________________
२१९
प्रथमोऽध्यायः । यो जनकः खाकारार्पणक्षमश्च स ग्राह्यो ज्ञानस्य न पुनः समनंतरत्वेनाधिपतित्वेन वा यतो व्यभिचार इति चेदितराश्रयप्रसंगात् । सत्यालंबनत्वेन जनकत्वेर्थस्य ज्ञानालंबनत्वं सति च तस्मिन्नालंबनत्वेन जनकस्य ग्राह्यत्वाव्यभिचारात् । परमाणुना व्यभिचार इत्यपि न श्रेयः परमाणोरेकस्यालंबनत्वेन ज्ञान
जनकत्वासंभवात् । संचितालंबनाः पंच विज्ञानकाया इति वचनात् । प्रत्येकं परमाणूनामालंबनत्वेन ते • बुद्धिगोचरा इति ग्रंथविरोधात् । तर्हि योधिपतिसमनंतरालंबनत्वेनाजनको निमित्तमात्रत्वेन जनकः
खाकारार्पणक्षमः खसंवेदनस्य ग्राह्योस्त्वव्यभिचारादिति चेन्न, तस्यासंभवात् । न हि संवेदनस्याधिपत्यादिव्यतिरिक्तोन्यः प्रत्ययोस्ति । तत्सामान्यमस्तीति चेत् न, तस्यावस्तुत्वेनोपगमाजनकत्वविरोधात् । वस्तुत्वे तस्य ततो तरत्वे तदेव ग्राह्यं स्यान्न पुनरर्थो नीलादिहेतुत्वसामान्यजनकनीलाद्यर्थो ग्राह्यः संवेदनस्येति ब्रुवाणः कथं जनक एव ग्राह्य इति व्यवस्थापयेत् । ततो न पूर्वकालोर्थः संविदो ग्राह्यः । किं तर्हि समानसमय एवेति प्रतिपत्तव्यं । नन्वेवं योगिविज्ञानं श्रुतज्ञानं स्मृतिप्रत्यभिज्ञादि वा कथमसमानकालार्थपरिच्छिदिः सिद्ध्येदिति चेत् समानसमयमेव ग्राह्यं संवेदनस्येति नियमाभावात् । अक्षज्ञानं हि खसमयवर्तिनमर्थ परिच्छिनत्ति स्वयोग्यताविशेषनियमाद्यथा स्मृतिरनुभूतमात्र पूर्वमेव प्रत्यभिज्ञातीतवर्त. मानपर्यायवृत्त्येकं पदं चिंता त्रिकालसाध्यसाधनव्याप्ति खार्थानुमानं त्रिकालमनुमेयं श्रुतज्ञानं त्रिकालगोचरानंतव्यंजनपर्यायात्मकान् भावान् अवधिरतीतवर्तमानानागतं च रूपिद्रव्यं मनःपर्ययोऽतीतानागतान् वर्तमानांश्चार्थान् परमनोगतान् , केवलं सर्वद्रव्यपर्यायानिति वक्ष्यतेग्रतः ॥
ततो नाकारणं वित्तेविषयोस्तीति दुर्घटम् । यं रूपस्याप्रवेद्यत्वापत्तेः कारणतां विना ॥१२॥ संवेदनस्य नाकारणं विषय इति नियमे खरूपस्याप्रवेद्यत्वमकारणत्वात् तद्वद्वर्तमानानागतानामतीतानां वा कारणानां योगिज्ञानाविषयत्वं प्रसज्यते ॥
अस्वसंवेद्यविज्ञानवादी पूर्व निराकृतः । परोक्षज्ञानवादी चेत्यलं संकथयानया ॥१३॥
ततः सूक्तमिदमुत्तरावधारणं परमतालंबनजन्यत्वव्यवच्छेदार्थ सूत्रे पूर्व तु मत्यज्ञाननिवृत्त्यर्थं संज्ञिपंचेंद्रियजमेवेति तदेवेंद्रियानिद्रियनिमित्तमुच्यते । संज्ञिपंचेंद्रियाणां मिथ्यादृशां मत्यज्ञानमपींद्रियानिद्रियनिमित्तमस्ति तस्य कुतो व्यवच्छेदः सम्यगधिकारात् । तत एवासंज्ञिपंचेंद्रियांतानां मत्यज्ञानस्य व्यवच्छेदोस्तु न हि श्रुतव्यवच्छेदाथै पूर्वावधारणं तस्यानिद्रियमात्रनिमित्तत्वात् । तथा मिथ्यादृशां दर्शनमोहोपहतमनिद्रियं सदप्यसत्कल्पनेति विवक्षायां तद्वेदनमिंद्रियजमेवेति मत्यज्ञानं सर्वत उभयनिमित्तं ततस्तद्यवच्छेदार्थं च युक्तं पूर्वावधारणम् ॥
अवग्रहेहावायधारणाः ॥१५॥ किमर्थमिदमुच्यते न तावत्तन्मतिभेदानां कथनार्थ मतिः स्मृत्यादिसूत्रेण कथनात् । नापि मतेरज्ञानभेदकथनार्थ प्रमाणांतरत्वप्रसंगादिति मन्यमानं प्रत्युच्यते;
मतिज्ञानस्य निर्णीतप्रकारस्यैकशो विदि । मिदामवग्रहत्यादिसूत्रमाहाविपर्ययम् ॥१॥ मतिज्ञानस्य निर्णीताः प्रकारा मतिस्मृत्यादयस्तेषां प्रत्येकं भेदानां वित्त्यैकसूत्रमिदमारभ्यते । यथैव हींद्रियमनोमतेः स्मृत्यादिभ्यः पूर्वमवग्रहादयो भेदास्तथानिंद्रियनिमित्ताया अपीति प्रसिद्धं सिद्धांते ॥ किंलक्षणाः पुनरवग्रहादय इत्याह;अक्षार्थयोगजाद्वस्तुमात्रग्रहणलक्षणात् । जातं यद्वस्तुभेदस्य ग्रहणं तदवग्रहः ॥२॥
नागवं प्रसज्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org