________________
प्रथमोऽध्यायः ।
৩৩ खभावैः संबंधेऽनवस्थानं तेषामप्यन्यैः स्वभावैः संबंधात् । मुख्यखभावानामुपचरितैः स्वभावैस्तावद्भिरात्मनोऽसंबंधे नानाकार्यकारणं नानाप्रतिभासविषयत्वं चात्मनः किमुपचरितैरेव नानास्वभावैर्न स्यात् , येन मुख्यस्वभावकल्पनं सफलमनुमन्येमहि । नानास्वभावानामात्मनोनर्थातरत्वे तु स्वभावा एव नात्मा कश्चिदेको भिन्नेभ्योनांतरस्यैकत्वायोगात् , आत्मैव वा न केचित्स्वभावाः स्युः, यतो नोपचरितस्वभावव्यवस्थात्मनो न भवेत् । कथंचिद्भेदाभेदपक्षेपि स्वभावानामात्मनोनवस्थानं तस्य निवारयितुमशक्तेः । परमार्थतः कस्यचिदेकस्य नानाखभावस्य मेचकज्ञानस्य ग्राह्याकारवेदनस्य वा सामान्यविशेषादेर्वा प्रमाणबलादव्यवस्थानात्तेन व्यभिचारासंभवादिति तेप्यनेनैव प्रतिक्षिप्ताः, खयमिष्टानिष्टखभावाभ्यां सदसत्त्वस्वभावसिद्धेरप्रतिबंधात् । न च कस्यचिदुपचरिते सदसत्त्वे तत्त्वतोनुभयत्वस्य प्रसक्तेः, तच्चायुक्तं, सर्वथा व्याघातात् । कथंचिदनुभयत्वं तु वस्तुनो नोभयखभावतां विरुणद्धि; कथं वानुभयरूपतया तत्त्वं तदन्यरूपतया चातत्त्वमिति ब्रुवाणः कस्यचिदुभयरूपतां प्रतिक्षिपेत् । न सन्नाप्यसन्नोभयं नानुभयमन्यद्वा वस्तु; किं तर्हि ? वस्त्वेव सकलोपाधिरहितत्वात्तथा वक्तुमशक्तेरवाच्यमेवेति चेत् , कथं वस्त्वित्युच्यते ? सकलोपाधिरहितमवाच्यं वा ? वस्त्वादिशब्दानामपि तत्राप्रवृत्तेः । सत्यामपि वचनागोचरतायामात्मादितत्त्वस्योपलभ्यताभ्युपेया; सा च खखरूपेणास्ति न पररूपेणेति सदसदात्मकत्वमायातं तस्य तथोपलभ्यत्वात् । न च सदसत्त्वादिधर्मैरप्यनुपलभ्यं वस्त्विति शक्यं प्रत्येतुं खरशृंगादेरपि वस्तुत्वप्रसंगात् । धर्मधर्मिरूपतयानुपलभ्यं स्वरूपेणोपलभ्यं वस्त्विति चेत् , यथोपलभ्यं तथा सत् यथा चानुपलभ्यं तथा तदसदिति । तदेवं सदसदात्मकत्वं सुदूरमप्यनुसृत्य तस्य प्रतिक्षेप्तुमशक्तेः । ततः सदसत्वभावौ पारमार्थिको क्वचिदिच्छताऽनंतखभावाः प्रतीयमानास्तथात्मनोभ्युपगंतव्याः । तेषां च क्रमतो विनाशोत्पादौ तस्यैवेति सिद्धं त्र्यात्मकत्वमात्मनो गुणासंबंधेतररूपाभ्यां नाशोत्पादव्यवस्थानादात्मत्वेन ध्रौव्यत्वसिद्धेः । ततोपि बिभ्यता नात्मनो भिन्नेन गुणेन संबंधोभिमंतव्यो न वासंबद्धस्तस्यैव गुणो व्यवस्थापयितुं शक्यो यतः संबंधादिति हेतुः स्यादिति सूक्तं नित्यैकांते नात्मा हि बंधमोक्षादिकार्यस्य कारणमित्यनवस्थानात् ।। क्षणक्षयेपि नैवास्ति कार्यकारणतांजसा । कस्यचित्कचिदत्यंताव्यापारादचलात्मवत् ॥ १२४ ॥
क्षणिकाः सर्वे संस्काराः स्थिराणां कुतः क्रियेति निर्व्यापारतायां क्षणक्षयैकांते भूतिरेव क्रियाकारकव्यवहारभागिति ब्रुवाणः कथमचलात्मनि निर्व्यापारेपि सर्वथा भूतिरेव क्रियाकारकव्यवहारमनुसरतीति प्रतिक्षिपेत् ॥
अन्वयव्यतिरेकायो यस्य दृष्टोनुवर्तकः । स तद्धेतुरिति न्यायस्तदेकांते न संभवी ॥ १२५ ॥
नित्यैकांते नास्ति कार्यकारणभावोऽन्वयव्यतिरेकाभावात् । न हि कस्यचिन्नित्यस्य सद्भावोऽन्वयः सर्वनित्यान्वयप्रसंगात् , प्रकृतनित्यसद्भाव इव तदन्यनित्यसद्भावेपि भावात् , सर्वथाविशेषाभावात् । नापि व्यतिरेकः शाश्वतस्य तदसंभवात् । देशव्यतिरेकः संभवतीति चेत् न, तस्य व्यतिरेकत्वेन नियमयितुमशक्तेः, प्रकृतदेशे विवक्षितासर्वगतनित्यव्यतिरेकवदविवक्षितसर्वगतनित्यव्यतिरेकस्यापि सिद्धेः । तथापि कस्यचिदन्वयव्यतिरेकसिद्धौ सर्वनित्यान्वयव्यतिरेकसिद्धिप्रसंगात् किं कस्य कार्य स्यात् ? ततोऽचलात्मनोन्वयव्यतिरेको निवर्तमानौ खव्याप्यां कार्यकारणतां निवर्तयतः। तदुक्तं-"अन्वयव्यतिरेकाद्यो यस्य दृष्टोनुवर्तकः । स भावस्तस्य तद्धेतुरतो भिन्ना न संभवा ॥” इति । न चायं न्यायस्तत्र संभवतीति नित्ये यदि कार्यकारणताप्रतिक्षेपस्तदा क्षणिकेपि तदसंभवस्याविशेषात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org