________________
(सू०१
तत्त्वार्थश्लोकवार्तिके सांवृतं चेति व्याहतमेतदिति यदि मन्यसे, तदा कथं स्वप्नवत् संवृत्त्या सर्व सिद्धमिति ब्रूषे तदवस्थस्वाध्याघातस्य सांवृतं सिद्धं चेति ॥ .. स्वप्नसिद्धं हि नो सिद्धमस्वप्नः कोऽपरोन्यथा । संतोषकृन्न वै स्वप्नः संतोष न प्रकल्पते ॥१५६॥ वस्तुन्यपि न संतोषो द्वेषात्तदिति कस्यचित् । अवस्तुन्यपि रागात् स्यादित्यस्वप्नोस्त्वबाधितः१५७ ___ यथा हि खप्नसिद्धमसिद्धं तथा संवृतिसिद्धमप्यसिद्धमेव, कथमन्यथा खमसिद्धमपि सिद्धमेव न ' भवेत्तथाच न कश्चित्ततोऽपरोऽस्वप्नः स्यात् । संतोषकार्यखम्म इति चेन्न, स्वप्नस्यापि संतोषकारित्वदर्शनात् । कालांतरे न खप्नः संतोषकारी इति चेत् , समानमखमे । सर्वेषां सर्वत्र संतोषकारी न खप्न इति चेत् , तादृगस्वप्नेपि । कस्यचित्कचित्कदाचित्संतोषहेतोरस्वप्नत्वे तु न कश्चित्स्वप्नो नाम । न च संतोषहेतुत्वेन वस्तुत्वं व्याप्तं, क्वचित्कस्यचिद् द्वेषात् संतोषाभावेपि वस्तुत्वसिद्धेः। नापि वस्तुत्वेन संतोषहेतुत्वमवस्तुन्यपि कल्पनारूढे रागात् कस्यचित्संतोषदर्शनात् । ततः सुनिश्चितासंभवबाधकोऽस्खप्नोऽस्तु ॥ बाध्यमानः पुनः स्वग्नो नान्यथा तद्भिदेक्ष्यते । स्वतः कचिदबाध्यत्वनिश्चयः परतोपि वा ॥१५८ कारणद्व्ययसामर्थ्यात्संभवन्ननुभूयते । परस्पराश्रयं तत्रानवस्थां च प्रतिक्षिपेत् ॥ १५९ ॥ __बाधारहितोऽस्वप्नो बाध्यमानस्तु खप्न इति तयोर्भेदोन्वीक्ष्यते, नान्यथा । ननु चाखमज्ञानस्याबाध्यत्वं यदि अत एव निश्चीयते तदेतरेतराश्रयः, सत्यऽबाध्यत्वनिश्चये संवेदनस्याखामकृन्निश्चयस्तस्मिन् सत्यबाध्यत्वनिश्चय इति । परतोऽस्वप्नवेदनात्तस्याबाध्यत्वनिश्चये तस्याप्यबाध्यत्वनिश्चयोन्यस्मादस्वप्नवेदनादित्यनवस्थानान्न कस्यचिदबाध्यत्वनिश्चय इति केचित् । तदयुक्तं । क्वचित्स्वतः क्वचित्परतः संवेदनस्याबाध्यत्वनिश्चयेऽन्योन्याश्रयानवस्थानवतारात् । न च क्वचित्स्वतस्तन्निश्चये सर्वत्र खतो निश्चयः परतोपि वा क्वचिन्निणीतौ सर्वत्र परत एव निर्णीतिरिति चोद्यमनवयं हेतुद्वयनियमान्नियमसिद्धेः। खतस्तन्निश्चये हि बहिरंगो हेतुरभ्यासादिः, परतोऽनभ्यासादिः, अंतरंगस्तु तदावरणक्षयोपशमविशेषः संप्रतीयते । तदनेन खप्नस्य बाध्यमानत्वनिश्चयेप्यन्योन्याश्रयानवस्थाप्रतिक्षेपः प्रदर्शित, इति खप्नसिद्धमसिद्धमेव, तद्वत्संवृतिसिद्धमपीति न तदाश्रयं परीक्षणं नाम ॥ ततो न निश्चितान्मानाद्विना तत्त्वपरीक्षणम् । ज्ञाने येनाद्वये शून्येन्यत्र वा तत्प्रतन्यते ॥ १६०॥ प्रमाणासंभवाद्यत्र वस्तुमात्रमसंभवि । मिथ्र्यकांतेषु का तत्र बंधहेत्वादिसंकथा ॥ १६१॥
प्रमाणनिष्ठा हि वस्तुव्यवस्था तन्निष्ठा बंधहेत्वादिवार्ता, न च सर्वथैकांते प्रमाणं संभवतीति वीक्ष्यते ॥ स्याद्वादिनामतो युक्तं यस्य यावत्प्रतीयते । कारणं तस्य तावत्स्यादिति वक्तुमसंशयम् ॥ १६२ ॥
प्रतीत्याश्रयणे सम्यक् चारित्रं दर्शनविशुद्धिविभितं प्रवृद्धद्धबोधमधिरूढमनेकाकारं सकलकर्मनिर्दहनसमर्थ यथोदितमोक्षलक्ष्मीसंपादननिमित्तमसाधारणं, साधारणं तु कालादिसंपदिति निर्बाधमनुमन्यध्वं, प्रमाणनयैस्तत्त्वाधिगमसिद्धेः ॥
नाना नानात्मनीनं नयनयनयुतं तन्न दुर्णीतिमानं तत्त्वश्रद्धानशुध्ध्यु षिततनु बृहद्बोधधामादिरूढं । चंचच्चारित्रचक्रं प्रचुरपरिचरचंडकर्मारिसेनां सातुं साक्षात्समर्थ घटयतु सुधियां सिद्धसाम्राज्यलक्ष्मीम् ॥१॥
इति तत्त्वार्थश्लोकवार्तिकालंकारे प्रथमाध्यायस्य प्रथममाह्निकम् । - १ परतोनिश्चये अनभ्यासादिबहिरंगो हेतुः। २ प्रमाणात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org