________________
८०
तत्त्वार्थश्लोकवार्तिक
[सू० १ नन्वनादिरविद्येयं स्वेष्टेतरविभागकृत् । सत्येतरेव दुःपारा तामाश्रित्य परीक्षणा ॥ १३८॥ सर्वस्य तत्त्वनिर्णीतेः पूर्व किं चान्यथा स्थितिः । एष प्रलाप एवास्स शून्योपप्लववादिवत्॥१३९॥ किंचिनिर्णीतमाश्रित्य विचारोन्यत्र वर्तते । सर्वविप्रतिपत्तौ हि कचिन्नास्ति विचारणा ॥१४०॥ _ न हि सर्व सर्वस्यानिर्णीतमेव विचारात्पूर्वमिति स्वयं निश्चिन्वन् किंचिन्निर्णीतमिष्टं प्रतिक्षेप्तुमर्हति विरोधात् ॥
तत्रेष्टं यस्य निर्णीतं प्रमाणं तस्य वस्तुतः । तदंतरेण निर्णीतेस्तत्रायोगादनिष्टवत् ॥ १४१॥
यथानिष्टे प्रमाणं वास्तवमंतरेण निर्णीतिर्नोपपद्यते तथा खयमिष्टेपीति । तत्र निर्णीतिमनुमन्यमानेन तदनुमंतव्यमेव ॥ । तत्स्वसंवेदनं तावद्यधुपेयेत केनचित् । संवादकत्वतस्तद्वदक्षलिंगादिवेदनम् ॥ १४२ ॥ प्रमाणानिश्चितादेव सर्वत्रास्तु परीक्षणम् । स्वेष्टेतरविभागाय विद्या विद्योपगामिनाम् ॥ १४३॥ __खसंवेदनमपि न खेष्टं निर्णीतं येन तस्य संवादकत्वात्तत्त्वतः प्रमाणत्वे तद्वदक्षलिंगादिजनितवेदनस्य प्रमाणत्वसिद्धेनिश्चितादेव प्रमाणात् सर्वत्र परीक्षणं खेष्टेतरविभागाय विद्या प्रवर्तेत तत्त्वोपप्लववादिनः, परपर्यनुयोगमात्रपरत्वादिति कश्चित् । सोपि यत्किंचनभाषी, परपर्यनुयोगमात्रस्याप्ययोगात् । तथाहि
यस्यापीष्टं न निर्णीतं कापि तस्य न संशयः । तदभावे न युज्यंते परपर्यनुयुक्तयः ॥ १४४॥ कथमव्यभिचारित्वं वेदनस्य निश्चीयते ? किमदुष्टकारकसंदोहोत्पाद्यत्वेन बाधारहितत्वेन प्रवृत्तिसामर्थेनान्यथा वेति प्रमाणतत्त्वे पर्यनुयोगाः संशयपूर्वकास्तदभावे तदसंभवात् , किमयं स्थाणुः किं वा पुरुष इत्यादेः पर्यनुयोगवत् । संशयश्च तत्र कदाचित्वचिन्निर्णयपूर्वकः स्थाण्वादिसंशयवत् । तत्र यस्य कचिकदाचिददुष्टकारकसंदोहोत्पाद्यत्वादिना प्रमाणत्वनिर्णयो नास्त्येव तस्य कथं तत्पूर्वकः संशयः, तदभावे कुतः पर्यनुयोगाः प्रवर्तेरन्निति न परपर्यनुयोगपराणि बृहस्पतेः सूत्राणि स्युः ॥ ओमिति बुवतः सिद्धं सर्व सर्वस्य वांछितम् । कचित्पर्यनुयोगस्यासंभवात्तन्निराकुलम् ॥ १४५॥ ततो न शून्यवादवत् तत्त्वोपप्लववादो वादांतरव्युदासेन सिद्ध्येत् तथानेकांततत्त्वस्यैव सिद्धेः।। शून्योपप्लववादेपि नानेकांताद्विना स्थितिः । स्वयं कचिदशून्यस्य स्वीकृतेरनुपप्लुते ॥ १४६ ॥ शून्यतायां हि शून्यत्वं जातुचिन्नोपगम्यते । तथोपप्लवनं तत्त्वोपप्लवेपीतरत्र तत् ॥ १४७ ॥
शून्यमपि हि खखभावेन यदि शून्यं तदा कथमशून्यवादो न भवेत् । न तस्याशून्यत्वेऽनेकांतादेव शून्यवादप्रवृत्तिः, शून्यस्य निःस्वभावत्वात् । न खभावेनाशून्यता नापि परखभावेन शून्यता, खरविषाणादेरिव तस्य सर्वथा निणेतुमशक्तेः कुतोनेकांतसिद्धिरिति चेत्, तर्हि तत्त्वोपप्लवमात्रमेतदायातं शून्यतत्त्वस्याप्यप्रतिष्ठानात् । न तदपि सिद्ध्यत्यनेकांतमंतरेण तत्त्वोपप्लवमानेनुपप्लवसिद्धेः। तत्राप्युपप्लवे कथमखिलं तत्त्वमनुपप्लुतं न भवेत् ? ननूपप्लवमात्रेऽनुपप्लव इत्ययुक्तं, व्याघातादभावे भाववत् । तथोपप्लवो न तत्र साधीयांस्तत एवाभावेऽभाववत् । ततो यथा न सन्नाप्यसन्नभावः सर्वथा व्यवस्थापयितुमशक्तेः किं तीभाव एव, तथा तत्त्वोपप्लवोपि विचारात् कुतश्चिद्यदि सिद्धस्तदा न तत्र केनचिद्रूपेणोपप्लवो नाप्यनुपप्लवो व्याघातात् , किं तद्युपप्लव एवेति नानेकांतावतार इति चेत् , तर्हि प्रमाणतत्त्वं नादुष्टकारकसंदोहोत्पाद्यत्वेन नापि बाधारहितत्वादिभिः स्वभावैव्येवस्थाप्यते व्याघातात् , किं तु प्रमाणं प्रमाणमेव प्रमाणत्वेनैव तस्य व्यवस्थानात् । न हि पृथिवी किमग्नित्वेन व्यवस्थाप्यते जलत्वेन वायुत्वेन वेति पयेनुयोगो युक्तः, पृथिवीत्वेनैव तस्याः प्रतिष्ठानात् । प्रमाणखभावा एवादुष्टकारकसंदोहोत्पाद्यत्वादय
Jain Education International
For Private & Personal Use Only
www.jainelibrary gorg