________________
७४ तत्त्वार्थश्लोकवार्तिके
[सु०१ भेदाभावे सिद्धांतविरोधात् । कथमेवं मिथ्यात्वादित्रयं संसारकारणं साधयतः सिद्धांतविरोधो न भवेदिति चेन्न, चारित्रमोहोदयेंतरंगहेतौ सत्युत्पद्यमानयोरसंयममिथ्यासंयमयोरेकत्वेन विवक्षितत्वाच्चतुष्टयकारणत्वासिद्धेः संसरणस्य । तत एवाविरतिशब्देनासंयमसामान्यवाचिना बंधहेतोरसंयमस्योपदेशघटनात् । सम्यग्दृष्टेरपि कस्यचिद्विषभक्षणादिजनितदुःखफलस्य हीनस्थानपरिग्रहस्य संसारस्य दर्शनान्मिथ्यादर्शनज्ञानयोरपक्षये क्षीयमाणत्वाभावान्न कथंचिद्दुःखफलत्वं मिथ्यादर्शनज्ञानापक्षये क्षीयमाणत्वेन व्याप्तमिति चेन्न, . तस्याप्यनागतांनंतानंतसंसारस्य प्रक्षयसिद्धेः साध्यांतःपातित्वेन व्यभिचारस्य तेनासंभवात् । निदर्शनं परप्रसिद्ध्या विषमविषभक्षणातिभोजनादिकमुक्तं, तत्र परस्य साध्यव्याप्तसाधने विवादाभावात् । न हि विषमविषभक्षणेऽतिभोजनादौ वा दुःखफलत्वमसिद्धं, नापि नाचरणीयमेतत्सुखार्थिनेति सत्यज्ञानोत्पत्तौ तत्संसर्गलक्षणसंसारस्यापक्षयोपि सिद्धस्तावता च तस्य दृष्टांतताप्रसिद्धरविवाद एव । तदेवमनुमितानुमानान्मिथ्यादर्शनादिनिमित्तत्वं भवस्य सिध्यतीति न विपर्ययमात्रहेतुको विपर्ययावैराग्यहेतुको वा भवो विभाव्यते ॥
तद्विपक्षस्य निर्वाणकारणस्य त्रयात्मता । प्रसिद्धैवमतो युक्ता सूत्रकारोपदेशना ॥ १०६ ॥ मिथ्यादर्शनादीनां भवहेतूनां त्रयाणां प्रमाणतः स्थितानां निवृत्तिः प्रतिपक्षभूतानि सम्यग्दर्शनादीनि त्रीण्यपेक्षते अन्यतमापाये तदनुपपत्तेः; शक्तित्रयात्मकस्य वा भवहेतोरेकस्य विनिवर्तनं प्रतिपक्षभूतशक्तित्रयात्मकमेकमंतरेण नोपपद्यत इति युक्ता सूत्रकारस्य त्रयात्मकमोक्षमार्गोपदेशना । तत्र यदा संसारनिवृत्तिरेव मोक्षस्तदा कारणविरुद्धोपलब्धिरियं, नास्ति कचिज्जीवे संसारः परमसम्यग्दर्शनज्ञानचारित्रसद्भावादिति; यदा तु संसारनिवृत्तिकार्य मोक्षस्तदा कारणविरुद्धोपलब्धिः, कस्यचिदात्मनो नास्ति दुःखमशेषं मुख्यसम्यग्दर्शनादिसद्भावादिति निश्चीयते, सकलदुःखाभावस्यात्यंतिकसुखस्वभावस्वात्तस्य च संसारनिवृत्तिफलत्वात् । यदा मोक्षः कचिद्विधीयते तदा कारणोपलब्धिरियं, क्वचिन्मोक्षोऽवश्यंभावी सम्यग्दर्शनादियोगात् । इति न कथमपि सूत्रमिदमयुक्त्यात्मकं, आगमात्मकत्वं तु निरूपितमेवं सत्यलं प्रपंचेन ॥
बंधप्रत्ययपांचध्यसूत्रं न च विरुध्यते । प्रमादादित्रयस्यांतर्भावात्सामान्यतोऽयमे ॥ १०७॥
त्रयात्मकमोक्षकारणसूत्रसामर्थ्यात्रयात्मकसंसारकारणसिद्धौ युक्त्यनुग्रहाभिधाने बंधप्रत्ययपंचविधत्वं 'मिथ्यादर्शनाविरतिप्रमादकषाययोगा बंधहेतव' इति सूत्रनिर्दिष्टं न विरुध्यत एव प्रमादादित्रयस्य सामान्यतोऽचारित्रेऽन्तर्भावात् । विशेषतश्च त्रयस्याचारित्रेऽन्तर्भावने को दोष ? इति चेत् ;विशेषतः पुनस्तस्याचारित्रांतःप्रवेशने । प्रमत्तसंयतादीनामष्टानां स्यादसंयमः ॥ १०८ ॥ तथा च सति सिद्धांतव्याघातः संयतत्वतः । मोहद्वादशकध्वंसात्तेषामयमहानितः ॥ १०९॥
नन्वेवं सामान्यतोप्यचारित्रे प्रमादादित्रयस्यांतर्भावात्कथं सिद्धांतव्याघातो न स्यात् ? प्रमत्तसंयतापूर्वेषामेव सामान्यतो विशेषतो वा तत्रांतर्भाववचनात् , प्रमत्तसंयतादीनां तु सयोगकेवल्यंतानामष्टानामपि मोहद्वादशकस्य क्षयोपशमादुपशमाद्वा सकलमोहस्य क्षयाद्वा संयतत्वप्रसिद्धेः, अन्यथा संयतासंयतत्वप्रसंगात् , सामान्यतोऽसंयमस्यापि तेषु भावादिति केचित् । तेप्येवं पर्यनुयोज्याः । कथं भवतां चतुःप्रत्ययो बंधः सिद्धांतविरुद्धो न भवेत्तत्र तस्य सूत्रितत्वादिति । प्रमादानां कषायेष्वंतर्भावादिति चेत् , सामान्यतो विशेषतो वा तत्र तेषामंतर्भावः स्यात् ? न तावदुत्तरः पक्षो निद्रायाः प्रमादविशेषखभावायाः कषायेष्वंतर्भावयितुमशक्यत्वात् तस्या दर्शनावरणविशेषत्वात् । प्रमादसामान्यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org