________________
७८
[सू०१
तत्त्वार्थश्लोकवार्तिके तत्र हेतावसत्येव कार्योत्पादेन्वयः कुतः । व्यतिरेकश्च संवृत्त्या तौ चेत् किं पारमार्थिकम्॥१२६॥
न हि क्षणक्षयकांते सत्येव कारणे कार्यस्योत्पादः संभवति कार्यकारण योरेककालानुषंगात् , कारणस्यैकस्मिन् क्षणे जातस्य कार्यकालेपि सत्त्वे क्षणभंगभंगप्रसंगाच्च । सर्वथा तु विनष्टे कारणे कार्यस्योत्पादे कथमन्वयो नाम चिरतरविनष्टान्वयवत् । तत एव व्यतिरेकाभावः कारणाभावे कार्यस्याभावाभावात् । स्यान्मतं । वकाले सति कारणे कार्यस्य खसमये प्रादुर्भावोऽन्वयो असति वाऽभवनं व्यतिरेको न पुनः कारणकाले तस्य भवनमन्वयोऽन्यदात्वभवनं व्यतिरेकः । सर्वथाप्यभिन्नदेशयोः कार्यकारणभावोपगमे कुतोमिधूमादीनां कार्यकारणभावो भिन्नदेशतयोपलंभात् । भिन्नदेशयोस्तु कार्यकारणभावे भिन्नकालयोः स कथं प्रतिक्षिप्यते येनान्वयव्यतिरेको तादृशौ न स्यातां । कारणत्वेनाभिमतेप्यर्थे खकाले सति कस्यचित्खकाले भवनमसति वाऽभवनमन्वयो व्यतिरेकश्च स्यादित्यपि न मंतव्यमन्यत्र समानत्वात् । कारणत्वेनानभिमतेर्थे स्वदेशे सति सर्वस्य खदेशे भवनमन्वयो असति वाऽभवनं व्यतिरेक इत्यपि वक्तुं शक्यत्वात् । स्खयोग्यताविशेषात्कयोश्चिदेवार्थयोभिन्नदेशयोरन्वयव्यतिरेकनियमात्कार्यकारणनियमपरिकल्पनायां भिन्नकालयोरपि स किं न भवेत्तत एव सर्वथा विशेषाभावात् । तदेतदप्यविचारितरम्यं । तन्मते योग्यताप्रतिनियमस्य विचार्यमाणस्यायोगात् । योग्यता हि कारणस्य कार्योत्पादनशक्तिः, कार्यस्य च कारणजन्यत्वशक्तिस्तस्याः प्रतिनियमः, शालिबीजांकुरयोश्च भिन्नकालत्वाविशेषेपि शालिबीजस्यैव शाल्यंकुरजनने शक्तिर्न यवबीजस्य, तस्य यवांकुरजनने न शालिबीजस्येति कथ्यते । तत्र कुतस्तच्छक्तेस्तादृशः प्रतिनियमः? स्वभावत इति चेत् न, अप्रत्यक्षत्वात् । परोक्षस्य शक्तिप्रतिनियमस्य पर्यनुयुज्यमानतायां खभावैरुत्तरस्यासंभवात् , अन्यथा सर्वस्य विजयित्वप्रसंगात् । प्रत्यक्षप्रतीत एवं चार्थे पर्यनुयोगे खभावैरुत्तरस्य खयमभिधानात् । कथमन्यथेदं शोभेत,-"यत्किंचिदात्माभिमतं विधाय निरुत्तरस्तत्र कृतः परेण । वस्तुखभावैरिति वाच्यमित्थं तदुत्तरं स्याद्विजयी समस्तः । १। प्रत्यक्षेण प्रतीतेर्थे यदि पर्यनुयुज्यते । खभावैरुत्तरं वाच्यं दृष्टे कानुपपन्नता ।२।" इति । शालिबीजादेः शाल्यंकुरादिकार्यस्य दर्शनात्तजननशक्तिरनुमीयत इति चेत् , तस्य तत्कार्यत्वे प्रसिद्धेऽप्रसिद्धेपि वा? प्रथमपक्षेपि(?) कुतः शाल्यंकुरादेः शालिबीजादिकार्यत्वं सिद्धं? न तावदध्यक्षात्तत्र तस्याप्रतिभासनात् , अन्यथा सर्वस्य तथा निश्चयप्रसंगात् । तद्भावभावालिंगात्तत्सिद्धिरिति चेन्न, साध्यसमत्वात् । को हि साध्यमेव साधनत्वेनाभिदधातीत्यन्यत्रावस्थात् । तद्भावभाव एव हि तत्कार्यत्वं न ततोन्यत् । शालिबीजादिकारणकत्वाच्छाल्यंकुरादेस्तत्कार्यत्वं सिद्धमित्यपि तादृगेव । परस्पराश्रितं चैतत् , सिद्धे शालिबीजादिकारणकत्वे शाल्यंकुरादेस्तत्कार्यत्वसिद्धिस्तत्सिद्धौ च शालिबीजादिकारणत्वसिद्धिरिति । तदनुमानात् प्रत्यक्षप्रतीते तस्य तत्कार्यत्वे समारोपः कस्यचिद्व्यवच्छिद्यत इत्यप्यनेनापास्तं, खयमसिद्धात्साधनात् तव्यवच्छेदासंभवात् । तदनंतरं तस्योपलंभात्तत्कार्यत्वसिद्धिरित्यपि फल्गुप्रायं, शाल्यकुरादेः पूर्वाखिलार्थकार्यत्वप्रसंगात् । शालिबीजाभावे तदनंतरमनुपलंभान्न तत्कार्यत्वमिति चेत् , सार्दैधनाभावेंगाराद्यवस्थाग्नेरनंतरं धूमस्यानुपलब्धेरग्निकार्यत्वं माभूत् । सामग्रीकार्यत्वामस्य नामिमात्रकार्यत्वमिति चेत् , तर्हि सकलार्थसहितशालिबीजादिसामग्रीकार्यत्वं शाल्यंकुरादेरस्तु विशेषाभावात् । तथा च न किंचित्कस्यचिदकारणमकार्य वेति सर्व सर्वस्मादनुमीयेतेति वा कुतश्चित् किंचिदिति नानुमानात्कस्यचिच्छक्तिप्रतिनियमसिद्धिर्यतोन्वयव्यतिरेकप्रतिनियमकार्यकारणभावे प्रतिनियमनिबंधनः सिद्ध्येत् । तत एव संवृत्त्यान्वयव्यतिरेको यथादर्शनं कारणस्य कार्येणानुविधीयते न तु यथातत्त्वमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org