________________
२१३
प्रथमोऽध्यायः । निषेधेनुपलब्धिः स्यात्फलहेतुद्वयात्मना । हेतुसाध्याविनाभावनियमस्य विनिश्चयात् ॥३०५॥ निषेधेनुपलब्धिरेवेति नावधारणीयं विरुद्धोपलब्ध्यादेरपि तत्र प्रवृत्तिः निषेध एवानुपलब्धिरित्यवधारणे तु न दोषः प्रधानेन विधौ तदप्रवृत्तेः । सा च कार्यकारणानुभयात्मनामवबोद्धव्या ॥
तत्र कार्याप्रसिद्धिः स्यान्नास्ति चिन्मृतविग्रहे । वाकियाकारभेदानामसिद्धेरिति निश्चिता ३०६ ' ननु वागादिप्वप्रतिबद्धसामर्थ्याया एव चितो नास्तित्वं वचनानुपलब्धेः सिद्ध्येन्न तु प्रतिबद्धसामर्थ्याया विद्यमानाया अपि वागादिकार्ये व्यापारासंभवान्नावश्यं कारणानि कार्य चिति भवंति प्रतिबंधवैकल्यसंभवे कस्यचित्कारणस्य स्वकार्याकरणदर्शनात्ततो नेयं कार्यानुपलब्धिर्गमिका चिन्मात्राभावसिद्धाविति कश्चित् । तथापि संबंधकार्याभावात्कथं नित्यात्माद्यभावसिद्धिरिति खमतव्याहतिरुक्ता । ततः खसंताने संतानांतरं वर्तमानक्षणे क्षणांतरं संविदद्वये वेद्याकारभेदं वा तत्कार्यानुपलब्धेरसत्वेन साधयकार्यानुपलब्धेरन्यथानुपपत्तिसामर्थ्यानिश्चयाद्गमकत्वमभ्युपगंतुमर्हत्येव । खभावानुपलब्धेस्तु तादृशेनिष्टे प्रकृतकार्यानुपलब्धौ पुनरन्यथानुपपन्नत्वसामर्थ्य निश्चयो लोकस्य खत एवात्यंताभ्यासात्तादृशं लोको विवेचयतीति प्रसिद्धेस्ततः साधीयसी कार्यानुपलब्धिः ॥
कारणानुपलब्धिस्तु नार्थिताचरणं शुभम् । सम्यग्बोधोपलंभस्याभावादिति विभाव्यते॥३०७॥
सम्यग्बोधो हि कारणं सम्यक्चारित्रस्य तदनुपलब्धितः वसंताने तदभावं साधयति कुतश्चिदुपजातस्य विभ्रमस्यान्यथा विच्छेदायोगात् ॥ अहेतुफलरूपस्य वस्तुनोनुपलंभनम् । द्वेधा निषेध्य तादात्म्येतरसादृष्टिकल्पनात् ॥ ३०८ ॥ तत्राभिन्नात्मनोः सिद्धिर्द्विविधा संप्रतीयते । स्वभावानुपलब्धिश्च व्यापकादृष्टिरेव च ॥३०९॥ आद्या यथा न मे दुःखं विषादानुपलंभतः । व्यापकानुपलब्धिस्तु वृक्षादृष्टेने शिंशपा॥३१०॥ कार्यकारणभिन्नस्यानुपलब्धिर्न बुध्यताम् । सहचारिण एवात्र प्रतिषेधेन वस्तुना ॥ ३११ ॥ मयि नास्ति मतिज्ञानं सदृष्ट्यनुपलब्धितः । रूपादयो न जीवादौ स्पर्शासिद्धेरितीयताम्३१२
सैवमनुपलब्धिः पंचविधोक्ता श्रुतिप्राधान्यात् । ननु कारणव्यापकानुपलब्धयोपि श्रूयमाणाः संति । सत्यं । तास्त्वत्रैवांतर्भावमुपयांतीत्याह;कारणव्यापकदृष्टिप्रमुखाश्चास्य दृष्टयः । तत्रांतर्भावमायांति पारंपर्यादनेकधा ॥ ३१३ ॥ काः पुनस्ता इत्याह;प्राणादयो न संत्येव भस्मादिषु कदाचन । जीवत्वासिद्धितो हेतुव्यापकादृष्टिरीदृशी ॥३१४॥ क्वचिदात्मनि संसारप्रसूतिर्नास्ति काय॑तः । सर्वकर्मोदयाभावादिति वा समुदाहृता॥३१५॥ तद्धेतुहेत्वदृष्टिः स्यान्मिथ्यात्वाद्यप्रसिद्धितः । तन्निवृत्तौ हि तद्वेतुकर्माभावात्क संमृतिः३१६ तत्कार्यव्यापकासिद्धियेथा नास्ति निरन्वयं । तत्त्वं क्रमाक्रमाभावादन्वयकांततत्त्ववत् ॥३१७॥ तत्कार्यव्यापकस्यापि पदार्थानुपलंभनं । परिणामविशेषस्याभावादिति विभाव्यताम् ॥३१८॥ कारणव्यापका दृष्टिः सांख्यादेर्नास्ति निर्वृतिः । सदृष्ट्यादित्रयासिद्धेरियं पुनरुदाहृता ३१९ कारणव्यापका व्याप्तिः स्वभावानुपलंभनं । तत्रैव परिणामस्यासिद्धेरिति यथोच्यते ॥३२०॥ परिणामनिवृत्तौ हि तद्याप्तं विनिवर्तते । सदृष्ट्यादित्रयं मार्ग व्यापकं पूर्ववत्परम् ।।३२१॥ सहचारिफला दृष्टिर्मत्यज्ञानादि नास्ति मे । नास्तिक्याध्यवसानादेरभावादिति दर्शिता ३२२ नास्तिक्यपरिणामो हि फलं मिथ्यादृशः स्फुटम् । सहचारितया मत्यज्ञानादिवद्विपश्चिताम्३२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org