________________
२१६ तत्त्वार्थश्लोकवार्तिके
[सू० १३ इति धर्मिण्यसिद्धेपि साधनं मतमेव च । व्याप्यव्यापकभावे हि सिद्धे साधनसाध्ययोः ३७० प्रसंगसाधनं प्रोक्तं तत्प्रदर्शनमात्रकं । अथ निःशेषशून्यत्ववादिनं प्रति तार्किकैः ॥ ३७१ ॥ विरोधोद्भावनं स्वेष्टे विधीयतेति संमतं । तदप्रमाणकं तावदकिंचित्करमीक्ष्यते ॥ ३७२ ॥ सप्रमाणकता तस्य क प्रमाणाप्रसाधने । नन्विष्टसाधनात् संति प्रमाणानीति भाषणे ॥३७३॥ समः पर्यनुयोगोयं प्रमाशून्यत्ववादिनः । तदिष्टसाधनं तावदप्रमाणमसाधनम् ॥ ३७४॥ स्वसाध्येन प्रमाणं तु न प्रसिद्धं द्वयोरपि । तदसंगतमिष्टस्य संविन्मात्रस्य साधनम् ॥३७५॥ स्वयं प्रकाशनं ध्वस्तव्यभिचारं हि सुस्थितं । स्वसंवेदनमध्यक्षं वादिनो मानमंजसा ॥३७६॥ ततोन्येषां प्रमाणानामस्तित्वस्य व्यवस्थितिः । नन्विष्टसाधनं धर्मिप्रमाणैरपरैर्युतम् ॥ ३७७ ॥ तदिष्टसाधनत्वस्येतरथानुपपत्तितः । एवं प्रयोगतः सिद्धिः प्रमाणानामनाकुलम् ॥ ३७८ ॥ तत्सत्ता नैव साध्या स्यात्सर्वत्रेति परे विदुः । यतोभयं तदेवैषां स्वयमग्रे व्यवस्थितम् ।।३७९ हेतोरनन्वयत्वस्य प्रसंजनमसंशयं । सत्तायां हि प्रसाध्यायां विशेषस्यैव साधनात् ॥ ३८० ॥ यथानन्वयतादोषस्तथात्राप्यनिदर्शनात् । हेतोरनन्वयस्यापि गमकत्वोपवर्णने ॥ ३८१ ॥ सत्ता साध्यास्तु मानानामिति धर्मी न संगरः। धर्मिधर्मसमूहोत्र पक्ष इत्यपसारितम् ॥३८२ एतेनेति स्थितः साध्यः पक्षो विध्वस्तबाधकः । व्याप्तिकाले मतःसाध्यः पक्षो येषां निराकुलः॥ सोन्यथैव कथं तेषां लक्षणव्यवहारयोः। व्याप्तिः साध्येन निर्णीता हेतोः सार्धं प्रसाध्यते३८४
तदेवं व्यवहारेपीत्यनवा न चान्यथा । धर्मिणोप्यप्रसिद्धस्य साध्यत्वाप्रतिघातितः ॥३८५॥ . अस्ति धर्मिणि धर्मस्य चेति नोभयपक्षता । तद्यत्र साधनाद्बोधो नियमादभिजायते ॥३८६॥
स तस्य विषयः साध्यो नान्यः पक्षोस्तु जातुचित् ।। तदेवं शक्यत्वादिविशेषणसाध्यसाधनाय कालापेक्षत्वेन व्यवस्थापिते अन्यथानुपपत्त्येकलक्षणे साधने च प्रकृतमभिनिबोधलक्षणं व्यवस्थितं भवति । यः साध्याभिमुखो बोधः साधनेनानिद्रियसहकारिणा नियमितः सोभिनिबोधः खार्थानुमानमिति कश्चिदाह;
इंद्रियाणींद्रियार्थाभिमुखो बोधो न तु स्मृतः । नियतोक्षमनोभ्यां यः केवलो न तु लिंगजः ३८७ इंद्रियानिद्रियाभ्यां नियमितः कृतः स्वविषयाभिमुखो बोधोभिनिबोधः प्रसिद्धो न पुनरनिंद्रियसहकारिणा लिंगेन लिंगिनियमितः केवल एव चिंतापर्यंतस्याभिनिबोधत्वाभावप्रसंगात् । तथा च सिद्धांतविरोधोऽशक्यः परिहर्तुमित्यत्रोच्यतेसत्यं स्वार्थानुमानं तु विना यच्छब्दयोजनात् । तन्मानांतरतां मागादिति व्याख्यायते तथा ३८८ - न हि लिंगज एव बोधोभिनिवोध इति व्याचक्ष्महे । किं तर्हि । लिंगजो बोधः शब्दयोजनरहितोभिनिबोध एवेति तस्य प्रमाणांतरत्वनिवृत्तिः कृता भवति सिद्धांतश्च संगृहीतः स्यात् । न हींद्रियानिद्रियाभ्यामेव स्वविषयेभिमुखो नियमितो बोधोभिनिबोध इति सिद्धांतोस्ति स्मृत्यादेस्तद्भावविरोधात् । किं तर्हि । सोनिंद्रियेणापि वाक्यभेदात् । कथं अनिद्रियजन्याभिनिबोधे कमनिंद्रियजाभिमुखनियमितबोधनमिति व्याख्यानात् । नन्वेवमप्यर्थापत्तिः प्रमाणांतरमप्रत्यक्षत्वात् परोक्षभेदेषूक्तेष्वनंतर्भावात् । प्रमाणषटू विज्ञातस्यार्थस्यानन्यथाभवनयुक्तस्य सामर्थ्याददृष्टान्यवस्तुकल्पने अर्थापत्तिव्यवहारात् । तदुक्तं । "प्रमाणषटू विज्ञातो यत्रार्थोनन्यथा भवेत् । अदृष्टं कल्पयेदन्यं सार्थापत्तिरुदाहृता ॥” प्रत्यक्षपूर्विका ह्यर्थापत्तिः प्रत्यक्षविज्ञातादर्थादन्यथा दृष्टेथे प्रतिपत्तियथा रात्रिभोजी देवदत्तोयं दिवा भोजनरहितत्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org