________________
•
प्रथमोऽध्यायः ।
६७
न चात्र सर्वथैकत्वं ज्ञानदर्शनयोस्तथा । कथंचिद्भेदसंसिद्धिर्लक्षणादिविशेषतः ॥ ५७ ॥ न हि भिन्नलक्षणत्वं भिन्नसंज्ञासंख्या प्रतिभासत्वं वा कथंचिद्भेदं व्यभिचरति; तेजोंभसोर्भिन्नलक्षणयोरेकपुद्गलद्रव्यात्मकत्वेपि पर्यायार्थतो भेदप्रतीतेः शक्रपुरंदरादिसंज्ञाभेदिनो देवराजार्थस्यैकत्वेपि शकनपूर्दारणादिपर्यायतो भेदनिश्चयात्; जलमाप इति भिन्नसंख्यस्य तोयद्रव्यस्यैकत्वेपि शक्त्यैकत्वनानात्वपर्यायतो भेदस्याप्रतिहतत्वात्, स्पष्टास्पष्टप्रतिभासविषयस्य पादपस्यैकत्वेपि तथाग्राह्यत्वपर्यायार्थादेशान्नानात्वव्यवस्थितेः । अन्यथा खेष्टतत्त्वभेदासिद्धेः सर्वमेकमासज्येत । इति क्वचित्कस्यचित्कुतश्चिद्भेदं साधयता लक्षणादिभेदाद्दर्शनज्ञानयोरपि भेदोभ्युपगंतव्यः ॥
तत एव न चारित्रं ज्ञानं तादात्म्यमृच्छति । पर्यायार्थप्रधानत्वविवक्षातो मुनेरिह || ५८ न ज्ञानं चारित्रात्मकमेव ततो भिन्नलक्षणत्वाद्दर्शनवदित्यत्र न खसिद्धांतविरोधः पर्यायार्थप्रधानत्वस्येह सूत्रे सूत्रकारेण विवक्षितत्वात् ॥
द्रव्यार्थस्य प्रधानत्वविवक्षायां तु तत्त्वतः । भवेदात्मैव संसारो मोक्षस्तद्धेतुरेव च ॥ ५९ ॥ तथा च सूत्रकारस्य क्व तद्भेदोपदेशना | द्रव्यार्थस्याप्यशुद्धस्यावतराभेदसंश्रयात् ॥ ६० ॥ यथा समस्तैक्य संग्रहो द्रव्यार्थिकः शुद्धस्तथावांतरेक्यग्रहोप्यशुद्ध इति तद्विवक्षायां संसारमोक्षतदुपायानां भेदाप्रसिद्धेरात्मद्रव्यस्यैवैकस्य व्यवस्थानात्तद्भेददेशना व व्यवतिष्ठेत ? ततः सैव सूत्रकारस्य पर्यायार्थप्रधानत्वविवक्षां गमयति, तामंतरेण भेददेशनानुपपत्तेः । ये तु दर्शन ज्ञानयोर्ज्ञानचारित्रयोर्वा सर्वथैकत्वं प्रतिपद्यंते ते कालाभेदाद्देशा भेदात्सामानाधिकरण्याद्वा ? गत्यंतराभावात् । न चैते सद्धेतवोऽनैकांतिकत्वाद्विरुद्धत्वाच्चेति निवेदयति ;
कालाभेदादभिन्नत्वं तयोरेकांततो यदि । तदैकक्षणवृत्तीनामर्थानां भिन्नता कुतः ॥ ६१ ॥ देशाभेदाद भेदश्चेत्कालाकाशादिद्भिन्नता । सामानाधिकरण्याच्चेत्तत एवास्तु भिन्नता ।। ६२ । सामानाधिकरण्यस्य कथंचिद्भिदया विना । नीलतोत्पलतादीनां जातु क्वचिददर्शनात् ॥६३॥ न हि नीलतोत्पलत्वादीनामेकद्रव्यवृत्तितया सामानाधिकरण्यं कथंचिद्भेदमंतरेणोपपद्यते, येनैकजीवद्रव्यवृत्तित्वेन दर्शनादीनां सामानाधिकरण्यं तथाभेदसाधनाद्विरुद्धं न स्यात् ॥ मिथ्याश्रद्धानविज्ञानचर्याविच्छित्तिलक्षणम् । कार्य भिन्नं हगादीनां नैकांताभिदि संभव ||६४ ||
सद्दर्शनस्य हि कार्यं मिथ्या श्रद्धानविच्छित्तिः, संज्ञानस्य मिथ्याज्ञानविच्छित्तिः, सच्चारित्रस्य मिथ्याचरणविच्छित्तिरिति च भिन्नानि दर्शनादीनि भिन्नकार्यत्वात्सुखदुःखादिवत् । पावकादिनाकांत इ चेन्न, तस्यापि स्वभावभेदमंतरेण दाहपाकाद्यनेककार्यकारित्वायोगात् ।
दृड्मोहविगमज्ञानावरणध्वंसवृत्तमुट्- । संक्षयात्मकहेतोश्च भेदस्तद्भद सिद्ध्यति ।। ६५ ॥ दर्शनमोहविगमज्ञानावरणध्वंस वृत्तमोहसंक्षयात्मका हेतवो दर्शनादीनां भेदमंतरेण न हि परस्परं भिन्ना घटंते येन तद्भेदात्तेषां कथंचिद्भेदो न सिद्ध्येत् । चक्षुराद्यनेककारणेनैकेन रूपज्ञानेन व्यभिचारी कारणभेदो भिदि साध्यायामिति चेन्न, तस्यानेकखरूपत्वसिद्धेः । कथमन्यथा भिन्नयवादिवीजकारणा यवांकुरादयः सिद्ध्येयुः परस्परभिन्नाः । न चैककारणनिष्पाद्ये कार्यैकस्वरूपे कारणांतरं प्रवर्तमानं सफलं । सहकारित्वात्सफलमिति चेत्, किं पुनरिदं सहकारिकारणमनुपकारकमपेक्षणीयं ? तदुपादानस्यो -
१ कुतः स्यादिति शेषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org