________________
प्रथमोऽध्यायः ।
रूपणोत्पादात् । अन्यथा विशिष्टज्ञान सहचरितरूपतयोत्पत्तिविरोधात् पूर्ववत् । तथा दर्शनज्ञानपरिणतो जीवो दर्शनज्ञाने, ते चारित्रस्योपादानं, पर्यायविशेषात्मकस्य द्रव्यस्योपादानत्वप्रतीतेर्घटपरिणमनसमर्थपर्यायात्मकमृद्द्रव्यस्य घटोपादानवत्त्ववत् । तत्र नश्यतोरेव दर्शनज्ञानपरिणामयोरात्मा चारित्रपरिणाममियर्ति चारित्रासहचरितेन रूपेण तयोर्विनाशाच्चारित्रसहचरितेनोत्पादात् । अन्यथा पूर्ववच्चारित्रासहचरितरूपत्व• प्रसंगात् । इति कथंचित्पूर्वरूपविनाशस्योत्तरपरिणामोत्पत्त्यविशिष्टत्वात् सत्यमुपादानोपमर्दनेनोपादेयस्य भवनं । न चैवं सकृद्दर्शनादित्रयस्य संभवो विरुध्यते चारित्रकाले दर्शनज्ञानयोः सर्वथा विनाशाभावात् । एतेन सकृद्दर्शनज्ञानद्वयसंभवोपि क्वचिन्न विरुध्यते इत्युक्तं वेदितव्यं, विशिष्टज्ञान कार्यस्य दर्शनस्य सर्वथा विनाशानुपपत्तेः, कार्यकालमप्राप्नुवतः कारणत्वविरोधात् प्रलीनतमवत्, ततः कार्योत्पत्तेरयोगाद्गत्यंतरासंभवात् ॥
नन्वत्र क्षायिकी दृष्टिर्ज्ञानोत्पत्तौ न नश्यति । तदपर्यंतताहानेरित्यसिद्धांतविद्वचः ॥ ७५ ॥ क्षायिकदर्शनं ज्ञानोत्पत्तौ न नश्यत्येवानंतत्वात् क्षायिकज्ञानवत्, अन्यथा तदपर्यन्तत्वस्यागमोक्तस्य हानिप्रसंगात् । ततो न दर्शनज्ञानयोर्ज्ञानचारित्रयोर्वा कथंचिदुपादानोपादेयता युक्ता । इति ब्रुवाण न सिद्धान्तवे ||
६९
सिद्धान्ते क्षायिकत्वेन तदपर्यन्ततोक्तितः । सर्वथा तदविध्वंसे कौटस्थ्यस्य प्रसङ्गतः ॥ ७६ ॥ तथोत्पादव्ययधौव्ययुक्तं सदिति हीयते । प्रतिक्षणमतो भावः क्षायिकोपि त्रिलक्षणः ॥७७॥ ननु च पूर्वसमयोपाधितया क्षायिकस्य भावस्य विनाशादुत्तरसमयोपाधितयोत्पादात्खखभावेन सदा स्थानात्रिलक्षणत्त्वोपपत्तेः, न सिद्धान्तमनवबुध्य क्षायिकदर्शनस्य ज्ञानकाले स्थितिं ब्रूते येन तथा वचो - ऽसिद्धान्तवेदिनः स्यादिति चेत्;
पूर्वोत्तरक्षणोपाधिस्वभावक्षयजन्मनोः । क्षायिकत्वेनावस्थाने स यथैव त्रिलक्षणः ॥ ७८ ॥ तथा हेत्वन्तरोन्मुक्तयुक्तरूपेण विच्युतौ । जातौ च क्षायिकत्वेन स्थितौ किमु न तादृशः ॥ ७९ ॥
क्षायिकदर्शनं तावन्मुक्तेर्हेतुस्ततो हेत्वन्तरं विशिष्टं ज्ञानं चारित्रं च तदुन्मुक्तरूपेण तस्य नाशे तद्युक्तरूपेण जन्मनि क्षायिकत्वेन स्थाने त्रिलक्षणत्वं भवत्येव तथा क्षायिकदर्शनज्ञानद्वयस्य मुक्तिहेतोदर्शनज्ञानचारित्रत्रयस्य वा हेत्वंतरं चारित्रमघातित्रयनिर्जराकारी क्रियाविशेषः कालादिविशेषश्च, तेनोन्मुक्तया प्राक्तन्या युक्तरूपया चोत्तरया नाशे जन्मनि च क्षायिकत्वेन स्थाने वा तस्य त्रिलक्षणत्वमनेन व्याख्यातमिति क्षायिको भावस्त्रिलक्षणः सिद्धः । ननु तस्य हेत्वंतरेणोन्मुक्तता हेत्वंतरस्य प्रागभाव एव तेन युक्तता तदुत्पाद एव, नचान्यस्याभावोत्पादौ क्षायिकस्य युक्तौ, येनैवं त्रिलक्षणता स्यात् । इति चेत्; तर्हि पूर्वोत्तर समययोस्तदुपाधिभूतयोर्नाशोत्पादौ कथं तस्य स्यातां यतोऽसौ स्वयं स्थितोपि सर्वतदपेक्षया त्रिलक्षणः स्यादिति कौटस्थ्यमायातम् । तथा च सिद्धान्तविरोधः परमतप्रवेशात् । यदि पुनस्तस्य पूर्वसमयेन विशिष्टतोत्तरसमयेन च तत्खभावभूतता ततस्तद्विनाशोत्पादौ तस्येति मतं, तदा हेत्वंतरेणोन्मुक्तता युक्तता च तद्भावेन तद्भावेन च विशिष्टता तस्य स्वभावभूततैवेति तन्नाशोत्पादौ कथं न तस्य स्यातां यतो नैवं त्रिलक्षणोसौ भवेत् । ततो युक्तं क्षायिकानामपि कथंचिदुपादानोपादेयत्त्वम् ।
कारणं यदि सदृष्टिः सद्बोधस्य तदा न किम् । तदनन्तरमुत्पादः केवलस्येति केचन ॥ ८० ॥ तदसत्तत्प्रतिद्वंद्विकर्माभावे तथेष्टितः । कारणं हि स्वकार्यस्याप्रतिबंधिप्रभावकम् ॥ ८१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org