________________
२१०
तत्त्वार्थ श्लोकवार्तिके
[सू० १३
सहभावि गुणात्मत्वाभावे द्रव्यस्य तत्त्वतः । क्रमोत्पित्सु स्वपर्यायाभावत्वे च न कस्यचित् २३९ नाक्रमेण क्रमेणापि कार्यकारित्वसंगतिः । तदभावे कुतस्तस्य द्रव्यत्वं व्योमपुष्पवत् ॥ २४० ॥ एवं हेतुरयं शक्तः साध्यं साधयितुं ध्रुवं । सत्त्ववन्नियमादेव लक्षणस्य विनिश्चयात् ॥ २४१ ॥ तदियमकार्यकारणरूपस्य साध्यस्वभावस्योपलब्धिर्निश्चितोक्ता ।
साध्यादन्यस्योपलब्धि पुनर्विभज्य निश्चिन्वन्नाह ;
साध्यादन्योपलब्धिस्तु द्विविधाप्यवसीयते । विरुद्धस्याविरुद्धस्य दृष्टेस्तेन विकल्पनात् ॥ २४२ ॥ साध्यादन्यस्य हि तेन साध्येन विरुद्धस्योपलब्धिर विरुद्धस्य वा द्विधा कल्प्यते सा गत्यंतराभावात् । तत्र— प्रतिषेधे विरुद्धोपलब्धिरर्थस्य तद्यथा । नास्त्येव सर्वथैकांतानेकांतस्योपलभतः ॥ २४३ ॥ यावत्कश्चिन्निषेधोत्र स सर्वोनुपलंभवान् । यत्तदेष विरुद्धोपलंभोस्त्वनुपलंभनम् ॥ २४४ ॥ इत्ययुक्तं तथाभूतश्रुतेरनुपलंभनं । तन्मूलत्वात्तथाभावे प्रत्यक्षमनुमास्तु ते ॥ २४५ ।। तथैवानुपलंभेन विरोधे साधिते कचित् । स्यात्स्वभावविरुद्धोपलब्धिवृत्तिस्तथैव वा ॥ २४६ ॥ लिंगे प्रत्यक्षतः सिद्धे साध्यधर्मिणि वा कचित् । लिंगिज्ञानं प्रवर्तेत नान्यथातिप्रसंगतः २४७ गौण व्यपदेशोयं कारणस्य फलेस्तु नः । प्रधानभावतस्तस्य तत्राभिप्राय वर्तनात् ॥ २४८ ॥ स्वभावविरुद्धोपलब्धि निश्चित्यानुपलब्धेरर्थांतरभूतां व्याप्यविरुद्धोपलब्धिमुदाहरति; - व्यापकार्थविरुद्धोपलब्धिरत्र निवेदिता । यथा न सन्निकर्षादिः प्रमाणं परसंमतम् ॥ २४९ ॥ अज्ञानत्वादतिव्याप्तेर्ज्ञानत्वेन मितेरिह । व्यापकव्यापकद्विष्टोपलब्धिर्वेयमिष्यते ।। २५० ।। स्यात्साधकतमत्वेन स्वार्थज्ञप्तौ प्रमाणता । व्याप्ता या च तदव्याप्तं ज्ञानात्मत्वेन साध्यते २५१ यदा प्रमाणत्वं ज्ञानत्वेन व्याप्तं साध्यतेऽज्ञानस्य प्रमाणत्वेतिप्रसंगात् तदा तद्विरुद्धस्याज्ञानत्वस्यो - पलब्धिर्व्यापकविरुद्धोपलब्धिर्बोध्या न सन्निकर्षादिरचेतनः प्रमाणमज्ञानत्वादिति । यदा तु प्रमाणत्वं साधकतमत्वेन व्याप्तं तदपि ज्ञानात्मकत्वेन व्याप्तं साध्यते साधकतमस्य प्रमाणतानुपपत्तेरज्ञानात्मकस्य च स्वार्थप्रमितौ साधकतमत्वायोगात् । छिदिक्रियादावेवाज्ञानात्मनः परश्वादेः साधकतमोपपत्तेः । तदा व्यापकव्यापकविरुद्धोपलब्धिः सैवोदाहर्तव्या ॥
व्यापकद्विष्ठकायोपलब्धिः कार्योपलब्धिगा | श्रुतिप्राधान्यतः सिद्धा पारंपर्याद्विरुद्धवत् ।। २५२ यथा नात्मा विभुः काये तत्सुखाद्युपलब्धितः । विभुत्वं सर्वभूतार्थसंबंधित्वेन वस्तुतः २५३ व्याप्तं तेन विरोधीदं कायसंबंधमात्रकं । काय एव सुखादीनां तत्कार्याणां विबोधनम् ॥ २५४ ॥ ननु प्रदेशवृत्तीनां तेषां संवादनं कथं । शरीरमात्र संबंधमात्मनो भावयेत्सदा ।। २५५ ।। यतो निःशेषमूर्तार्थसंबंधविनिवर्तनात् । विभुत्वाभावसिद्धिः स्यादिति केचित्प्रचक्ष्यते॥२५६॥ तदयुक्तं मनीषायाः साकल्येनात्मनः स्थितेः । तच्छ्रन्यस्यात्मताहानेस्तादात्म्यस्य प्रसाधनात् ॥ यद्यपि शिरसि मे सुखं पादे मे वेदनेति विशेषतः प्रदेशवृत्तित्वं सुखादीनामनुभूयते तदनुभवविशेषाणां च तथापि ज्ञानसामान्यस्य सर्वात्मद्रव्यवृत्तित्वमेव, ज्ञानमात्रशून्यस्यात्म विरोधादतिप्रसक्तेरिति साधितं उपयोगात्मसिद्धैौ । ततो युक्तेयं व्यापकविरुद्ध कार्योपलब्धिः ॥
विरुद्धकार्यसंसिद्धिर्नास्त्येकांतेनपेक्षिण्य- । ने कांतेर्थक्रियादृष्टेरित्येवमवगम्यते ॥ २५८ ॥ निरपेक्षैकांतेन ह्यनेकांतो विरुद्धस्तत्कार्यमर्थक्रिया नुपलब्धिर्निषेधस्याभावं साधयति ॥ कारणार्थविरुद्धानुपलब्धिर्ज्ञायते यथा । नास्ति मिथ्याचरित्रं मे सम्यग्विज्ञानवेदनात् २५९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org