________________
७६
तत्त्वार्थश्लोकवार्तिके
[ सू० १
च बंधस्य जनिकेति मोक्षबंधकारणसंख्यानियमः, विपर्ययादेव बंधी ज्ञानादेव मोक्ष इति नेष्यत एव, परस्यापि संचितकर्मफलोपभोगादेरभीष्टत्वादिति केचित् ॥
एतेषामप्यनेकांताश्रयणे श्रेयसी मतिः । नान्यथा सर्वथैकांते बंधहेत्वाद्ययोगतः ॥ ११६ ॥ नित्यत्वैकांतपक्षे हि परिणामनिवृत्तितः । नात्मा बंधादिहेतुः स्यात् क्षणप्रक्षयिचित्तवत् ११७ परिणामस्याभावे नात्मनि क्रमयौगपद्ये तयोस्तेन व्याप्तत्वात् । पूर्वापरखभावत्यागोपादानस्थितिलक्षणो हि परिणामो न पूर्वोत्तरक्षणविनाशोत्पादमात्रं स्थितिमात्रं वा प्रतीत्यभावात् । स च क्रमयौगपद्ययोर्व्यापकतया संप्रतीयते । बहिरंतश्च बाधकाभावान्नापारमार्थिको यतः स्वयं निवर्तमानः क्रमयौगपद्ये न निवर्तयेत् । ते च निवर्तमाने अर्थक्रियासामान्यं निवर्तयतस्ताभ्यां तस्य व्याप्तत्वात् । अर्थक्रियासामान्यं तु यत्र निरतिशयात्मनि न संभवति तत्र बंधमोक्षाद्यर्थक्रियाविशेषः कथं संभाव्यते, येनायं तदुपादानहेतुः स्यात्, निरन्वयक्षणिक चित्तस्यापि तदुपादानत्वप्रसंगात् ॥
न चात्मनो गुणो भिन्नस्तदसंबंधतः सदा । तत्संबंधे कदाचित्तु तस्य नैकांतनित्यता ॥ ११८ ॥ गुणासंबंधरूपेण नाशाद्गुणयुतात्मना । प्रादुर्भावाच्चिदादित्वस्थानात्र्यात्मत्वसिद्धितः ॥ ११९ ॥ नापरिणाम्यात्मा तस्येच्छाद्वेषादिपरिणामेनात्यंतभिन्नेन परिणामित्वात्, धर्माधर्मोत्पत्त्याख्या बंधसमवायिकारणत्वोपपत्तेरिति न मंतव्यं, स्वतोऽत्यंतभिन्नेन परिणामेन कस्यचित्परिणामित्वासंभवात्, अन्यथा रूपादिपरिणामेनात्माकाशादेः परिणामित्वप्रसंगात् । ततोऽपरिणाम्येवात्मेति न बंधादेः समवायिकारणं, नाप्यात्मांतःकरण संयोगोऽसमवायिकारणं, प्रागदृष्टं वा तद्गुणो निमित्तकारणं, तस्य ततो भिन्नस्य सर्वदा तेनासंबंधात् । कदाचित्तत्संबंधे वा नित्यैकांतहानिप्रसंगात् खगुणासंबंधरूपेण नाशाद्गुणसंबंधरूपेणोत्पादाच्चेतनत्वादिना स्थितेस्तत्रयात्मकत्वसिद्धेः । एतेनात्मनो भिन्नो गुणः सत्त्वरजस्तमोरूपो बंधादिहेतुरित्येतत्प्रतिव्यूढं, तेन तस्य शश्वदसंबंधेन तद्धेतुत्वानुपपत्तेः, कदाचित्संबंधे त्र्यात्मकत्वसिद्धेरविशेषात् ॥
.3
यद्विनश्यति तद्रूपं प्रादुर्भवति तत्र यत् । तदेवानित्यमात्मा तु तद्भिन्नो नित्य इत्यपि ॥ १२० ॥ न युक्तं नश्वरोत्पित्सुरूपाधिकरणात्मना । कादाचित्कत्वतस्तस्य नित्यत्वैकांतहानितः ॥ १२१ ॥ कदाचिन्नश्वरखभावाधिकरणं कदाचिदुत्पित्लुधर्माधिकरणमात्मा नित्यैकांतरूप इति ब्रुवन्न स्वस्थः, कादाचित्कानेकधर्माश्रयत्वस्यानित्यत्वात् ॥
नानाधर्माश्रयत्वस्य गौणत्वादात्मनः सदा । स्थास्नुतेति न साधीयः सत्यासत्यात्मताभिदः १२२ सत्यासत्यखभावत्वाभ्यामात्मनो भेदः संभवतीत्ययुक्तं, विरुद्धधर्माध्यासलक्षणत्वाद्भेदस्यान्यथात्मानात्मनोरपि भेदाभावप्रसंगात् ॥
असत्यात्मकतासत्त्वे सत्त्वे सत्यात्मतात्मनः । सिद्धं सदसदात्मत्वमन्यथा वस्तुताक्षतिः || १२३॥
नानाधर्माश्रयत्वं गौणमसदेव मुख्यं स्थायि तु सदिति तत्त्वतो जीवस्यैकरूपत्वमयुक्तं सदसत्स्वभावत्वाभ्यामनेकरूपत्वसिद्धेः । यदि पुनरात्मनो मुख्यखभावेनेवोपचरितखभावेनापि सत्त्वमुररीक्रियते तदा तस्याशेषपररूपेण सत्त्वप्रसक्तेरात्मत्वेनैव व्यवस्थानुपपत्तिः सत्तामात्रवत्सकलार्थस्वभावत्वात् । तस्योपचरितखभावेनेव मुख्यस्वभावेनाप्यसत्त्वे कथमवस्तुत्वं न स्यात् सकलखभावशून्यत्वात् खरशृंगवत् । ये त्वाहुः उपचरिता एवात्मनः स्वभावभेदा न पुनर्वास्तवास्तेषां ततो भेदे तत्स्वभावत्वानुपपत्तेः । अर्थतरखभावत्वेन संबंधात्तत्खभावत्वेप्येकेन खभावेन तेन तस्य तैः संबंध सर्वेषामेकरूपतापत्तिः, नाना
Jain Education International
For Private & Personal Use Only
t
www.jainelibrary.org