________________
•
प्रथमोऽध्यायः ।
इति । एतेनः ज्ञानावरणप्रकृतिपंचकदर्शनावरणप्रकृतिचतुष्टयान्तरायप्रकृतिपंचकानां तन्निर्जरणशक्तेरावारकत्वेऽन्योन्याश्रयणं व्याख्यातम् । नामादिचतुष्टयं तु न तस्याः प्रतिबंधकम् तस्यात्मस्वरूपाघातित्वेन कथनात् । न च सर्वथानावृत्तिरेव सा सर्वदा तत्क्षयणीयकर्मप्रकृत्यभावानुषंगात् । स्यान्मतं, चारित्रमोहक्षये तदाविर्भावाच्चारित्र एवान्तर्भावो विभाव्यते । न च क्षीणकषायस्य प्रथमसमये तदाविर्भावप्रसंगः कालविशेषापेक्षत्वात्तदाविर्भावस्य । प्रधानं हि कारणं मोहक्षयस्तदाविर्भावे सहकारिकारणमंत्यसमयमन्तरेण न तत्र समर्थ, तद्भाव एव तदाविर्भावादिति । तर्हि नामाद्यघातिकर्मनिर्जरणशक्तिरपि चारित्रेन्तर्भाव्यते । तन्नापि क्षायिके न क्षायोपशमिके दर्शने नापि ज्ञाने क्षायोपशमिके क्षायिके वा तेनैव सह तदाविर्भावप्रसंगात् । न चानावरणा सा सर्वदाविर्भावप्रसंगात् संसारानुपपत्तेः । न ज्ञानदर्शनावरणान्तरायैः प्रतिबद्धा तेषां ज्ञानादिप्रतिबंधकत्वेन तदप्रतिबंधकत्वात् । नापि नामाद्यघातिकर्मभिस्तत्क्षयानंतरं तदुत्पादप्रसक्तेः । तथा चान्योन्याश्रयणात् सिद्धे नामाद्यघातिक्षये तन्निर्जरणशक्त्तत्याविर्भावात्तत्सिद्धौ नामाद्यघातिक्षयात् । इति चारित्रमोहस्तस्याः प्रतिबंधकः सिद्धः । क्षीणकषायप्रथमसमये तदाविर्भावप्रसक्तिरपि न वाच्या, कालविशेषस्य सहकारिणोपेक्षणीयस्य तदा विरहात् । प्रधानं हि कारणं मोहक्षयो नामादिनिर्जरणशक्तेर्नायोग के वलिगुणस्थानोपान्त्यान्त्यसमयं सहकारिणमन्तरेण तामुपजनयितुमलं सत्यपि केवले ततः प्राक्तदनुत्पत्तेरिति । न सा मोहक्षयनिमित्तापि क्षीणकषायप्रथमक्षणे प्रादुर्भवति, नापि तदावरणं कर्म नवमं प्रसज्यते इति स्थितं कालादिसहकारिविशेषापेक्षक्षायिकं चारित्रं क्षायिकत्वेन संपूर्णमपि मुक्त्युत्पादने साक्षादसमर्थम् केवलात्प्राक्कालभावि तदकारकम् केवलोत्तरकालाभावि तु साक्षान्मोक्षकारणं संपूर्ण केवलकारणकमन्यथा तदघटनात् ।
I
कालापेक्षितया वृत्तमसमर्थ यदीष्यते । व्यादिसिद्धक्षणोत्पादे तदन्त्यं तादृगित्यसत् ॥ ९१ ॥ प्राच्यसिद्धक्षणोत्पादापेक्षया मोक्षवर्त्मनि । विचारप्रस्तुतेरेवं कार्यकारणतास्थितेः ॥ ९२ ॥ नहि द्यादिसिद्धक्षणैः सहायोगिकेवलिचरमसमयवर्तिनो रत्नत्रयस्य कार्यकारणभावो विचारयितुमुपक्रांतो येन तत्र तस्यासामर्थ्यं प्रसज्यते । किं तर्हि ? प्रथम सिद्धक्षणेन सह; तत्र च तत्समर्थमेवेत्यसच्चोद्यमेतत् । कथमन्यथाग्निः प्रथमधूमक्षणमुपजनयन्नपि तत्र समर्थः स्यात् ? धूमक्षणजनितद्वितीयादिधूमक्षणोत्पादे तस्यासमर्थत्वेन प्रथमधूमक्षणोत्पादनेप्यसामर्थ्यप्रसक्तेः । तथा च न किंचित्कस्यचित्समर्थ कारणं, न चासमर्थात्कारणादुत्पत्तिरिति क्केयं वराकी तिष्ठेत्कार्यकारणताः कालान्तरस्थायिनोऽग्नेः खकारणादुत्पन्नो धूमः कालान्तरस्थायी स्कन्ध एक एवेति स तस्य कारणं प्रतीयते तथा व्यवहारादन्यथा तदभावादिति चेत्, तर्हि सयोगिकेवलिरत्नत्रयमयोगिकेवलिचरमसमयपर्यंतमेकमेव तदनन्तर्भाविनः सिद्धत्व पर्यायस्यानंतस्यैकस्य कारणमित्यायातम्, तच्च नानिष्टम्, व्यवहारनयानुरोधतस्तथेष्टत्वात् । निश्चय नयाश्रयणे तु यदनन्तरं मोक्षोत्पादस्तदेव मुख्यं मोक्षस्य कारणमयोगिकेवलिचरमसमयवर्ति रत्नत्रयमिति निरवद्यमेतत्तत्त्ववि - दामाभासते ।
७१
ततो मोहक्षयोपेतः पुमानुद्भूत केवलः । विशिष्टकारणं साक्षादशरीरत्वहेतुना ॥ ९३ ॥ रत्नत्रितयरूपेणायोगकेवलिनोंति । क्षणे विवर्तते ह्येतदबाध्यं निश्चितान्नयात् ॥ ९४ ॥ व्यवहारनयाश्रित्या त्वेतत्प्रागेव कारणम् । मोक्षस्येति विवादेन पर्याप्तं तत्त्ववेदिनाम् || ९५|| संसारकारणत्रित्वासिद्धेर्निर्वाणकारणे । त्रित्वं नैवोपपद्येतेत्यचोद्यं न्यायदर्शिनः ॥ ९६ ॥ आद्यसूत्रस्य सामर्थ्याद्भवहेतोस्त्रयात्मनः । सूचितस्य प्रमाणेन बाधनानवतारतः ॥ ९७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org