________________
प्रथमोऽध्यायः ।
"
कषायेष्वंतर्भाव इति चेत् न, अप्रमत्तादीनां सूक्ष्मसांपरायिकांतानां प्रमत्तत्वप्रसंगात् । प्रमादैकदेशस्यैव कषायस्य निद्रायाश्च तत्र सद्भावात् सर्वप्रमादानामभावान्न प्रमत्तत्वप्रसक्तिरिति चेत्, तर्हि प्रमादादित्रयस्याचारित्रेतर्भावेपि प्रमत्तसंयतादीनामष्टानामसंयतत्वं मा प्रापत् । तथाहि । पंचदशसु प्रमादव्यक्तिषु वर्तमानस्य प्रमादसामान्यस्य कषायेष्वंतर्भावेपि न सर्वा व्यक्तयस्तत्रांतर्भवंति विकथेंद्रियाणामप्रमत्तादिष्वभावात्, कषायप्रणयनिद्राणामेव संभवात् इति न तेषां प्रमत्तत्वं । तथा मोहद्वादशकोदयकालभाविषु तत्क्षयोपशमकालभाविषु च प्रमादकषाययोगविशेषेषु वर्तमानस्य प्रमादकषाययोगसामान्यस्याचारित्रेऽतर्भावेपि न प्रमत्तादीनामसंयतत्वं । स्यान्मतं । प्रमादादिसामान्यस्यासंयतेषु संयतेषु च सद्भावादसंयमे संयमे चांतर्भावो युक्तो न पुनरसंयम एव, अन्यथा वृक्षत्वस्य न्यग्रोधेऽन्तर्व्यापिनोपि न्यग्रोधेष्वेवांतर्भाव - प्रसक्तेरिति । तदसत्, विवक्षितापरिज्ञानात् । प्रमादादित्रयमसंयमे च यस्यांतर्भावीति तस्य तन्नियतत्वात्तत्रांतर्भावो विवक्षितः, प्रमादानामप्रमत्तादिष्वभावात् कषायाणामकषायेष्वसंभवात् योगानामयोगेऽनवस्थानादिति तेषां संयमे नांतर्भावो विवक्षितः । प्रतिनियतविशेषापेक्षया तु तेषामसंयमेऽनंतर्भावात् पंचविध एव बंधहेतुः मोहद्वादश कक्षयोपशमसहभाविनां प्रमादकषाययोगानां विशिष्टानामसंयतेष्वभावात्कषायोपशमक्षयभाविनां च प्रमत्तकषायसंयतेष्वप्यभावात् सर्वेषां खानुरूपबंध हेतुत्वाप्रतीघातात् ॥
नन्वेवं पंचधा बंधहेतौ सति विशेषतः । प्राप्तो निर्वाणमार्गोपि तावद्धा तन्निवर्तकः ॥ ११०॥ यथा त्रिविधे बंधहेतौ त्रिविधो मार्गस्तथा पंचविधे बंधकारणे पंचविधो मोक्षहेतुर्वक्तव्यः, त्रिभिर्मोक्षकारणैः पंचविधबंधकारणस्य निवर्तयितुमशक्तेः । अन्यथा त्रयाणां पंचानां वा बंधहेतूनामेकेनैव मोक्षहेतुना निवर्तनसिद्धेर्मोक्षकारणत्रैविध्यवचनमप्ययुक्तिकमनुषज्येतेति कश्चित् ॥
७५
तदेतदनुकूलं नः सामर्थ्यात् समुपागतम् । बंधप्रत्ययसूत्रस्य पांचभ्यं मोक्षवर्त्मनः ॥ १११ ॥
सम्यग्दर्शनविरत्यप्रमादाकषायायोगा मोक्षहेतवः इति पंचविधबंधहेतूपदेशसामर्थ्याल्लभ्यत एव मोक्षहेतोः पंचविधत्वं, ततो न तदापादनं प्रतिकूलमस्माकं । सम्यग्ज्ञानमोक्षहेतोरसंग्रहः स्यादेवमिति चेन्न, तस्य सद्दर्शनेंतर्भावात् मिथ्याज्ञानस्य मिथ्यादर्शनेन्तर्भाववत् । तस्य तत्रानंतर्भावे वा षोढा मोक्षकारणं बंधकारणं चाभिमतमेव विरोधाभावादित्युच्यते ;
---
सम्यग्बोधस्य सद्दृष्टावंतर्भावात्त्वदर्शने । मिथ्याज्ञानवदेवास्य भेदे षोढोभयं मतम् ॥ ११२ ॥ तत्र कुतो भवन् भवेत्यंतं बंधः केन निवर्त्यते, येन पंचविधो मोक्षमार्गः स्यादित्यधीयते ;तत्र मिथ्यादृशो बंधः सम्यग्दृष्ट्या निवर्त्यते । कुचारित्राद्विरत्यैव प्रमादादप्रमादतः ॥ ११३ ॥ कषायादकषायेण योगाच्चायोगतः क्रमात् । तेनायोगगुणानुमुक्तेः पूर्वं सिद्धा जिनस्थितिः ॥११४
मिथ्यादर्शनाद्भवन् बंधः दर्शनेन निवर्त्यते तस्य तन्निदानविरोधित्वात् । मिथ्याज्ञानाद्भवन् बंधः सत्यज्ञानेन निवर्त्यत इत्यप्यनेनोक्तं । मिथ्याचारित्राद्भवन्सच्चारित्रेण, प्रमादाद्भवन्नप्रमादेन, कषायाद्भवन्नकषायेण, योगाद्भवन्नयोगेन स निवर्त्यत इत्ययोगगुणानंतरं मोक्षस्याविर्भावात्सयोगायोगगुणस्थानयोर्भगवदर्हतः स्थितिरपि प्रसिद्धा भवति ॥
सामग्री यावती यस्य जनिका संप्रतीयते । तावती नातिवत्यैव मोक्षस्यापीति केचन ॥ ११५ ॥ यस्य यावती सामग्री जनिका दृष्टा तस्य तावत्येव प्रत्येया, यथा यवबीजादिसामग्री यवांकुरस्य । तथा सम्यग्ज्ञानादिसामग्री मोक्षस्य जनिका संप्रतीयते ततो नैव सातिवर्तनीया, मिथ्याज्ञानादिसामग्री
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org