________________
0
प्रथमोऽध्यायः ।
७९
चेत्, कथमेवं कार्यकारणभावः पारमार्थिकः ? सोपि संवृत्त्येति चेत्, कुतोर्थक्रियाकारित्वं वास्तवं ? तदपि सांवृत्तमेवेति चेत्, कथं तल्लक्षणवस्तुतत्त्वमिति न किंचित्क्षणक्षयैकांतवादिनः शाश्वतैकांतवादिन इव पारमार्थिकं सिच्छेत् ॥
तथा सति न बंधादिहेतुसिद्धिः कथंचन । सत्यानेकांतवादेन विना कचिदिति स्थितम् ॥ १२७॥ न सत्योऽनेकांतवादः प्रतीतिसद्भावेपि तस्य विरोधवैयधिकरण्यादिदोषोपद्रुतत्वादिति नानुमंतव्यं, सर्वथैकांत एव विरोधादिदोषावतारात्, सत्येनानेकांतवादेन विना बंधादिहेतूनां क्वचिदसिद्धेः ॥
सत्यमद्वयमेवेदं स्वसंवेदनमित्यसत् । तद्व्यवस्थापकाभावात्पुरुषाद्वैततत्त्ववत् ।। १२८ ।।
न हि कुतश्चित्प्रमाणाद्द्द्वैतं संवेदनं व्यवतिष्ठते ब्रह्माद्वैतवत् प्रमाणप्रमेययोर्द्वैतप्रसंगात् । प्रत्यक्षतस्तव्यवस्थापने नांद्वैतविरोध इति चेन्न, अन्यतः प्रत्यक्षस्य भेदप्रसिद्धेः । अनेनानुमानादुपनिषद्वाक्याद्वा तद्व्यवस्थापने द्वैतप्रसंग ः कथितः ॥
न च स्वतः स्थितिस्तस्य ग्राह्यग्राहकतेक्षणात् । सर्वदा नापि तद्भांतिः सत्यसंवित्त्यसंभवात् १२९
न संवेदनाद्वैतं प्रत्यक्षांतरादनुमानाद्वा स्थाप्यते स्वतस्तस्य स्थितेरिति न साधीय:, सर्वदा ग्राह्यग्राहकाकाराक्रांतस्य संवेदनस्यानुभवनात्, स्वरूपस्य स्वतो गतेरिति वक्तुमशक्तेः । संविदि ग्राह्यग्राहकाकारस्यानुभवनं भ्रांतमिति न वाच्यं तद्रहितस्य सत्यस्य संवित्त्यभावात् । सर्वदावभासमानस्य सर्वत्र सर्वेषां भ्रांतत्वायोगात् ॥
"
यथैवारामविश्रांत पुरुषाद्वैतसत्यता । तत्सत्यत्वे च तद्भांतिरित्यन्योन्यसमाश्रयः ॥ १३० ॥ तथा वेद्यादिविभ्रांतौ वेदकाद्वैतसत्यता । तत्सत्यत्वे च तद्भांतिरित्यन्योन्यसमाश्रयः ॥ १३१ ॥
कथमयं पुरुषाद्वैतं निरस्य ज्ञानाद्वैतं व्यवस्थापयेत् । स्यान्मतं । न वेद्याद्याकारस्य आंतता संचिन्मात्रस्य सत्यत्वात्साध्यते किं त्वनुमानात्ततो नेतरेतराश्रयः इति । तदयुक्तं, लिंगाभावात् । विवादगोचरो वेद्याद्याकारो भ्रांतभासजः । अथ स्वप्नादिपर्यायाकारवद्यदि वृत्तयः ॥ १३२ ॥ विभ्रांत्या भेदमापन्नो विच्छेदो विभ्रमात्मकः । विच्छेदत्वाद्यथा स्वप्नविच्छेद इति सिद्ध्यतु ॥ १३३
न हि खनादिदशायां ग्राह्याकारत्वं भ्रांतत्वेन व्याप्तं दृष्टं न पुनर्विच्छेदत्वमिति शक्यं वक्तुं प्रतीतिविरोधात् । तदुभयस्य भ्रांतत्वसिद्धौ किमनिष्टमिति चेत् ?
नित्यं सर्वगतं ब्रह्म निराकारमनंशकम् । कालदेशादि विच्छेद भ्रांतत्वेऽकलयद्वयम् ॥ १३४ ॥ कालविच्छेदस्य भ्रांतत्वे नित्यं देशविच्छेदस्य सर्वगतमाकारस्य निराकारमंशविच्छेदस्य निरंश ब्रह्म सिद्धं क्षणिकाद्वैतं प्रतिक्षिपतीति कथमनिष्टं सौगतस्य न स्यात् ॥ नित्यादिरूपसंवित्तेरभावात्तदसंभवे । परमार्थात्मतावित्तेरभावादेतदप्यसत् ।। १३५ ।।
न हि नित्यत्वादिखभावे परमार्थात्मादिखभावे वा संवित्त्यभावं प्रति विशेषोस्ति यतो ब्रह्मणो सत्यत्वे क्षणिकत्वे संवेदनाद्वैतस्यासत्यत्वं न सिद्ध्येत् ॥
न नित्यं नाप्यनित्यत्वं सर्वगत्वमसर्वगम् । नैकं नानेकमथवा स्वसंवेदनमेव तत् ॥ १३६ ॥ समस्तं तद्वचोन्यस्य तन्नाद्वैतं कथंचन । स्वेष्टेतरव्यवस्थानप्रतिक्षेपाप्रसिद्धितः ॥ १३७ ॥ खेष्टस्य संवेदनाद्वयस्य व्यवस्थानमनिष्टस्य भेदस्य पुरुषाद्वैतादेर्वा प्रतिक्षेपो यतोस्य न कथंचनापि प्रसिद्ध्यति, ततो नाद्वैतं तत्त्वं बंधहेत्वादिशून्यमास्थातुं युक्तमनिष्टतत्त्ववत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org