________________
२११
प्रथमोऽध्यायः। तद्धि मिथ्याचरित्रस्य कारणं विनिवर्तयेत् । मिथ्याज्ञाननिवृत्तिस्तु तस्य तद्विनिवर्तिका २६० ननु च सम्यग्विज्ञानान्मिथ्याज्ञाननिवृत्तिर्न मिथ्याचारित्रस्य निवृत्तिका प्रादुर्भूतसम्यग्ज्ञानस्यापि पुंसोऽचारित्रप्रसिद्धेः पूर्वस्य लाभे भजनीयमुत्तरमिति वचनादन्यथा तव्याघातादिति चेन्न, मिथ्याचारित्रस्य मिथ्यागमादिज्ञानपूर्वस्य पंचाग्निसाधनादेनिषेधत्वात् । चारित्रमोहोदये सति निवृत्तिपरिणामाभावलक्षणस्याचारित्रस्य तु निषेध्यत्वानिष्टेर्मोहोदयमात्रापेक्षित्वस्य तु द्वयोरप्यचारित्रमिथ्याचारित्रयोरभेदेन वचनमागमे व्यवस्थितिविरुद्धमेव मिथ्यादर्शने मिथ्याचारित्रस्यांतर्भावाच मिथ्याज्ञानवत् ॥
कारणद्विष्ठकार्योपलब्धिर्याथात्म्यवाकृतः । तस्य तेनाविनाभावात् पारंपर्येण तत्त्वतः ॥२६१॥ नास्ति मिथ्याचारित्रमस्य याथात्म्यवाकृदिति कारणविरुद्धकार्योपलब्धिः । मिथ्याचारित्रस्य हि निषेधस्य कारणं मिथ्याज्ञानं तेन विरुद्धं सम्यग्ज्ञानस्य कार्य याथात्म्यवचनं तन्निर्माय सुविवेचितं निषेध्याभावं साधयत्येव व्यभिचाराभावात् ॥
कारणव्यापकद्विष्ठोपलब्धिर्नास्ति निर्वृतिः । सांख्यादेर्ज्ञानमात्रोपगमादिति यथेक्ष्यते ॥२६२॥ निवृतेः कारणं व्याप्तं दृष्ट्यादित्रितयात्मना । तद्विरुद्धं तु विज्ञानमात्रं सांख्यादिसम्मतम्२६३
न हीयं कारणव्यापकविरुद्धोपलब्धिरसिद्धा निषेध्यस्य निर्वाणस्य हेतोर्व्यापकस्य सम्यग्दर्शनादित्रयात्मकत्वस्य निश्चयात् तद्विरुद्धस्य ज्ञानमात्रात्मकत्वस्य सांख्यादिभिः स्वयं संमतत्वात् ॥
कारणव्यापकद्विष्ठकार्यदृष्टिस्तु तद्वचः । सम्यग्विवेचितं साध्याविनाभावि प्रतीयते ॥२६४॥ सांख्यादेर्नास्ति निर्वाणं ज्ञानमात्रवचनश्रवणादिति कारणव्यापकविरुद्धकार्योपलब्धिः प्रत्येया सुविवेचितस्य कार्यस्य साध्याविनाभावसिद्धेः ॥
द्रष्टा सहचरद्विष्ठोपलब्धिस्तद्यथा मयि । नास्ति मत्याद्यविज्ञानं तत्त्वश्रद्धानसिद्धितः॥२६५॥ सहचारिनिषेधेन मिथ्याश्रद्धानमीक्षितम् । तनिहत्येव तद्वातितत्त्वश्रद्धानमंजसा ॥ २६६ ॥ तदभावे च मत्याद्यविज्ञानं विनिवर्तते । मतिज्ञानादिभावेन तदास्य परिणामतः ॥ २६७ ।। सहचरविरुद्धोपलब्धिरपि हि गमिका प्रतीयते इति प्रसिद्धासौ। . तथा सहचरद्विष्ठकार्यसिद्धिर्निवेदिता । प्रशमादिविनिर्णीतेस्तन्नामाखिति साधने ॥ २६८ ॥ तस्मिन् सहचरव्यापि विरुद्धस्योपलंभनम् । सद्दर्शनत्वनिर्णीतेरिति तज्जैरुदाहृतम् ॥ २६९ ॥ तदेतत्सहचरव्यापि द्विष्ठकार्योपलंभनम् । प्रमाणादिप्रतिष्ठानसिद्धेरिति निबुध्यताम् ॥२७॥ सहचारिनिमित्तेन विरुद्धस्योपलंभनं । तन्नास्त्यमासु दृग्मोहः प्रतिपक्षोपलंभतः ॥ २७१॥
यथेयं सहचरविरुद्धोपलब्धिर्नास्ति मयि मत्याद्यज्ञानं तत्त्वश्रद्धानोपलब्धेरिति तथा सहचरविरुद्धकार्योपलब्धिः प्रशमादिनिश्चितेरिति सहचरव्यापकविरुद्धोपलब्धिः सदर्शनत्वनिश्चितेरिति सहचरव्यापकविरुद्धकार्योपलब्धिः प्रमाणादिव्यवस्थोपलब्धेरिति सहचरकारणविरुद्धोपलब्धिर्दर्शनमोहप्रतिपक्षपरिणामोपलब्धेरिति निबुध्यतां मत्याद्यज्ञानलक्षणनिषेध्याभावाविनाभावप्रतीतेरविशेषात् ।।
इत्येवं तद्विरुद्धोपलब्धिभेदाः प्रतीतिगाः । यथायोगमुदाहार्याः स्वयं तत्त्वपरीक्षकैः ॥२७२॥ इत्येवं निषिद्धे विरुद्धोपलब्धिभेदाश्चतुर्दशोदाहृताः प्रतीतिमनुसरंति कार्यकारणखभावोपलब्धिर्भेदत्रयवत्ततो यथायोगमन्यान्युदाहरणानि लोकसमयप्रसिद्धानि परीक्षकैरुपदर्शनीयानि प्रतीतिदायोपपत्तेः ॥
संप्रति साध्येनाविरुद्धस्याकार्यकारणेनार्थस्योपलब्धिभेदान् विभज्य प्रदर्शयन्नाह;साध्यार्थेन विरुद्धस्य कार्यकारणभेदिनः । उपलब्धिस्त्रिधाम्नाता प्राक्सहोत्तरचारिणः ॥२७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org