________________
२१४ तत्त्वार्थलोकवार्तिके
[सू० १३ सहचारिनिमित्तस्यानुपलब्धिरुदाहृता । दृष्टिमोहोदयासिद्धेरिति व्यक्तं तथैव हि ॥ ३२४ ॥ सहभूव्यापका दृष्टिर्नास्ति वेदकदर्शनैः । सहभावि मतिज्ञानं तत्त्वश्रद्धानहानितः ॥ ३२५ ।। सहभूव्यापि हेत्वाद्यदृष्टयोप्यविरोधतः । प्रत्येतव्याः प्रपंचेन लोकशास्त्रनिदर्शनैः ॥ ३२६ ॥
सहचरव्यापककार्यानुपलब्धिर्यथा नास्त्यभव्ये सम्यग्विज्ञानं दर्शनमोहोपशमाद्यभावात् । सहचरव्यापककारणानुपलब्धिर्यथा तत्रैवाधःप्रवृत्तादिकरणकाललब्ध्याघभावात् । सहचरव्यापककारणव्यापकानुपलब्धिस्तत्रैव दर्शनमोहोपशमादित्वाभावादिति समयप्रसिद्धान्युदाहरणानि । लोकप्रसिद्धानि पुन श्वस्य दक्षिणं शृंगं शृंगारंभकाभावादिति सहचरव्यापककारणानुपलब्धिः । दक्षिणशृंगसहचारिणो हि वामशृंगस्य व्यापकं शृंगमात्रं तस्य कारणं तदारंभकाः पुद्गलविशेषाः तदनुपलब्धिर्दक्षिणशृंगस्याभावं साधयत्येव । सहचरव्यापककारणकारणानुपलब्धिस्तत्रैव शृंगारंभकपुद्गलसामान्याभावादिति प्रतिपत्तव्यानि ॥
उपलब्ध्यनुपलब्धिभ्यामित्येवं सर्वहेतवः । संगृह्यते न कार्यादित्रितयेन कथंचन ॥ ३२७ ॥ नापि पूर्ववदादीनां त्रितयो न निषेधने । साध्ये तस्यासमर्थत्वाद्विधा चैव प्रयुक्तितः॥३२८॥
ननु च कार्यखभावानुपलब्धिभिः सर्वहेतूनां संग्रहो मा भूत् सहचरादीनां तत्रांतर्भावयितुमशक्तेः । पूर्ववदादिभिस्तु भवत्येवं विधौ निषेधे च पूर्ववतः परिशेषानुमानस्य सामान्यतो दृष्टस्य च प्रवृत्तिविरोधात्सहचरादीनामपि तत्रांतर्भावयितुमशक्यत्वात् । ते हि पूर्ववदादिलक्षणयोगमनतिकामंतो न ततो भिद्यत इति कश्चित् । सोपि यदि पूर्ववदादीनां साध्याविरुद्धानामुपलब्धि विधौ प्रयुंजीत निषेध्यं विरुद्धानां च प्रतिषेधे निषेध्यखभावकारणादीनां त्वनुपलब्धि तदा कथमुपलब्ध्यनुपलब्धिभ्यां सर्वहेतुसंग्रहं नेच्छेत् ॥
पूर्ववत्कारणात्कार्येनुमानमनुमन्यते । शेषवत्कारणे कार्याद्विज्ञानं नियतस्थितेः ॥ ३२९ ।। कार्यकारणनिर्मुक्तादर्थात्साध्ये तथाविधे । भवेत्सामान्यतो दृष्टमिति व्याख्यानसंभवे॥३३०॥ विधौ तदुपलंभः स्युनिषेधेनुपलब्धयः । ततश्च पड्विधो हेतुः संक्षेपात्केन वायेते ॥ ३३१ ॥
अत्र निषेधेनुपलब्धय एवेति नावधार्यते खभावविरुद्धोपलब्ध्यादीनामपि तत्र व्यापारात् तत एव विधावेवोपलब्धय इति नावधारणं श्रेय इत्युक्तप्रायं । एतेन प्राग्व्याख्यानेपि पूर्ववदादीनामुपलब्धयस्तिस्रोनुपलब्धयश्चेति संक्षेपात् षड्डिधो हेतुरनिवार्यत इति निवेदितं । अतिसंक्षेपाद्विशेषतो द्विविध उच्यते सामान्यादेक एवान्यथानुपपत्तिनियमलक्षणोर्थ इति न किंचिद्विरुद्धमुत्पश्यामः ॥ पड्डिधो हेतुः कुतो न निवार्यत इत्याह;
केवलान्वयसंयोगी वीतभूतादिभेदतः । विनिर्णीताविनाभावहेतूनामत्र संग्रहात् ॥ ३३२ ॥ न हि केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिणः संयोगिसमवायिविरोधिनो वा वीतावीततदुभयस्वभावा वा भूतादयो वा कार्यकारणानुभवोपलंभनातिक्रमं नियता नियतहेतुभ्योन्ये भवेयुरविनाभावनियमलक्षणयोगिनां तेषां तत्रैवांतर्भवनादिति प्रकृतमुपसंहरन्नाह ।।
अन्यथानुपपत्त्येकलक्षणं साधनं ततः । सूक्तं साध्यं विना सद्भिः शक्यत्वादिविशेषण ३३३
एवं हि यैरुक्तं “साध्यं शक्यमभिप्रेतमप्रसिद्धं ततोपरं । साध्याभासं विरुद्धादिसाधनाविषयत्वतः ॥" इति तैः सूक्तमेव, अन्यथानुपपत्त्येकलक्षणसाधनविषयस्य साध्यत्वप्रतीतेस्तदविषयस्य प्रत्यक्षादिविरुद्धस्य प्रसिद्धस्यानभिप्रेतस्य वा साधयितुमशक्यस्य साध्याभासत्वनिर्णयात् । तत्र हि
शक्यं साधयितुं साध्यमित्यनेन निराकृतः । प्रत्यक्षादिप्रमाणेन पक्ष इत्येतदास्थितम् ॥३३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org