्पकैः॥३७॥ सहभावोपि गोदृष्टितुरंगमविकल्पयोः । किन्नैकत्वं व्यवस्यंति स्वेष्टदृष्टिविकल्पवत् ॥ ३८ ॥ प्रत्यासत्तिविशेषस्याभावाचेत्सोत्र कोपरः । तादात्म्यादेकसामग्र्यधीनत्वस्याविशेषतः॥३९॥ तादृशी वासना काचिदेकत्वव्यवसायकृत् । सहभावाविशेषेपि कयोश्चिद् दृग्विकल्पयोः॥४०॥ साभीष्टा योग्यतामाकं क्षयोपशमलक्षणा । स्पष्टत्वेक्षविकल्पस्य हेतुर्नान्यस्य जातुचित् ॥४१॥ तन्निर्णयात्मकः सिद्धोवग्रहो वस्तुगोचरः । स्पष्टाभोक्षबलोद्भूतोऽस्पष्टो व्यंजनगोचरः ॥४२॥
स्पष्टाक्षावग्रहज्ञानावरणक्षयोपशमयोग्यता हि स्पष्टाक्षावग्रहस्य हेतुरस्पष्टाक्षावग्रहज्ञानावरणक्षयोपशमलक्षणा पुनरस्पष्टाक्षावग्रहस्येति तत एवोभयोरप्यवग्रहः सिद्धः परोपगमस्य वासनादेस्तद्धेतुत्वासंभवात् । संप्रतीहां विचारयितुमुपक्रम्यते । किमनिंद्रियजैवाहोखिदक्षजैवोभयजैव वेति । तत्र
नेहानिंद्रियजैवाक्षव्यापारापेक्षणा स्फुटा । स्वाक्षव्यापृत्यभावेसाः प्रभवाभावनिर्णयात् ॥४३॥
न हि मानसं प्रत्यक्षमीहास्तु स्पष्टत्वादक्षज्ञानसमनंतरप्रत्ययत्वाच निश्चयात्मकमपि जात्यादिकल्पनारहितमभ्रांतं चेति कश्चित् । तदनिश्चयात्मकमेव निर्विकल्पस्याभ्रांतस्य च निश्चयात्मविरोधादित्यपरः । तन्मतमपाकुर्वन्नाह;
नापीयं मानसं ज्ञानमक्षवित्समनंतरं । निश्चयात्मकमन्यद्वा स्पष्टाभं तत एव नः ॥ ४४ ॥ तस्य प्रत्यक्षरूपस्य प्रमाणेन प्रसिद्धितः । स्वसंवेदनतोन्यस्य कल्पनं किमु निष्फलम् ॥४५॥ मानसस्मरणस्साक्षज्ञानादुत्पत्त्यसंभवात् । विजातीयात्प्रकल्प्येत यदि तत्तस्य जन्म ते ॥४६॥ तदाक्षवेदनं न स्यात्समनंतरकारणम् । मनोध्यक्षस्य तस्यैव वैलक्षण्याविशेषतः ॥४७॥ प्रत्यक्षत्वेन वैशद्यवस्तुगोचरतात्मना । सजातीयं मनोध्यक्षमक्षज्ञानेन चेन्मतम् ॥४८॥ स्मरणं संविदात्मत्वसंतानैक्येन वस्तथा । किन्न सियेद्यतस्तस्य तत्रोपादानकारकम् ॥ ४९ ॥ अन्यथा न मनोध्यक्षं स्मरणेन सलक्षणं । अस्योपादानतापायादित्यनर्थककल्पनम् ।। ५० ॥ स्मरणाक्षविदोभिन्नौ संतानौ चेदनर्थकम् । मनोध्यक्षं विनाप्यस्मात्स्मरणोत्पत्तिसंभवात् ॥५१॥ अक्षज्ञानं हि पूर्वमादक्षज्ञानान्यथोदियात् । स्मृतिः स्मृतेस्तथानादिकार्यकारणतेदृशी ॥५२॥ संतानैक्ये तयोरक्षज्ञानात्स्मृतिसमुद्भवः । पूर्व तद्वासना युक्तादक्षज्ञानं च केवलात् ॥ ५३ ॥ सह स्मृत्यक्षविज्ञाने ततः स्यातां कदाचन । सौगतानामिति व्यर्थ मनोध्यक्षप्रकल्पनं ॥५४॥ स्थाद्वादिनां पुनर्ज्ञानावृत्तिच्छेदविशेषतः । समानेतरविज्ञानसंतानो न विरुध्यते ॥ ५५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org