________________
प्रथमोऽध्यायः।
८१ स्ततो न तैः प्रमाणस्य व्यवस्थापने व्याघात इति चेत्, किमिदानीं पर्यनुयोगेन? तत्वबलेन प्रमाणस्य सिद्धत्वात् । स्यान्मतं । न विचारात्प्रमाणस्यादुष्टकारकसंदोहोत्पाद्यत्वादयः खभावाः प्रसिद्धाः परोपगममात्रेण तेषां प्रसिद्धः । संशयावतारात्पर्यनुयोगो युक्त एवेति तदप्यसारं, अविचारस्य प्रमाणखभावव्यवस्थानप्रतिक्षेपकारिणः खयमुपप्लुतत्वात् । तस्यानुपप्लुतत्वे वा कथं सर्वथोपप्लवः? यदि पुनरुपप्लुतानुपप्लुतत्वाभ्यामवाच्योऽविचारस्तदा सर्व प्रमाणप्रमेयतत्त्वं तथास्त्विति न क्वचिदुपप्लुतैकांतो नाम । यथा चोपप्लवोऽविचारो वा तद्धेतुरुपप्लुतत्वानुपप्लुतत्वाभ्यामवाच्यः खरूपेण तु वाच्यः तथा सर्व तत्त्वमित्यनेकांतादेवोपप्लववादे प्रवृत्तिः सर्वथैकांते तदयोगात् । नन्वेमनेकांतोप्यनेकांतादेव प्रवर्तेत सोप्यन्यस्मादनेकांतादित्यनवस्थानात् कुतः प्रकृतानेकांतसिद्धिः ? सुदूरमप्यनुसृत्यानेकांतस्यैकांतात्प्रवृत्तौ न सर्वस्यानेकांतात् सिद्धिः । 'प्रमाणार्पणादनेकांत' इत्यनेकांतोप्यनेकांतः कथमवतिष्ठते ? प्रमाणस्यानेकांतात्मकत्वेनानवस्थानस्य परिहर्तुमशक्तेरेकांतात्मकत्वे प्रतिज्ञाहानिप्रसक्तेः । नयस्याप्येकांतात्मकत्वे अयमेव दोषोऽनेकांतात्मकत्वे सैवानवस्थेति केचित् । तेप्यतिसूक्ष्मेक्षिकांतरितप्रज्ञाः, प्रकृतानेकांतसाधनस्यानेकांतस्य प्रमाणात्मकत्वेन सिद्धत्वादभ्यस्तविषयेऽनवस्थाद्यनवतारात् , तथा तदेकांतसाधनस्यैकांतस्य सुनयत्वेन स्वतः प्रसिद्ध नवस्था प्रतिज्ञाहानिर्वा संभवतीति निरूपणात् । ततः सूक्तं 'शून्योपप्लववादेपि नानेकांताद्विना स्थिति' रिति ॥ ग्राह्यग्राहकतैतेन बाध्यबाधकतापि वा । कार्यकारणतादिर्वा नास्त्येवेति निराकृतम् ॥१४८॥
ग्राह्यग्राहकबाध्यबाधककार्यकारणवाच्यवाचकभावादिखरूपेण नास्ति संवेदनं संविन्मात्राकारतयास्तीत्यनेकांतोभीष्ट एव संवेदनाद्वयस्य तथैव व्यवस्थितेह्याद्याकाराभावात्सद्वितीयतानुपपत्तेः सर्वथैकांताभावस्य सम्यगेकांतानेकांताभ्यां तृतीयतानुपपत्तिवत् । इति न प्रातीतिकं, ग्राह्यग्राहकभावादिनिराकरणस्यैकांततोऽसिद्धेः ॥ ग्राह्यग्राहकशून्यत्वं ग्राह्यं तद्राहकस्य चेत् । ग्राह्यग्राहकभावः स्यादन्यथा तदशून्यता ॥ १४९ ॥ बाध्यबाधकभावोपि बाध्यते यदि केनचित् । बाध्यबाधकभावोस्ति नोचेत्कस्य निराकृतिः॥१५०॥ कार्यापाये न वस्तुत्वं संविन्मात्रस्य युज्यते । कारणस्यात्यये तस्य सर्वदा सर्वथा स्थितिः ॥१५१॥ वाच्यवाचकतापायो वाच्यश्चेत्तयवस्थितिः । परावबोधनोपायः को नाम स्यादिहान्यथा?॥१५२॥
सोयं तयोः वाच्यवाचकयोः ग्राह्यग्राहकभावादेनिराकृतिमाचक्षाणस्तद्भावं साधयत्येवान्यथा तदनुपपत्तेः ॥ संवृत्त्या स्वप्नवत्सर्व सिद्धमित्यतिविस्मृतम् । निःशेषार्थक्रियाहेतोः संवृतेर्वस्तुताप्तितः ॥१५३ ॥ यदेवार्थक्रियाकारि तदेव परमार्थसत् । सांवृतं रूपमन्यत्तु संविन्मात्रमवस्तु सत् ॥ १५४॥
'स्वप्नवत्सांवृतेन रूपेण ग्राह्यग्राहकभावाभावो ग्राह्यो बाध्यबाधकमावो बाध्यः कार्यकारणभावोपि कार्यों वाच्यवाचकभावो वाच्य' इति ब्रुवाणो विस्मरणशीलः, खयमुक्तस्य सांवृतरूपानर्थक्रियाकारित्वस्य विस्मरणात् । तथा ह्यशेषग्राह्यग्राहकताद्यर्थक्रियानिमित्तं यत्सांवृतं रूपं तदेव परमार्थसत् तद्विपरीतं तु संवेदनमात्रमवस्तु सदिति दर्शनांतरमायातम् ॥ संवृतं चेत्क नामार्थक्रियाकारि च तन्मतम् । हंत सिद्धं कथं सर्व संवृत्त्या स्वप्नवत्तव ॥ १५५ ॥
ग्राह्यग्राहकभावाद्यर्थक्रियापि सांवृती न पुनः पारमार्थिकी यतस्तन्निमित्तं सांवृतं रूपं परमार्थसत् सिद्ध्येत् । तात्त्विकी त्वर्थक्रिया खसंवेदनमात्रं, तदात्मकं संवेदनाद्वैतं कथमवस्तु सन्नाम? ततोर्थक्रियाकारि
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org