________________
प्रथमोऽध्यायः ।
२१५
तेनानुष्णोग्रिरित्येष पक्षः प्रत्यक्षवाधितः । धूमोननिज एवायमिति लैंगिक बाधितः ॥ ३३५ ॥ प्रेत्य सुखप्रदो धर्म इत्यागमनिराकृतः । नृकपालं शुचीति स्याल्लोकरूढिप्रबाधितः ॥ ३३६ ॥ पक्षाभासः स्ववाग्वाध्यः सदा मौनव्रतीति यः । स सर्वोपि प्रयोक्तव्यो नैव तत्त्वपरीक्षकैः ३३७ शब्दक्षणक्षयैकांतः सत्त्वादित्यत्र केचन । दृष्टांताभावतोशक्यः पक्ष इत्यभ्यमंसत ।। ३३८ ॥ तेषां सर्वमतमिति पक्षो विरुध्यते । तत एवोभयोः सिद्धो दृष्टांतो न हि कुत्रचित् ३३९ प्रमाणबाधितत्वेन साध्याभासत्वभाषणे । सर्वस्तथेष्ट एवेह सर्वथैकांत संगरः ॥ ३४० ॥ तथा साध्यमभिप्रेतमित्यनेन निवार्यते । अनुक्तस्य स्वयं साध्याभावाभावः परोदितः ॥ ३४९ ॥ यथा ह्युक्तो भवेत्पक्षस्तथानुक्तोपि वादितः । प्रस्तावादिवलात्सिद्धः सामर्थ्यादुक्त एव चेत् ३४२ स्वागमोक्तोपि किं न स्यादेव पक्षः कथंचन । तथानुक्तोपि चोक्तो वा साध्यः खेष्टोस्तु तात्त्विकः ॥ नानिष्टतिप्रसंगस्य परिहर्तुमशक्तितः । ननु नेच्छति वादीह साध्यं साधयितुं स्वयम् ||३४४|| प्रसिद्धस्यान्यसंवित्तिकारणापेक्ष्यवर्तनात् । प्रतिवाद्यपि तस्यैतन्निराकृतिपरत्वतः ॥ ३४५ ॥ सत्या नोभयसिद्धान्तवेदिनः पक्षपातिनः । इत्ययुक्तमवक्तव्यमभिप्रेत विशेषणम् ॥ ३४६ जिज्ञासित विशेषत्वमिवान्ये संप्रचक्षते । तदसद्वादिनेष्टस्य साध्यत्वाप्रतिघातितः ।। ३४७ ।। स्वार्थानुमासु पक्षस्य तन्निश्वयविवेकतः । परार्थेष्वनुमानेषु परो बोधयितुं स्वयम् ॥ ३४८ ॥ किं नेष्टस्येह साध्यत्वं विशेषानभिधानतः । इष्टः साधयितुं साध्यः स्वपरप्रतिपत्तये || ३४९|| इति व्याख्यानतो युक्तमभिप्रेतविशेषणं । अप्रसिद्धं तथा साध्यमित्यनेनाभिधीयते ॥ ३५० ॥ तस्यारेका विपर्यासा व्युत्पत्तिविषयात्मता । तस्य तद्व्यवच्छेदत्वात्सिद्धिरर्थस्य तत्त्वतः ॥ ३५१ ततो न युज्यते वक्तुं व्यस्तो हेतोरपाश्रयः । संशयो ह्यनुमानेन यथा विच्छिद्यते तथा ।। ३५२ || अव्युत्पत्तिविपर्यासावन्यथा निर्णयः कथं । अव्युत्पन्नविपर्यस्तौ नाचार्यमुपसर्पतः ॥ ३५३ ॥ कौचेदेव यथा तद्वत्संशयात्मापि कथ नः । नावश्यं निर्णयाकांक्षा संदिग्धस्याप्यनर्थिनः ३५४ संदेहमात्रकास्थानात्स्वार्थसिद्धौ प्रवर्तनात् । यथाप्रवर्तमानस्य संदिग्धस्य प्रवर्तनम् ॥ ३५५ ॥ विधीयतेनुमानेन तथा किं न निषिध्यते । अव्युत्पन्नविपर्यस्तमनसोप्यप्रवर्तनम् ॥ ३५६ ॥ परानुग्रहवृत्तीनामुपेक्षानुपपत्तितः । अविनेयिषु माध्यस्थ्यं न चैवं प्रतिहन्यते ॥ ३५७ ॥ रागद्वेषविहीनत्वं निर्गुणेषु हि तेषु नः । स्वयं माध्यस्थ्यमालंब्य गुणदोषोपदेशना || ३५८ ॥ कार्या तेभ्योपि धीमद्भिस्तद्विनेयत्वसिद्धये । अव्युत्पन्नविपर्यस्ता प्रतिपाद्यत्वनिश्वये ॥ ३५९ ॥ प्रतिपाद्यः कथं नाम दुष्टोज्ञः स्वसुतो जनैः । लौकिकस्याप्रबोध्यत्वे कथमस्तु परीक्षकः ३६० प्रबोध्यस्तस्य यत्नेन क्रमतस्तत्त्वसंभवात् । प्रतिपाद्यस्ततस्त्रेधा पक्षस्तत्प्रतिपत्तये || ३६१ ।। संदिग्धादिः प्रयोक्तव्योऽप्रसिद्ध इति कीर्तनात् । सुप्रसिद्धश्च विक्षिप्तः पक्षोऽकिंचित्करत्वतः ३६२ तत्र प्रवर्तमानस्य साधनस्य स्वरूपवत् । समारोपे तु पक्षत्वं साधनेपि न वार्यते ॥ ३६३ ॥ स्वरूपेणैव निर्दिश्यस्तथा सति भवत्यसौ । जिज्ञासितविशेषस्तु धर्मी यैः पक्ष इष्यते ॥ ३६४ ॥ तेषां संति प्रमाणानि वेष्टसाधनतः कथं । धर्मिण्यसिद्धरूपेपि हेतुर्गमक इष्यते ॥ ३६५ ॥ अन्यथानुपपन्नत्वं सिद्धं सद्भिरसंशयं । धर्मिसंतानसाध्याश्चेत् सर्वे भावाः क्षणक्षयाः ॥ ३६६ ॥ इति पक्षो न युज्येत तोस्तद्धर्मतापि च । प्रत्यक्षेणाप्रसिद्धत्वाद्धर्मिणामिह कार्यतः ॥ ३६७॥ अनुमानेन तत्सिद्धौ धर्मसत्ताप्रसाधनं । परप्रसिद्धितस्तेषां धर्मित्वं हेतुधर्मवत् ॥ ३६८ ॥ ध्रुवं तेषां स्वतंत्रस्य साधनस्य निषेधकं । प्रसंगसाधनं वेच्छेत्तत्र धर्मिग्रहः कुतः || ३६९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org