________________
प्रथमोऽध्यायः।
२१७ चिरंजीवित्वे च सति स्तनपीनांगत्वान्यथानुपपत्तेरिति, तथोपमानपूर्विकोपमानविज्ञातादर्थाद्वाहादिशक्तिरयं गवयो गवयत्वान्यथानुपपत्तेरिति, तथागमपूर्विका आगमविज्ञातादर्थादर्थप्रतिपादनशक्तिः शब्दो नित्यार्थसंबंधत्वान्यथानुपपत्तेरिति, तथार्थापत्तिपूर्विकार्थापत्तिरपत्तिप्रमाणविज्ञातादर्थाद्यथा रात्रिभोजनशक्तिः विवादापन्नो देवदत्तोयं रात्रिभोजित्वान्यथानुपपत्तेरिति । तथैवाभावपूर्विकार्थापत्तिरभावप्रमाण• विज्ञातादर्थाद्यथास्मागृहाहहिस्तिष्ठति देवदत्तो जीवित्वे सत्यत्राभावान्यथानुपपत्तेरिति । एतेनाभावस्य प्रमाणांतरत्वमुक्तमुपमानस्य वा वस्तुनो सतः सदुपलंभकप्रमाणाप्रवृत्तेरभावप्रमाणस्यावश्याश्रयणीयत्वात् । सादृश्यविशिष्टाद्वस्तुनो वस्तुविशिष्टाद्वा सादृश्यात् परोक्षार्थप्रतिपत्तिरभ्युपगमनीयत्वाच्चेति केचित् । संभवः प्रमाणांतरमाढकं दृष्ट्वा संभवत्यद्वढिकमिति प्रतिपत्तेरन्यथा विरोधात् । प्रातिभं च प्रमाणांतरमत्यंताभ्यासादन्यजनावेद्यस्य रत्नादिप्रभावस्य झटिति प्रतिपत्तेर्दर्शनादित्यन्ये तान् प्रतीदमुच्यते;सिद्धः साध्याविनाभावोह्यर्थापत्तेः प्रभावकः। संभवादेश्च यो हेतुः सोपि लिंगान भिद्यते३८९ दृष्टांतनिरपेक्षत्वं लिंगस्यापि निवेदितम् । तन्न मानांतरं लिंगादर्थापत्त्यादिवेदनम् ॥ ३९० ॥ मतिज्ञान विशेषाणामुपलक्षणता स्थितं । तेन सर्व मतिज्ञानं सिद्धमाभिनिवोधिकम् ॥ ३९१ ॥
तदिद्रियानिद्रियनिमित्तम् ॥ १४ ॥ मतिविज्ञानस्याभ्यंतरत्वात्तन्निमित्तं मतिज्ञानावरणवीर्यांतरायक्षयोपशमलक्षणं प्रसिद्धमेव वामुनानुमानादेस्तद्भावायोगादतः किमर्थमिदमुच्यते सूत्रमित्याशंकायामाह;तस्य बाह्यनिमित्तोपदर्शनायेदमुच्यते । तदित्यादिवचः सूत्रकारेणान्यमतच्छिदे ॥ १॥ कस्य पुनस्तच्छब्देन परामर्शो यस्य बाह्यनिमित्तोपदर्शनार्थ तदित्यादिसूत्रमभिधीयत इति तावदाह;तच्छब्देन परामर्शोनांतरमिति ध्वनेः । वाच्यस्सैकस्य मत्यादिप्रकारस्याविशेषतः ॥२॥
मतिज्ञानस्य सामर्थ्याल्लभ्यमानस्य वाक्यवतः प्रत्यासन्नत्वादभिनिबोधस्य तच्छब्देन परामर्शः प्रसक्तश्चिंता तस्याः प्रत्यासत्तेरिति न मंतव्यमर्थातरमिति शब्देन वाच्यस्य मत्यादिप्रकारस्यैकस्याविशेषतः सामर्थ्याल्लभ्यमानस्य प्रत्यासन्नतरस्य सुखवद्भावात्तच्छब्देन परामर्शोत्पत्तेः खेष्टसिद्धेश्च तस्यास्य बाह्यनिमित्तमुपदर्शयितुमिदमुच्यते । किं पुनस्तदित्याह;वक्ष्यमाणं च विज्ञेयमद्रियमनिंद्रियम् ।
वक्ष्यते हि स्पर्शनादींद्रियं पंच द्रव्यभावतो द्वैविध्यमास्तिनुवानं तथानिंद्रियं चानियतमिंद्रियेप्टेभ्योन्यत्वमात्मसात्कुर्वदिति नेहोच्यते । तद्वाह्यनिमित्तं प्रतिपत्तव्यं । किमिदं ज्ञापकं कारकं वा तस्येष्टं कुतः खेष्टसंग्रह इत्याह;निमित्तं कारकं यस्य तत्तथोक्तं विभागतः । वाक्यस्यास्य विशेषाद्वा पारंपर्यस्य चाश्रितौ ॥३॥
तद्धि निमित्तमिह न ज्ञापकं तत्प्रकरणाभावात् । किं तर्हि । कारकं । तथा च सति प्रकृतमिद्रियमनिंद्रियं च निमित्तं यस्य तत्तथोक्तमेकं मतिज्ञानमिति ज्ञायते इष्टसंग्रहः । पुनरस्य वाक्यस्य विभजनात्तदिंद्रियानिद्रियनिमित्तं धारणापर्यंतं तदनिंद्रियनिमित्तं स्मृत्यादीनां सर्वसंग्रहात् । पारंपर्यस्य चाश्रयणे वाक्यस्याविशेषतो वाभिप्रेतसिद्धिः । यथा हि धारणापर्यंत तदिंद्रियानिद्रियनिमित्तं तथा स्मृत्यादिकमपि तस्य परंपरसेंद्रियानिद्रियनिमित्तत्वोपपत्तेः । किं पुनरत्र तदेवेंद्रियानिद्रियनिमित्तमित्यवधारणमाहोवित्तदिद्रियानिद्रियनिमित्तमेवेति कथंचिदुभयमिष्टमित्याह;
२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.