________________
तत्त्वार्थश्लोकवार्तिके
[सू० १
न हि क्षायिकदर्शनं केवलज्ञानावरणादिभिः सहितं केवलज्ञानस्य प्रभवं प्रयोजयति, तैस्तत्प्रभावत्वाशक्तेस्तस्य प्रतिबंधात् येन तदनंतरं तस्योत्पादः स्यात् । तैर्विमुक्तं तु दर्शनं केवलस्य प्रभावकमेव तथेष्टत्वात्, कारणस्याप्रतिबंधस्य स्वकार्यजनकत्वप्रतीतेः ।
७०
सद्बोधपूर्वकत्वेपि चारित्रस्य समुद्भवः । प्रागेव केवलान स्यादित्येतच्च न युक्तिमत् ॥ ८२ ॥ समुच्छिन्नक्रियस्यातो ध्यानस्याविनिवर्तिनः । साक्षात्संसारविच्छेदसमर्थस्य प्रसूतिः ||८३ || यथैवापूर्णचारित्रमपूर्णज्ञानहेतुकम् । तथा तत्किन्न संपूर्ण पूर्णज्ञाननिबंधनम् ॥ ८४ ॥ तन्न ज्ञानपूर्वकतां चारित्रं व्यभिचरति ।
प्रागेव क्षायिकं पूर्ण क्षायिकत्वेन केवलात् । नत्वघातिप्रतिध्वंसिकरणोपेतरूपतः ॥ ८५ ॥ केवलात्तत्प्रागेव क्षायिकं यथाख्यातचारित्रं सम्पूर्ण ज्ञानकारणकमिति न शंकनीयं तस्य मुक्त्यु - त्पादने सहकारिविशेषापेक्षितया पूर्णत्वानुपपत्तेः । विवक्षितस्वकार्यकरणेंत्यक्षणप्राप्तत्वं हि संपूर्ण, तच्च न केवलात्प्रागस्ति चारित्रस्य, ततोऽप्यूर्ध्वमघातिप्रतिध्वंसिकरणोपेतरूपतया संपूर्णस्य तस्योदयात् । न च ‘यथाख्यातं पूर्णं चारित्रमिति प्रवचनस्यैवं बाधास्ति' तस्य क्षायिकत्वेन तत्र पूर्णत्वाभिधानात् । नहि सकलमोहक्षयादुद्भवच्चारित्रमंशतोपि मलवदिति शश्वदमलवदात्यंतिकं तदभिष्टूयते । कथं पुनस्तदसंपूर्णादेव ज्ञानात्क्षायोपशमिकादुत्पद्यमानं तथापि संपूर्णमिति चेत् न, सकलश्रुताशेषतत्त्वार्थपरिच्छेदिनस्तस्योत्पत्तेः । पूर्ण तत एव तदस्त्विति चेन्न, विशिष्टस्य रूपस्य तदनंतरमभावात् । किं तद्विशिष्टं रूपं चारित्रस्येति चेत्, नामाद्यघातिकर्मत्रयनिर्जरणसमर्थं समुच्छिन्नक्रियाप्रतिपातिध्यानमित्युक्तप्रायं ।
तद्रूपावरणं कर्म नवमं न प्रसज्यते । चारित्रमोहनीयस्य क्षयादेव तदुद्भवात् ॥ ८६ ॥
यद्यदात्मकं तत्तदावरककर्मणः क्षयादुद्भवति, यथा केवलज्ञानखरूपं तदावरणकर्मणः क्षयात् । चारित्रात्मकं च प्रकृतमात्मनो रूपमिति चारित्रमोहनीयकर्मण एव क्षयादुद्भवति । न पुनस्तदावरणं कर्म नवमं प्रसज्यतेऽन्यथातिप्रसङ्गात् ।
क्षीणमोहस्य किं न स्यादेवं तदिति चेन्न वै । तदा कालविशेषस्य तादृशोऽसम्भवित्वतः ||८७|| तथा केवलबोधस्य सहायस्याप्यसंभवात् । स्वसामग्रया विना कार्य नहि जातुचिदीक्ष्यते ॥ ८८ ॥ कालादिसामग्रीको हि मोहक्षयस्तद्रूपाविर्भावहेतुर्न केवलस्तथाप्रतीतेः ।
क्षीणेपि मोहनीयाख्ये कर्मणि प्रथमक्षणे । यथा क्षीणकषायस्य शक्तिरन्त्यक्षणे मता ॥ ८९ ॥ ज्ञानावृत्यादिकर्माणि हंतुं तद्वदयोगिनः । पर्यंतक्षण एव स्याच्छेषकर्मक्षयेऽप्यसौ ॥ ९० ॥
कर्मनिर्जरणशक्तिर्जीवस्य सम्यग्दर्शने सम्यग्ज्ञाने सम्यकूचारित्रे चान्तर्भवेत्ततोन्या वा स्यात् । तत्र न तावत् सम्यग्दर्शने ज्ञानावरणादिकर्मप्रकृति चतुर्दशकनिर्जरणशक्तिरन्तर्भवत्य संयतसम्यग्दृष्ट्याद्यप्रमत्तपर्यंतगुणस्थानेष्वन्यतमगुणस्थाने दर्शनमोहक्षयात्तदाविर्भावप्रसक्तेः । ज्ञाने सान्तर्भवतीति चायुक्तं, क्षायिकेनैतदन्तर्भावे सयोगिकेवलिनः केवलेन सहाविर्भावापत्तेः । क्षायोपशमिके तदन्तर्भावे तेन सहोत्पादप्रसक्तेः । क्षायोपशमिके चारित्रे तदन्तर्भावे तेनैव सह प्रादुर्भावानुषंगात् । क्षायिके तदन्तर्भावे क्षीणकषायस्य प्रथमे क्षणे तदुद्भूतेर्निद्राप्रचलयोर्ज्ञानावरणादिप्रकृतिचतुर्दश कस्य च निर्जरणप्रसक्तेर्नोपांत्य समये अन्त्यक्षणे च तन्निर्जरा स्यात् । दर्शनादिषु तदनन्तर्भावे तदावारकं कर्मान्तरं प्रसज्येत, दर्शनमोहज्ञानावरणचारित्रमोहानां तदावारकत्वानुपपत्तेः । वीर्यान्तरायस्तदावारक इति चेन्न, तत्क्षयानन्तरं तदुद्भवप्रसंगात् । तथाचान्योन्याश्रयणं — सति वीर्यान्तरायक्षये तन्निर्जरणशक्त्याविर्भावस्तस्मिंश्च सति वीर्यान्तरायक्षय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org