________________
प्रथमोऽध्यायः ।
७३
ततो मिथ्याग्रहावृत्तशक्तियुक्तो विपर्ययः । मिथ्यार्थग्रहणाकारो मिथ्यात्वादिभिदोदितः ॥१०३॥ न हि नाममात्रे विवादः स्याद्वादिनोस्ति क्वचिदेकत्रार्थे नानानामकरणस्याविरोधात् । तदर्थे तु न विवादोस्ति मिथ्यात्वादिभेदेन विपर्ययस्य शक्तित्रयात्मकस्येरणात् ॥
तथा विपर्ययज्ञानासंयमात्मा विबुध्यताम् । भवहेतुरतत्त्वार्थश्रद्धाशक्तित्रयात्मकः ॥ १०४ ॥ यावेव विपर्ययासंयमौ वितथार्थश्रद्धानशक्तियुतौ मौलौ तावेव भवसंतानप्रादुर्भावनसमर्थौ नांत्यौ प्रक्षीणशक्तिकाविति ब्रुवाणानामपि भवहेतुः त्रयात्मकस्तथैव प्रत्येतव्यो विशेषाभावात् । इत्यविवादेन संसारकारणत्रित्वसिद्धेर्न संसारकारणत्रित्वानुपपत्तिः ॥
युक्तितश्च भवहेतोस्त्रयात्मकत्वं साधयन्नाह;-~
मिथ्यादृगादिहेतुः स्यात्संसारस्तदपक्षये । क्षीयमाणत्वतो वातविकारादिजरोगवत् ॥ १०५ ॥ यो यदपक्षये क्षीयमाणः स तद्धेतुर्यथा वातविकाराद्यपक्षीयमाणो वातविकारादिजो रोगः । मिथ्यादर्शनज्ञान चारित्रापक्षये क्षीयमाणश्च संसार इति । अत्र न तावदयं वाद्यसिद्धो हेतुः मिथ्यादर्शनस्यापक्षयेऽसंयतसम्यग्दृष्टेरनंतसंसारस्य क्षीयमाणत्वसिद्धेः; संख्यातभवमात्रतया तस्य संसारस्थितेः । तत एव मिथ्याज्ञानस्यापक्षये सम्यग्ज्ञानिनः संसारस्य क्षीयमाणत्वं सिद्धं । सम्यक् चारित्रवतस्तु मिथ्याचारित्र - स्यापक्षये तद्भवमात्रसंसारसिद्धेर्मोक्षसंप्राप्तेः सिद्धमेव संसारस्य क्षीयमाणत्वं । न चैतदागममात्रगम्यमेव यतोऽयं हेतुरागमाश्रयः स्यात्, तग्राहकानुमानसद्भावात् । तथाहि । मिथ्यादर्शनाद्यपक्षये क्षीयमाणः संसारः साक्षात्परंपरया वा दुःखफलत्वाद्विषमविषभक्षणातिभोजनादिवत् । यथैव हि साक्षादुःखफलं विषमविषभक्षणं, परंपरयातिभोजनादि, तन्मिथ्याभिनिवेशाद्यपक्षये तत्त्वज्ञानवतः क्षीयते ततो निवृत्तेः, तथा संसारोपि; हीनस्थानपरिग्रहस्य दुःखफलस्य संसारत्वव्यवस्थापनत्वात् । न च किंचित्साक्षात्परं परया वा दुःखफलं मिथ्यात्वाद्यपक्षयेप्यक्षीयमाणं दृष्टं येन हेतोर्व्यभिचारः स्यात् । गंडपाटनादिकं दृष्टमिति चेत् न तस्य बुद्धिपूर्वं चिकित्सेत्यनुमन्यमानस्य सुखफलत्वेनाभिमतत्वात् दुःखफलत्वासिद्धेः; शिशुप्रभृतीनामबुद्धिपूर्वकस्य दुःखफलस्यापि पूर्वोपात्तमिथ्यादर्शनादिकृतकर्मफलत्वेन तस्य मिथ्यादर्शनाद्यनपक्षयेऽक्षीयमाणत्वसिद्धेः । कायक्लेशादिरूपेण तपसा व्यभिचार इत्यपि न मंतव्यं, तपसः प्रशमसुखफलत्वेन दुःखफलत्वासिद्धेः । तदा संवेद्यमानदुःखस्य पूर्वोपार्जितकर्मफलत्वात् तपः फलत्वासिद्धेः । ' साक्षात्परंपरया वा दुःखफलत्वं स्यात्, संसारो मिथ्यादर्शनाद्यपक्षये क्षीयमाणश्च न स्यात्' इति संदिग्धविपक्षव्यावृत्तिकत्वमपि न साधनस्य शंकनीयं; सम्यग्दर्शनोत्पत्तावसंयतसम्यग्दृष्टेर्मिथ्यादर्शनस्यापक्षये मिथ्याज्ञानानुत्पत्तेस्तत्पूर्वकमिथ्याचारित्राभावात्तन्निबंधनसंसारस्यापक्षयप्रसिद्धेः । अन्यथा मिथ्यादर्शनादित्रयापक्षयेपि तदपक्षयाघटनात् । न च सम्यग्दृष्टेर्मिथ्याचारित्राभावात्संयतत्वमेव स्यान्न पुनः कदाचिदसंयतत्वमित्यारेका युक्ता, चारित्र - मोहदये सति सम्यक्चारित्रस्यानुपपत्तेरसंयतत्वोपपत्तेः । कात्सूर्यतो देशतो वा न संयमो नापि मिथ्यासंयम इति व्याहतमपि न भवति, मिथ्यागमपूर्वकस्य संयमस्य पंचामि साधना देर्मिथ्या संयमत्वात् सम्यगागमपूर्वकस्य सम्यकूसंयमत्वात् । ततोन्यस्य मिथ्यात्वोदयासत्त्वेपि प्रवर्तमानस्य हिंसादेरसंयमत्वात् । न चासंयमाद्भेदेन मिथ्यासंयमस्योपदेशाभावादभेद एवेति युक्तं, तस्य वालतपः शब्देनोपदिष्टत्वात् ततः कथंचिद्भेदसिद्धेः । न हि चारित्रमोहोदय मात्राद्भवच्चारित्रं दर्शनचारित्रमोहोदयजनितादचारित्रादभिन्नमेवेति साधयितुं शक्यं, सर्वत्र कारणभेदस्य फलाभेदकत्वप्रसक्तेः । मिथ्यादृट्यसंयमस्य नियमेन मिथ्याज्ञानपूर्वकत्वप्रसिद्धेः, सम्यग्दृष्टेरसंयमस्य मिथ्यादर्शनज्ञानपूर्वकत्वविरोधात्, विरुद्धकारणपूर्वकतयापि
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org