________________
२०८
संप्रति पराभितसंख्यांतरनियममनूद्य दूषयन्नाह ;
तत्त्वार्थश्लोकवार्तिके
--
यच्चाभूतमभूतस्य भूतं भूतस्य साधनम् । तथाभूतमभूत्तस्याभूतं भूतस्य चेष्यते ॥ २०५ ॥ नान्यथानुपपन्नत्वाभावे तदपि संगतम् । तद्भावे तु किमेतेन नियमेनाफलेन वः ॥ २०६ ॥ न ह्यभूतादिलिंगचतुष्टयनियमो व्यवतिष्ठते भूताभूतोयं स्वभावस्यापि लिंगस्य तादृशि साध्ये संभवात् । न च तद्व्यवच्छेदमकुर्वन्नियमः सफलो नाम ॥
सर्वहेतुविशेषाणां संग्रहो भासते यथा । तथा तद्भेदनियमे द्विभेदो हेतुरिष्यताम् ॥ २०७ ॥ संक्षेपादुपलभश्रानुपलंभश्व वस्तुनः । परेषां तत्प्रभेदत्वात्तत्रांतर्भावसिद्धितः ॥ २०८ ॥ उपलब्ध्यनुपलब्ध्योरेवेति सर्वहेतुविशेषाणामंतर्भावः प्रतिभासते संक्षेपात्तेषां तत्प्रभेदत्वादिति तदिष्टिः श्रेयसी । न हि कार्यादयः संयोग्यादयः पूर्ववदादयो वीतादयो वा हेतुविशेषास्ततो भिद्यंते तदप्रभेदत्वाप्रतीतेः ॥
______
[सू० १३
ननूपलभ्यमानत्वमुपलंभो यदीष्यते । तदा स्वभावहेतुः सद्व्यवहारप्रसाधने ॥ २०९ ॥ अथोपलभ्यते येन स तथा कार्यसाधनः । समानोनुपलभेपि विचारोयं कथं न ते ॥ २९० ॥ यद्युपलभः कर्मसाधनस्तदा स्वभावहेतुरेव सध्यवहारे साध्ये करणसाधनमनुपलभे ततः सोपि न स्वभावकार्यहेतुभ्यां भिन्नः स्यात् । कर्मसाधनत्वेनुपलभ्यमानत्वस्य खभावहेतुत्वात् । करणसाधनत्वेनुपलभनस्य कार्यस्वभावयोर्विधिसाधनत्वादनुपलंभस्य प्रतिषेधविषयत्वादन्यस्ताभ्यामनुपलंभ इत्य संगतं
इत्याह
यथा चानुपलंभेन निषेधोर्थस्य साध्यते । तथा कार्यस्वभावाभ्यामिति युक्ता न तद्भिदा२११
ननु च द्वौ साधन|वेकः प्रतिषेधहेतुरित्यत्र द्वावेव वस्तुसाधनौ प्रतिषेधहेतुरेवैक इति नियम्यते न पुनर्द्वी वस्तुसाधनावेव ताभ्यामन्यव्यवच्छेदस्यापि साधनात् । तथा नैक एव प्रतिषेधहेतुरित्यवधार्यते तत एव यतो लिंगत्रयनियमः संक्षेपान्न व्यवतिष्ठत इति न तद्विभेदो हेतुरिष्यते तस्याव्यवस्थानादित्य
त्राह
Jain Education International
निषेधहेतुरेवैक इत्ययुक्तं विधेरपि । सिद्धेरनुपलं भेनान्यव्यवच्छिद्विधिर्यतः ॥ २१२ ॥
नास्तीह प्रदेशे घटादिरूपलब्धिलक्षणप्राप्तस्यानुपलब्धेरित्यनुपलंभेन यथा निषेध्यस्य प्रतिषेधस्तथा व्यवच्छेदस्य विधिरपि कर्तव्य एव । प्रतिषेधो हि साध्यस्ततोऽन्योऽप्रतिषेधस्तद्व्यवच्छेदस्य विधौ कथं प्रतिषेधः सिद्ध्येत् ? तद्विधौ वा कथं प्रतिषेधहेतुरेवैक इत्यवधारणं सुघटं गुणभावेन विधेरनुपलंभेन साधनात्प्राधान्येन प्रतिषेधस्यैव व्यवस्थापनात्सुघटं तथावधारणमिति चेत्, तर्हि द्वौ वस्तुसाधनावित्यव - धारणमस्तु ताभ्यां वस्तुत एव प्राधान्येन विधानात् प्रतिषेधस्य गुणभावेन साधनात् । यदि पुनः प्रतिघोपि कार्यस्वभावाभ्यां प्राधान्येन साध्यते यथा नानग्मिरत्र धूमात्, नावृक्षोऽयं शिंशपात्वादिति मतं तदानुपलभेनापि विधिः प्रधानभावेन साध्यतां । यथास्त्यत्राग्निरनौष्ण्यानुपलब्धेरिति कथं निषेधसाधन एवैक इत्येकं संविधत्सोरन्यत्प्रच्यवते । ननु च नानग्निरत्र धूमादिति विरुद्धकार्योपलब्धिः प्रतिषेधस्य साधिका नावृक्षोयं शिंशपात्वादिति विरुद्धव्याप्तोपलब्धिश्च यावत्कश्चित्प्रतिषेधः स सर्वोनुपलब्धेरिति वचनात् । तथास्त्यत्राग्निरनौष्ण्यानुपलब्धेरित्ययमपि स्वभावहेतु रौष्ण्योपलब्धेरेव हेतुत्वात्प्रतिषेधद्वयत्व* प्रकृतार्थसमर्थकत्वादिति न प्राधान्येन द्वौ प्रतिषेधसाधनौ । नाप्येको विधिसाधनो यतो दोषः स्यादिति कश्चित्, सोपि न प्रातीतिकाभिधायी कार्यस्वभावानुपलब्धिषु प्रतीयमानासु विपर्ययकल्पनात् । तथा
For Private & Personal Use Only
www.jainelibrary.org