________________
प्रथमोऽध्यायः।
२०९ हि-सर्वत्र कार्यखभावहेतोविरुद्धव्याप्तोपलब्धिरूपतापत्तेरनुपलब्धिरेवैका स्यात् अनुपलब्धेर्वा कार्यखभावहेतुतापत्तेस्तावेव स्यातां तत्र प्रतीत्यनुसरणे यथोपयोऋभिप्रायं कार्यखभावावपि प्राधान्येन विधिप्रतिषेधसाधनावुपेयौ । विधिसाधनश्चानुपलंभ इति न विषयभेदाल्लिंगसंख्यानियमः सिद्ध्येत् ॥
यसादनुपलंभोत्रानुपलभ्यत्वमिष्यते । तथोपलभ्यमानत्वमुपलभः स्वरूपतः ॥ २१३ ॥ • भिन्नावेतौ न तु स्वार्थाभेदादिति नियम्यते । भावाभावात्मकैकार्थगोचरत्वाविशेषतः॥२१४
उपलभ्यत्वानुपलभ्यत्वखरूपभेदादेव भिन्नादुपलंभौ मंतव्यौ न पुनः स्वविषयभेदादिति नियम्यते विधिप्रतिषेधात्मकैकवस्तुविषयत्वस्य तयोर्विशेषाभावात् । यथैवेत्युपलभेन प्राधान्याद्विधिर्गुणभावात् प्रतिषेधश्च विषयीक्रियते तथानुपलंभेनापि । यथानुपलभेन प्रतिषेधः प्राधान्यात् , विधिश्च गुणभावात्तथोपलंभेनापीति यथायोग्यमुदाहरिष्यते । ततः संख्येयादुपलंभानुपलंभावेव हेतू प्रतिपत्तव्यौ । तत्तत्रैवोपलंभः स्यात्सिद्धः कार्यादिभेदतः । कार्योपलब्धिरम्यादौ धूमादिः सुविधानतः२१५ कारणस्योपलब्धिः साद्विशिष्टजलदोन्नतेः । वृष्टौ विशिष्टता तस्साश्चिंत्या छायाविशेषतः २१६ कारणानुपलंभेपि यथा कार्ये विशिष्टता । बोध्याभ्यासात्तथा कार्यानुपलंभेपि कारणे॥२१७॥ समर्थ कारणं तेन नांत्यक्षणगतं मतम् । तद्बोधे येन वैयर्थ्यमनुमानस्य गद्यते ॥ २१८ ॥ न चानुकूलतामात्रं कारणस्य विशिष्टता । येनास्य प्रतिबंधादिसंभवाध्यभिचारिता ॥ २१९॥ वैकल्यप्रतिबंधाभ्यामनासाद्य स्वभावताम् । विशिष्टतात्र विज्ञातुं शक्या छायादिभेदतः २२० तद्विलोपेखिलख्यातव्यवहारविलोपनम् । तृप्त्यादिकार्यसिद्ध्यर्थमाहारादिप्रवृत्तितः ॥२२१॥ हेतुना यः समग्रेण कार्योत्पादोनुमीयते । अर्थातरानपेक्षत्वात्स स्वभाव इतीरणे ॥ २२२ ॥ कार्योत्पादनयोग्यत्वे कार्ये वा शक्तकारणम् । स्वभावहेतुरित्यायैर्विचार्य प्रथमे मतः॥२२३॥ स्वकार्ये भिन्नरूपैकस्वभावं कारणं वदेत् । कार्यस्यापि स्वभावत्वप्रसंगादविशेषतः ॥ २२४ ॥ समग्रकारणं कायेखभावो न तु तस्य तत् । कोन्यो ब्रूयादिति ध्वस्तप्रज्ञानैरात्मवादिनः २२५ यत्स्वकार्याविनामावि कारणं कार्यमेव तत् । कार्य तु कारणं भावीत्येतदुन्मत्तभाषितम्।।२२६ परस्पराविनाभावात् कयाश्चित् (१) । हेतुतत्त्वव्यवस्थैवमन्योन्याश्रयणाजनैः ॥ २२७ ॥ रात्र्यादिदायकादृष्टविशेषस्यानुमापकम् । पाणिचक्रादि तत्कार्य कथं वो भाविकारणम् ॥२२८ तत्परीक्षकलोकानां प्रसिद्धमनुमन्यताम् । कारणं कार्यवद्धेतुरविनाभावसंगतम् ॥ २२९ ॥ एवं कार्योपलब्धि कारणोपलब्धि च निश्चित्य संप्रत्यकार्यकारणोपलब्धि विभिद्योदाहरन्नाह;कार्यकारणनिर्मुक्तवस्तुदृष्टिर्विवक्ष्यते । तत्स्वभावोपलब्धिश्च..... (?) निश्चिताः ॥ २३० ॥ कथंचित्साध्यतादात्म्यपरिणाममितस्य या । स्वभावस्योपलब्धिः स्यात्साविनाभावलक्षणा२३१ उत्पादादित्रयाक्रांतं समस्तं सत्त्वतो यथा । गुणपर्ययवद्रव्यं द्रव्यत्वादिति चोच्यते ॥२३२॥ यथार्थस्य स्वभावोपलंभः सव्यवसायकः । (१) स्तस्यानुमानेन किं त्वयान्यत्प्रसाध्यते॥२३३॥ समारोपव्यवच्छेदस्तेनेत्यपि न युक्तिमत् । निश्चितेर्थे समारोपासंभवादिति केचन ॥ २३४ ॥ तदसद्वस्तुनोनेकस्वभावस्य विनिश्चिते । सत्त्वादावपि साध्यात्मनिश्चयान्नियमान्नृणाम् ॥२३५॥ निश्चितानिश्चितात्मत्वं न चैकस्य विरुध्यते । चित्रताज्ञानवन्नानास्वभावैकार्थसाधनात्।।२३६॥ तत एव न पक्षस्य प्रमाणेन विरोधनं । नापि वृत्तिर्विपक्षस्ते हेतोरेकांततश्युतेः ॥ २३७ ॥ उत्पादव्ययनिर्मुक्तं न वस्तु खरशंगवत् । नापि धौव्यपरित्यक्तं त्र्यात्मकं स्वार्थतत्त्वतः २३८
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org