________________
तत्त्वार्थश्लोकवार्तिके
[सू० १५
गृहीतार्थसामान्ये यद्विशेषस्य कांक्षणम् । निश्चयाभिमुखं सेहा संशीर्भिन्नलक्षणा ॥ ३ ॥ तस्यैव निर्णयोवायः स्मृतिहेतुः सा धारणा । इति पूर्वोदितं सर्व मतिज्ञानं चतुर्विधम् ॥४॥ सामानाधिकरण्यं तु तदेवावग्रहादयः । तदिति प्राक्सूत्रतच्छब्द संबंधादिह युज्यते ॥ ५ ॥ तदिंद्रिया निंद्रियनिमित्तमित्यत्र पूर्वसूत्रे यत्तग्रहणं तस्येह संबंधात्सामानाधिकरण्यं युक्तं तदेवावग्रहादय इति भावतद्वतोर्भेदात्तस्यावग्रहादयोभिहितलक्षणा इति वैयधिकरण्यमेवेति नाशंकनीयं तयोः कथं-चिदभेदात्सामानाधिकरण्यघटनात् । भेदैकांते तदनुपपत्तेः सह्यविंध्यवदित्युक्तप्रायम् ॥
२२०
तत्र यद्वस्तुमात्रस्य ग्रहणं पारमार्थिकम् । द्विधा त्रेधा कचिज्ज्ञानं तदित्येकं न चापरम् ॥ ६ ॥ तन्न साध्वक्षजस्यार्थभेदज्ञानस्य तत्त्वतः ।
स्पष्टस्यानुभवाद्बाधाविनिर्मुक्तत्वमिष्टमन्यथा तदव्यवस्थानात् तच्चार्थभेदज्ञानस्यापि स्पष्टस्यानुभूयते । प्रतिनियतकालसंवेदनेन कथमस्मदादेस्तत्र सर्वदा बाधरहितत्वं सिद्ध्येदितिचेत् प्रतिभासमात्रे कथं सकृदपि बाधानुपलंभनात्सर्वदा बाधासंभवनानुपपत्तेरिति चेत् भेदप्रतिभासेपि । तत एव चंद्रद्वयादिवेदने भेदप्रतिभासस्य बाधोपलंभादन्यत्रापि बाधसंभवनान्न भेदप्रतिभासे सदा बाघवैधुर्य सिद्ध्यतीति चेत्तर्हि वकुलतिलकादिवेदने दूरादभेदप्रतिभासस्य बाधसहितस्योपलंभनादभेदप्रतिभासेपि सदा बाधशून्यत्वं मासिधत् । तत्रापि प्रतिभासमात्रस्य बाधानुपलंभ इति चेत् चंद्रद्वयादिवेदनेपि विशेषमात्रप्रतिभासे बाधानुपलंभ एवेत्युपालंभसमाधानानां समानत्वादलमतिनिर्बंधनेन । ननु च विषयस्य सत्यत्वे संवेदनस्य सत्यत्वमिति न्याये प्रतिभासमात्रमेव परमब्रह्म सत्यं तद्विषयस्य सन्मात्रस्य सत्यत्वान्न भेदज्ञानं तद्गोचरस्यासत्यत्वादिति मतमनूद्य दूषयन्नाह; —
ननु सन्मात्रकं वस्तु व्यभिचारविमुक्तितः । न भेदो व्यभिचारित्वात्तत्र ज्ञानं न तात्त्विकम् ॥ ७॥ इत्ययुक्तं सदाशेषविशेषविधुरात्मनः । सत्त्वस्यानुभवाभावाद्भेदमात्रकवस्तुवत् ॥ ८ ॥ दृष्टेर भेदभेदात्मवस्तुन्यव्यभिचारतः । पारमार्थिकता युक्ता नान्यथा तदसंभवात् ॥ ९ ॥ न हि सकल विशेषविकलं सन्मात्रमुपलभामहे निःसामान्यविशेषवत् सत्सामान्य विशेषात्मनो वस्तुनो दर्शनात् । न च तद्यभिचारोस्ति केनचित्सद्विशेषणरहितस्य सन्मात्रस्योपलभेपि सद्विशेषांतर हितस्यानुपलंभनात् । ततस्तस्यैव सत्सामान्यविशेषात्मनोर्थस्याव्यभिचारित्वलक्षणं पारमार्थिकत्वं युक्तमिति तद्विधातृप्रत्यक्षं सिद्धम् ॥
जात्यादिकल्पनोन्मुक्तं वस्तुमात्रं स्वलक्षणम् । तज्ज्ञानमक्षजं नान्यदित्यप्येतेन दूषितम् ॥ १० ॥ किं पुनरेवं स्याद्वादिनो दर्शनमवग्रहपूर्वकालभावि भवेदित्यत्रोच्यते
किंचिदित्यवभास्यत्र वस्तुमात्रमपोद्धृतं । तद्राहि दर्शनं ज्ञेयमवग्रहनिबंधनम् ॥ ११ ॥ अनेकांतात्मके भावे प्रसिद्धेपि हि भावतः । पुंसः स्वयोग्यतापेक्षं ग्रहणं कचिदशतः ॥ १२ ॥ तेनार्थमात्रनिर्भासाद्दर्शनाद्भिन्नमिष्यते । ज्ञानमर्थविशेषात्माभासि वित्त्वेन तत्समम् ॥ १३ ॥ कृतो भेदो नयात्सत्तामात्रज्ञात्संग्रहात्परम् । नरमात्राच नेत्रादिदर्शनं वक्ष्यतेग्रतः ॥ १४ ॥ न हि सन्मात्रग्राही संग्रहो नयो दर्शनं स्यादित्यतिव्याप्तिः शंकनीया तस्य श्रुतभेदत्वादस्पष्टावभासितया नयत्वोपपत्तेः श्रुतभेदा नया इति वचनात् । नाप्यात्ममात्रग्रहणं दर्शनं चक्षुरवधिकेवलदर्शनानामभावप्रसंगात् । चक्षुराद्यपेक्षस्यात्मनस्तदावरणक्षयोपशमविशिष्टस्य चक्षुर्दर्शनादिविभागभावे तु नात्ममात्रग्रहणे दर्शन व्यपदेश: श्रेयानित्यग्रे प्रपंचतो विचारयिष्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org