________________
प्रथमोऽध्यायः ।
२२१
नन्ववग्रहविज्ञानं दर्शनाज्जायते यदि । तस्येंद्रियमनोजत्वं तदा किं न विरुध्यते ॥ १५ ॥ पारंपर्येण तज्जत्वात्तस्येहादिविदामिव । को विरोधः क्रमाद्वाक्षमनोजन्यत्वनिश्चयात् ॥ १६ ॥ इंद्रियानिंद्रियाभ्यां हि यस्त्वालोचनमात्मनः । स्वयं प्रतीयते यद्वत्तथैवावग्रहादयः ॥ १७ ॥ य एवाहं किंचिदिति वस्तुमात्र मंद्रियानिंद्रियाभ्यामद्राक्षं स एव तद्वर्णसंस्थानादिसामान्यभेदेनावगृह्णामि तद्विशेषात्मनाकांक्षामि तदेव तथावैमि तदेव धारयामीति क्रमशः स्वयं दर्शनावग्रहादीनामिंद्रियानिंद्रियोत्पाद्यत्वं प्रतीयते प्रमाणभूतात्प्रत्यभिज्ञानात् क्रमभाव्यनेकपर्यायव्यापिनो द्रव्यस्य निश्चयादित्युक्तप्रायम् ॥ वर्णसंस्थादिसामान्यं यत्र ज्ञानेवभासते । तन्नो विशेषणज्ञानमवग्रहपराभिधम् ॥ १८ ॥ विशेषनिश्चयो वा य इत्येतदुपपद्यते । ज्ञानेनेहाभिलाषात्मा संस्कारात्मा न धारणा ॥ १९ ॥ इति केचित्प्रभाषते तच्च न व्यवतिष्ठते । विशेषवेदनस्येह दृढस्येहात्वसूचनात् ॥ २० ॥ ततो दृढतरावायज्ञानाद् दृढतमस्य च । धारणत्वप्रतिज्ञानात् स्मृतिहेतोर्विशेषतः ॥ २१ ॥ अज्ञानात्मकतायां तु संस्कारस्येह तस्य वा । ज्ञानोपादानता न स्याद्रूपादेवि सास्ति च ||२२|| सुखादिना न चात्रास्ति व्यभिचारः कथंचन । तस्य ज्ञानात्मकत्वेन स्वसंवेदन सिद्धितः॥२३॥ सर्वेषां जीवभावानां जीवात्मत्वार्पणान्नयात् । संवेदनात्मतासिद्धेर्नाम सिद्धान्न संभवः ॥ २४ ॥ औपशमिकादयो हि पंच जीवस्य भावाः संवेदनात्मका एवोपयोगस्वभावजीवद्रव्यार्थादेव । तत्र केषांचिदसंवेदनात्मत्वोपदेशादन्यथा तद्व्यवस्थितिविरोधादिति वक्ष्यते ॥
तत एव प्रधानस्य धर्मा नावग्रहादयः । आलोचनादिनामानः स्वसंवित्तिविरोधतः ॥ २५ ॥ आलोचनसंकल्पनाभिमननाध्यवसाननामानोवग्रहादयः प्रधानस्य विवर्ताश्चेतनाः पुंसः स्वभाव इति येप्याहुस्तेपि न युक्तवादिनः, खसंवेदनात्मकत्वादेव तेषामात्मस्वभावत्वप्रसिद्धेरन्यथोपगमे खसंवित्ति - विरोधात् । न हीदं स्वसंवेदनं भ्रांतं बाधकाभावादित्युक्तं पुरस्तात् ॥
ननु दूरे यथैतेषां क्रमशोर्थे प्रवर्तनं । संवेद्यते तथासन्ने किन्न संविदितात्मनाम् ॥ २६ ॥ विशेषणविशेष्यादिज्ञानानां सममीदृशं । वेद्यं तत्र समाधानं यत्तदत्रापि युज्यते ॥ २७ ॥ तथैवालोचनादीनां गादीनां च बुध्यते । संबंधस्मरणादीनामनुमानोपकारिणाम् ॥ २८ ॥ अत्यंताभ्यासतो ह्याशु वृत्तेरनुपलक्षणम् । क्रमशो वेदनानां स्यात्सर्वेषामविगानतः ।। २९ ।। ततः क्रमभुवोवग्रहादयो अनभ्यस्तदेशादाविवाभ्यस्तदेशादौ सिद्धाः खावरणक्षयोपशमविशेषाणां क्रमभावित्वात् ॥ अत्रापरः प्राह । नाक्षजोवग्रहस्तस्य विकल्पात्मकत्वात्तत एव न प्रमाणमवस्तु विषयत्वादिति तं प्रत्याह; —–
द्रव्यपर्यायसामान्यविषयोवग्रहोक्षजः । तस्यापरविकल्पेनानिषेध्यत्वात् स्फुटत्वतः ॥ ३० ॥ संवादकत्वतो मानं स्वार्थव्यवसितेः फलं । साक्षाद्व्यवहितं तु स्यादीहा हानादिधीरपि ||३१|| द्रव्यपर्यायसामान्यविषयोवग्रहोक्षजो युक्तः प्रतिसंख्यानेनाविरोध्यत्वाद्विशदत्वाच्च । तस्यानक्षजत्वे तदयोगात् । शक्यं हि कल्पनाः प्रतिसंख्यानेन निवारयितुं नेंद्रियबुद्धय इति स्वयमिष्टेः । मनोविकल्पस्य वैशद्यानिषेधोप्रमाणं चायं संवादकत्वात्साधकतमत्वादनिश्चितार्थनिश्चायकत्वात् प्रतिपत्रपेक्षणीयत्वाच्च । न पुनर्निर्विकल्पकं दर्शनं तद्विपरीतत्वात्सन्निकर्षादिवत् । फलं पुनरवग्रहस्य प्रमाणत्वे स्वार्थव्यवस्थितिः साक्षात्परं परया त्वीहा हानादिबुद्धिर्वा । ननु च प्रमाणात्फलस्याभेदे कथं प्रमाणफलव्यवस्था विरोधादितिचेत् न, एकस्यानेकात्मनो ज्ञानस्य साधकतमत्वेन प्रमाणत्वव्यवस्थितेः । क्रियात्वेन फलत्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org