________________
२१२
तत्त्वार्थश्लोकवार्तिके
[सू० १३
तत्र पूर्वचरस्योपलब्धिः सिद्धांतवेदिनाम् । यथोदेष्यति नक्षत्रं शकटं कृत्तिकोदयात् ॥ २७४ ॥ पूर्वचारितनिःशेषं कारणं नियमादपि । कार्यात्मलाभ हेतूनां कारणत्वप्रसिद्धितः ॥ २७५ ॥ न रोहिण्युदयस्तु स्यादमुष्मिन् कृत्तिकोदयात् । तदनंतरसंधित्वाभावात्कालांतरेक्षणात् ।। २७६ विशिष्टकालमासाद्य कृत्तिकाः कुर्वते यदि । शकटं भरणिः किं न तत्करोति तथैव च २७७ व्यवधानादहेतुत्वे तस्यास्तत्र के वासना । स्मृतिहेतुर्विभाव्येत तत्त एवेत्यवर्तिनम् ॥ २७८ ॥ कारणं भरणस्तत्र कृत्तिकासहकारिणी । यदि कालांतरापेक्षा तथा स्यादश्विनी न किम् २७९ पितामहः पिता किं न तथैव प्रपितामहः । सर्वो वानादिसंतानः सूनोः पूर्वत्वयोगतः २८० स्वरूपलाभतोश्चेत् पितृत्वं नेतरस्य तु । प्राक् शकटस्य मा भूवन कृत्तिकाहेतवस्तथा ॥ २८९ ॥ पूर्वपूर्वचरादीनामुपलब्धिः प्रदर्शिता । पूर्वाचार्योपलंभेन ततो नार्थांतरं मतम् ॥ २८२ ॥ सहचार्युपलब्धिः स्यात्कायश्चैतन्यवानयम् । विशिष्टस्पर्शसंसिद्धेरिति कैश्चिदुदाहृतम् ।। २८३॥ कार्ये हेतुरयं स्वेष्टः समानसमयत्वतः । स्वातंत्र्येण व्यवस्थानाद्वामदक्षिणशुंगवत् ॥ २८४ ॥ एकसामम्यधीनत्वात्तयोः स्यात्सहभाविता । कान्यथा नियमस्तस्यास्ततोन्येषामितीति चेत् २८५ नैकद्रव्यात्मतत्त्वेन विना तस्या विरोधतः । सामग्र्येका हि तद्रव्यं रसरूपादिषु स्फुटम् २८६ न च तस्यानुमासाद्यमानाद्रसविशेषतः । समानसमयस्यैव रूपादेरनुमानतः ॥ २८७ ॥ कार्येण कारणस्यानुमानं येनेदमुच्यते । कारणेनापि रूपादेस्ततो द्रव्येण नानुमा ॥ २८८ ॥ समानकारणत्वं तु सामग्र्येका यदीष्यते । पयोरसात्सरोजन्मरूपस्यानुमितिर्न किम् ॥ २८९ ॥ यथैव हि पयोप (?) रूपाद्रससहायकात् । तथा सरोद्भवेपीति स्यात्समाननिमित्तता ॥ २९० ॥ प्रत्यासत्तेरभावाच्चेत्साध्यसाधनतानयोः । नष्टैकद्रव्यतादात्म्यात् प्रत्यासत्तिः परा च सा २९१ नन्वर्थांतरभूतानामहेतुफलनाश्रिताम् । सहचारित्वमर्थानां कुतो नियतमीक्ष्यसे ।। २९२ ॥ कार्यकारणभावास्ते कस्मादिति समं न किम् । तथा संप्रत्ययात्तुल्यं समाधानमपीदृशं ॥ २९३ ॥ स्वकारणात्तथाविवेज्जातो धूमस्य कारकः । चैतन्यसहकार्यस्तु स्पर्शोगे तददृष्टतः ।। २९४ ॥ दृष्टाद्धेतोर्विना येथे नियमात्सहचारिणः । अदृष्टकरणं तेषां किंचिदित्यनुमीयते ॥ २९५ ॥ द्रव्यतोऽनादिरूपाणां स्वभावोस्तु न तादृशः । साध्यसाधनतैवैषां तत्कृतान्योन्यमित्यसत् २९६ ये चार्वाक परभागाद्या नियमेन परस्पराः । सहभावमितास्तेषां हेतुरेतेन वर्णितः ॥ २९७ ॥ ततोतीतैककालानां गतिः किंकार्यलिंगजा । नियमादन्यथा दृष्टिः सहचार्यादसिद्धितः ।। २९८ तथोत्तरचरस्योपलब्धिस्तज्ज्ञैरुदाहृता । उद्गाद्भरणिराग्नेयदर्शनान्नभसीति सा ।। २९९ ॥ सर्वमुत्तरचाह कार्यमित्यनिराकृतेः । नाना प्राणिगणादृष्टात्सातेतरफलाद्विना ॥ ३०० ॥ पूर्वोत्तरचराणि स्युर्भानि क्रमभुवः सदा । नान्योन्यं हेतुता तेषां कार्याबाधा ततो मता ३०१ साध्यसाधनता न स्यादविनाभावयोगतः ।
तदेवं सहचरोपलब्ध्यादीनां कार्यखभावानुपलब्धिभ्योन्यत्वभाजां व्यवस्थापनात्ततोन्ये हेत्वाभासा एवेति न वक्तव्यं सौगतैरित्युपदर्शयति ;
पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः । अविनाभावनियमादिति वाच्यं न धीमता ॥ ३०२ ॥ पक्षधर्मात्यये युक्ताः सहचार्यादयो यतः । सत्यं च हेतवो नातो हेत्वाभासास्तथापरे ॥ ३०३ ॥ त्रिधैव वाविनाभावानियमाद्धेतुरास्थितः । कार्यादिर्नान्य इत्येषा व्याख्यैतेन निराकृता ॥ ३०४ तदेवं कस्यचिदर्थस्य विधौ प्रतिषेधोपलब्धिभेदानभिधाय संप्रति निषेधेनुपलब्धिप्रपंचं निश्चिन्वन्नाह; -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org