________________
२१८ तत्त्वार्थश्लोकवार्तिके
[सू०१४ वाक्यभेदाश्रये युक्तमवधारणमुत्तरं । तदभेदे पुनः पूर्वमन्यथा व्यभिचारिता ॥ ४ ॥ कुतः पुनरवधारणादन्यमतच्छित्कुतो वा मत्यज्ञानं श्रुतादीनि च व्यवच्छिन्नानीत्याह;ध्वस्तं तत्रार्थजन्यत्वमुत्तरादवधारणात् । मत्यज्ञानश्रुतादीनि निरस्तानि तु पूर्वतः ॥ ५ ॥
अत्रार्थजन्यमेव विज्ञानमनुमानात्सिद्धं नार्थाजन्यं यतस्तव्यवच्छेदार्थमुत्तरावधारणं स्यादिति मन्यमानस्यानुमानमुपन्यस्य दूषयन्नाह;
खजन्यज्ञानसंवेद्यार्थः प्रमेयत्वतो ननु । यथानिंद्रियमित्येके तदसयभिचारतः ॥ ६ ॥ निःशेषवर्तमानार्थो न स्वजन्येन सर्ववित् । संवेदनेन संवेद्यः समानक्षणवर्तिना ॥७॥ स्वार्थजन्यमिदं ज्ञानं सत्यज्ञानत्वतोन्यथा । विपर्यासादिवत्तस्य सत्यत्वानुपपत्तितः ॥८॥ इत्यप्यशेषविद्धोधैरनैकांतिकमीरितं । साधनं न ततो ज्ञानमर्थजन्यमिति स्थितम् ॥९॥
नन्वेवमालोकजन्यत्वमपि ज्ञानस्य चाक्षुषस्य तस्यादिष्टं च तदन्यथानुपपत्तेः । परप्रत्ययः पुनरालोकलिंगादिरिति वचनात् । तदन्वयव्यतिरेकानुविधानात्तस्य तज्जन्यत्वार्थजन्यत्वमपि सत्यस्यास्मदादिज्ञानस्यास्तु विशेषाभावात् । न चैवं संशयादिज्ञानमंतरेण विरुध्यते तस्य सत्यज्ञानत्वाभावात् । नापि सर्वविद्वोधैरनैकांतिकत्वमस्मदादिसत्यज्ञानत्वस्य हेतुत्वात् । अस्मदादिविलक्षणानां तु सर्वविदां ज्ञानं चार्थाजन्यं निश्चित्यास्मदादिज्ञानेाजन्यत्वशंकायां नक्तंचराणां मार्जारादीनामंजनादिसंस्कृतचक्षुषां वास्मद्विजातीयानामालोकाजन्यत्वमुपलभ्यास्मदादीनामपि नार्थावेदनस्यालोकाजन्यत्वं शंकनीयमिति कश्चित् तं प्रत्याह;
आलोकेनापि जन्यत्वेनालंबनतया भिदः । किं त्विद्रियबलाधानमात्रत्वेनानुमन्यते ॥१०॥ तथार्थजन्यतापीष्टा कालाकाशादितत्त्ववत् । सालंबनतया त्वर्थो जनकः प्रतिषिध्यते ॥११॥
इदमिह संप्रधार्य किमस्मदादिसत्यज्ञानत्वेनालोको निमित्तमात्रं चाक्षुषज्ञानस्येति प्रतिपाद्यते कालाकाशादिवत् आहोस्खिदालंबनत्वेनेति ? प्रथमकल्पनायां न किंचिदनिष्टं द्वितीयकल्पना तु न युक्ता प्रतीतिविरोधात् । रूपज्ञानोत्पत्तौ हि चक्षुर्बलाधानरूपेणालोकः कारणं प्रतीयते तदन्वयव्यतिरेकानुविधानस्यान्यथानुपपत्तेः तद्वदर्थोपि यदाद्यक्षणज्ञानस्य जनकः स्यान्न किंचिद्विरुध्यते तस्यालंबनत्वेन जनकत्वोपगमे व्याघातात् । आलंबनं ह्यालंबनत्वं ग्राह्यत्वं प्रकाश्यत्वमुच्यते तच्चार्थस्य प्रकाशकसमानकालस्य दृष्टं यथा प्रदीपः खप्रकाशस्य । न हि प्रकाश्योर्थः खप्रकाशकं प्रदीपमुपजनयति खकारणकलापादेव तस्योपजननात् प्रकाश्यस्याभावे प्रकाशकस्य प्रकाशकत्वायोगात् । स तस्य जनक इति चेत् , प्रकाशकस्याभावे प्रकाश्यस्यापि प्रकाश्यत्वाघटनात् । स तस्य जनकोस्तु तथा चान्योन्याश्रयणं प्रकाश्यानुपपत्ती प्रकाशकानुपपत्तेस्तदनुत्पत्तौ च प्रकाश्यानुत्पत्तिरिति । यदि पुनः खकारणकलापादुत्पन्नयोः प्रदीपघटयोः खरूपतोभ्युपगमादन्योन्यापेक्षौ प्रकाशकत्वप्रकाश्यत्वधर्मों परस्पराविनाभाविनौ भविष्येते तथान्योन्याश्रयणात्ततरादत्ताज्ञानार्थयोरपि खसामग्रीबलादुपजातयोः खरूपेण परस्परापेक्षया ग्राह्यग्राहकभावधर्मव्यवस्था स्थीयतां तथा प्रतीतेरविशेषात् । तदुक्तं । "धर्मधर्म्यविनाभावः सिध्यत्यन्योन्यवीक्षया । न खरूपं खतो ह्येतत्कारकज्ञापकादिति" ततो ज्ञानस्यालंबनं चेदर्थो न जनकः जनकश्चेन्नालंबनं विरोधात् । पूर्वकालभाव्यर्थो ज्ञानस्य कारणं समानकालः स एवालंबनं तस्य क्षणिकत्वादिति चेत् न हि, यदा जनकस्तदालंबनमिति कथमालंबनत्वेन जनकोर्थः संविदः स्यात् । पूर्वकाल एवार्थो जनको ज्ञानस्यालंबनं च खाकारार्पणक्षमत्वादिति वचनमयुक्तं समानार्थसमनंतरज्ञानेन व्यभिचारात् । न त्वालंबनत्वेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org