________________
तत्त्वार्थश्लोकवार्तिके
[सू० १
'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इत्याद्यसूत्रसामर्थ्यात् मिथ्यादर्शनज्ञानचारित्राणि संसारमार्ग इति सिद्धेः सिद्धमेव संसारकारणत्रित्वं बाधकप्रमाणाभावात्ततो न संसारकारणत्रित्वासिद्धेर्निर्वाणकारणत्रित्वानुपपत्तिचोदना कस्यचिन्यायदर्शितामावेदयति । विपर्ययमात्रमेव विपर्ययावैराग्यमात्रमेव वा संसारकारणमिति व्यवस्थापयितुमशक्तेर्न संसारकारणत्रित्वस्य बाधास्ति । तथाहि ।
७२
मौलो हेतुर्भवस्येष्टो येषां तावद्विपर्ययः । तेषामुद्भूतबोधस्य घटते न भवस्थितिः ॥ ९८ ॥
अतस्मिंस्तग्रहो विपर्ययः, स दोषस्य रागादेर्हेतु:, तद्भावे भावात्तदभावेऽभावात् । सोप्यदृष्टस्याशुद्धकर्मसंज्ञितस्य, तदपि जन्मनस्तद्दुःखस्यानेकविधस्येति मौलो भवस्य हेतुर्विपर्यय एव एषामभिमतस्तेषां तावदुद्भूततत्त्वज्ञानस्य योगिनः कथमिह भवे स्थितिर्घटते कारणाभावे कार्योत्पत्तिविरोधात् ।
संसारे तिष्ठतस्तस्य यदि कश्चिद्विपर्ययः । संभाव्यते तदा किन दोषादिस्तन्निबंधनः ॥ ९९ ॥ समुत्पन्नतत्त्वज्ञानस्याप्यशेषतोऽनागतविपर्ययस्यानुत्पत्तिर्न पुनः पूर्वभवोपात्तस्य पूर्वाधर्मनिबंधनस्य, ततोऽस्य भवस्थितिर्घटत एवेति सम्भावनायां तद्विपर्ययनिबंधनो दोषस्तद्दोषनिबंधनं चादृष्टं तददृष्टनिमित्तं च जन्म तज्जन्मनिमित्तं च दुःखमनेकप्रकारं किन्न संभाव्यते ? नहि पूर्वोपात्तो विपर्यासस्तिष्ठति न पुनस्तन्निबंधनः पूर्वोपात्त एव दोषादिरिति प्रमाणमस्ति तत्स्थितेरेव प्रमाणतः सिद्धेः ।
तथा सति कुतो ज्ञानी वीतदोषः पुमान्परः । तत्त्वोपदेशसंतानहेतुः स्याद्भवदादिषु ॥ १०० ॥ पूर्वोपात्तदोषादिस्थितौ च तत्त्वोपदेश संप्रदायाविच्छेदहेतोर्भवदादिषु विनेयेषु सर्वज्ञस्यापि परमपुरुषस्य कुतो वीतदोषत्वं येनाज्ञोपदेशविप्रलंभनशकिभिस्तदुक्तप्रतिपत्तये प्रेक्षावद्भिर्भवद्भिः स एव मृग्यते । यदि पुनर्न योगिनः पूर्वोपात्तो विपर्ययोस्ति नापि दोषस्तस्य क्षणिकत्वेन खकार्यमदृष्टं निर्वर्त्य निवृत्तेः, किं तर्ह्यदृष्टमेव तत्कृतमास्ते तस्याक्षणिकत्वादंत्येनैव कार्येण विरोधित्वात्तत्कार्यस्य च जन्मफलानुभवनस्योपभोगेनैव निवृत्तेस्ततः पूर्वं तस्यावस्थितिरिति मतं; तदा तत्त्वज्ञानोत्पत्तेः प्राक्तस्मिन्नेव जन्मनि विपर्ययो न स्यात्पूर्वजन्मन्येव तस्य निवृत्तत्वात्, तद्वद्दोषोपीत्यापतितं, तत्कृतादृष्टस्यैव स्थितेः । न चैतद्युक्तं, प्रतीतिविरोधात् । यदि पुनः पूर्वजन्मविपर्ययाद्दोषस्ततोप्यधर्मस्तस्मादिह जन्मनि मिथ्याज्ञानं ततोऽपरो दोषस्ततोप्यधर्मस्तस्मादपरं मिथ्याज्ञानमिति तावदस्य संतानेन प्रवृत्तिर्यावत्तत्त्वज्ञानं साक्षादुत्पद्यते इति मतं; तदा तत्त्वज्ञानकालेऽपि तत्पूर्वानंतरविपर्यासाद्दोषोत्पत्तिस्ततोप्यधर्मस्ततोऽन्य विपर्यय इंति कुतस्तत्त्वज्ञानादनागतविपर्ययादिनिवृत्तिः ?
वितथाग्रहरागादिप्रादुर्भावनशक्तिभृत् । मौलो विपर्ययो नांत्य इति केचित्प्रपेदिरे ॥ १०१ ॥ मौल एव विपर्ययो वितथाग्रहरागादिप्रादुर्भावनशक्तिं बिभ्राणो मिथ्याभिनिवेशात्मकं दोषं जनयति, स चाधर्ममधर्मश्च जन्म तच्च दुःखात्मकं संसारं; न पुनरंत्यः क्रमादपकृष्यमाणतज्जननशक्तिकविपर्ययादुत्पन्नस्तज्जननशक्तिरहितोपि यतस्तत्त्वज्ञानकाले मिथ्याभिनिवेशात्मकदोषोत्पत्तिस्ततोप्यधर्मादिरुत्पद्येतेति केचित्संप्रतिपन्नाः ।
तेषां प्रसिद्ध एवायं भवहेतुस्त्रयात्मकः । शक्तित्रयात्मतापाये भवहेतुत्वहानितः ॥ १०२ ॥ य एव विपर्ययो मिथ्याभिनिवेशरागाद्युत्पादनशक्तिः स एव भवहेतुर्नान्य इति वदतां प्रसिद्धो मिथ्यादर्शनज्ञानचारित्रात्मको भवहेतुर्मिथ्याभिनिवेशशक्तेरेव मिथ्यादर्शनत्वान्मिथ्यार्थग्रहणस्य स्वयं विपर्ययस्य मिथ्याज्ञानत्वाद्रागादिप्रादुर्भवनसामर्थ्यस्य मिथ्याचारित्रत्वात् ॥
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org