________________
६८ तत्त्वार्थश्लोकवार्तिके
[सू०१ पकारकं तदिति चेन्न, तत्कारणत्वानुषंगात् । साक्षात्कार्ये व्याप्रियमाणमुपादानेन सह तत्करणशीलं हि सहकारि, न पुनः कारणमुपकुर्वाणं । तस्य कारणकारणत्वेनानुकूलकारणत्वादिति चेत् , तर्हि सहकारिसाध्यरूपतोपादानसाध्यरूपतायाः परा प्रसिद्धा कार्यस्येति न किंचिदनेककारणमेकखभावं, येन हेतोळभिचारित्वाद्दर्शनादीनां स्वभावभेदो न सिद्ध्येत् ॥
तेषां पूर्वस्य लाभेपि भाज्यत्वादुत्तरस्य च । नैकांतेनैकता युक्ता हर्षामर्षादिभेदवत् ॥६६॥
न चेदमसिद्धं साधनम् ;तत्त्वश्रद्धानलाभे हि विशिष्टं श्रुतमाप्यते । नावश्यं नापि तल्लाभे यथाख्यातममोहकम् ॥६७ ॥ । न ह्येवं विरुद्धधर्माध्यासेपि दर्शनादीनां सर्वथैकत्वं युक्तमतिप्रसंगात् । न च स्याद्वादिनः किंचिद्विरुद्धधर्माधिकरणं सर्वथैकमस्ति तस्य कथंचिद्भिन्नरूपत्वव्यवस्थितेः । न च सत्त्वादयो धर्मा निर्वाधबोधोपदर्शिताः क्वचिदेकत्रापि विरुद्धा येन विरुद्धधर्माधिकरणमेकं वस्तु परमार्थतः न सिचेत् । अनुपलंभसाधनत्वात् सर्वत्र विरोधस्यान्यथा खभावेनापि स्वभाववतो विरोधानुषंगात् । ततो न विरुद्धधर्माध्यासो व्यभिचारी ॥
नन्वेवमुत्तरस्यापि लाभे पूर्वस्य भाज्यता । प्राप्ता ततो न तेषां स्यात्सह निर्वाणहेतुता ॥६८॥
न हि पूर्वस्य लाभे भजनीयमुत्तरमुत्तरस्य तु लाभे नियतः पूर्वलाभ इति युक्तं, तद्विरुद्धधर्माध्यास स्याविशेषात् , उत्तरस्यापि लाभे पूर्वस्य भाज्यताप्राप्तरित्यस्याभिमननम् ॥ तत्रोपादीयसंभूतेरुपादानास्तिता गतेः । कटादिकार्यसंभूतेस्तदुपादानसत्त्ववत् ॥ ६९ ॥ उपादेयं हि चारित्रं पूर्वज्ञानस्य वीक्षते । तद्भावभावितादृष्टेस्तद्वज्ज्ञानदृशो मतम् ॥ ७० ॥
न हि तद्भावभावितायां दृष्टायामपि कस्यचित्तदुपादेयता नास्तीति युक्तं, कटादिवत् सर्वस्यापि वीरणाद्युपादेयत्वाभावानुषक्तेः । न चोपादेयसंभूतिरुपादानास्तितां न गमयति कटादिसंभूतेर्वीरणाद्यस्तित्वस्यागतिप्रसंगात् , येनोत्तरस्योपादेयस्य लाभे पूर्वलाभो नियतो न भवेत् । तत एवोपादानस्य लाभे नोत्तरस्य नियतो लाभः कारणानामवश्यं कार्यवत्त्वाभावात् । समर्थस्य कारणस्य कार्यवत्त्वमेवेति चेन्न, तस्येहाविवक्षितत्वात् । तद्विवक्षायां तु पूर्वस्य लाभे नोत्तरं भजनीयमुच्यते खयमविरोधात् । इति दर्शनादीनां विरुद्धधर्माध्यासाविशेषेप्युपादानोपादेयभावादुत्तरं पूर्वास्तितानियतं न तु पूर्वमुत्तरास्तित्वगमकम् ॥ ननूपादेयसंभूतिरुपादानोपमर्दनात् । दृष्टेति नोत्तरोद्भूतौ पूर्वस्यास्तित्वसंगतिः ॥ ७१ ॥
सत्यप्युपादानोपादेयभावे दर्शनादीनां नोपादेयस्य संभवः पूर्वस्यास्तितां खकाले गमयति तदुपमर्दनेन तदुद्भूतेः । अन्यथोत्तरप्रदीपज्वालादेरस्तित्वप्रसक्तिः । तथा च कुतस्तत्कार्यकारणभावः समानकालत्वात् सव्येतरगोविषाणवदित्यस्याकूतम् ॥
सत्यं कथंचिदिष्टत्वात्प्राङ्गाशस्योत्तरोद्भवे । सर्वथा तु न तन्नाशः कार्योत्पत्तिविरोधतः॥७२॥ ज्ञानोत्पत्तौ हि सदृष्टिस्तद्विशिष्टोपजायते । पूर्वाविशिष्टरूपेण नश्यतीति सुनिश्चितम् ॥ ७३ ॥ चारित्रोत्पत्तिकाले च पूर्वदृग्ज्ञानयोश्युतिः । चर्याविशिष्टयोभूतिस्तत्सकृत्रयसंभवः ॥ ७४ ॥ दर्शनपरिणामपरिणतो ह्यात्मा दर्शनं, तदुपादानं विशिष्टज्ञानपरिणामस्य निष्पत्तेः पर्यायमात्रस्य निरन्वयस्य जीवादिद्रव्यमात्रस्य च सर्वथोपादानत्वायोगात् कूर्मरोमादिवत् । तत्र नश्यत्येव दर्शनपरिणामे विशिष्टज्ञानात्मतयात्मा परिणमते, विशिष्टज्ञानासहचारितेन रूपेण दर्शनस्य विनाशात्तत्सहचरितेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org