________________
तत्त्वार्थश्लोकवार्तिके
[सू०१ तेषां फलोपभोगेन प्रक्षयः कर्मणां मतः । सहकारिविशेषोस्य नासौ चारित्रतः पृथक् ॥ ५० ॥ ___ तत्त्वज्ञानान्मिथ्याज्ञानस्य सहजस्याहार्यस्य चानेकप्रकारस्य प्रतिप्रमेयं देशादिभेदादुद्भवतः प्रक्षयात्तद्धेतुकदोषनिवृत्तेः प्रवृत्त्यभावादनागतस्य जन्मनो निरोधादुपात्तजन्मनश्च प्राकृतधर्माधर्मयोः फलभोगेन प्रक्षयणात् सकलदुःखनिवृत्तिरात्यंतिकी मुक्तिः, दुःखजन्मनां प्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनंतराभावान्निःश्रेयसमिति कैश्चिद्वचनात् , साक्षात्कार्यकारणभावोपलब्धेस्तत्त्वज्ञानान्निःश्रेयसमित्यपरैः प्रतिपादनात् , ज्ञानेन चापवर्ग इत्यन्यैरमिधानात् , विद्यात एवाविद्यासंस्कारादिक्षयान्निर्वाणमितीतरैरभ्युपगमात् , फलोपभोगेन संचितकर्मणां प्रक्षयः सम्यग्ज्ञानस्य मुक्त्युत्पत्ती सहकारी ज्ञानमात्रात्मकमोक्षकारणवादिनामिष्टो न पुनरन्योऽसाधारणः कश्चित् । स च फलोपभोगो यथाकालमुपक्रमविशेषाद्वा कर्मणां स्यात् ? न तावदाद्यः पक्ष इत्याह;भोक्तुः फलोपभोगो हि यथाकालं यदीष्यते । तदा कर्मक्षयः कातः कल्पकोटिशतैरपि ॥ ५१॥
न हि तजन्मन्युपात्तयोधर्माधर्मयोः जन्मांतरफलदानसमर्थयोर्यथाकालं फलोपभोगेन जन्मांतरादृते कल्पकोटिशतैरप्यात्यंतिकः क्षयः कर्तुं शक्यो विरोधात् । जन्मांतरे शक्य इति चेन्न, साक्षादुत्पन्नसकलतत्त्वज्ञानस्य जन्मांतरासंभवात् । न च तस्य तज्जन्मफलदानसमर्थत्वे च धर्माधर्मों प्रादुर्भवत इति शक्यं वक्तुं प्रमाणाभावात् । तजन्मनि मोक्षाहस्य कुतश्चिदनुष्ठानाद्धर्माधर्मों तज्जन्मफलदानसमर्थों प्रादुर्भवतः तज्जन्ममोक्षाहधर्माधर्मत्वादित्यप्ययुक्तं हेतोरन्यथानुपपत्त्यभावात् । यौ जन्मांतरफलदानसमर्थौ तौ न तजन्ममोक्षार्हधर्माधर्मों यथास्मदादिधर्माधर्मों इत्यस्त्येव साध्याभावे साधनस्यानुपपत्तिरिति चेत् , स्यादेवं, यदि तजन्ममोक्षार्हधर्माधर्मत्वं जन्मांतरफलदानसमर्थत्वेन विरुध्येत, नान्यथा । तस्य तेनाविरोधे तज्जन्मनि मोक्षार्हस्यापि मोक्षाभावप्रसंगाद्विरुध्यत एवेति चेत् न, तस्य जन्मांतरेषु फलदानसमर्थयोरपि धर्माधर्मयोरुपक्रमविशेषात् फलोपभोगेन प्रक्षये मोक्षोपपत्तेः । यदि पुनर्न यथाकालं तज्जन्ममोक्षार्हस्य धर्माधर्मों तज्जन्मनि फलदानसमौँ साध्येते, किं तद्युपक्रमविशेषादेव संचितकर्मणां फलोपभोगेन प्रक्षय ? इति पक्षांतरमायातम् ॥ विशिष्टोपक्रमादेव मतश्चेत्सोपि तत्त्वतः । समाधिरेव संभाव्यचारित्रात्मेति नो मतम् ॥५२॥
यस्मादुपक्रमविशेषात् कर्मणां फलोपभोगो योगिनोऽभिमतः स समाधिरेव तत्त्वतः संभाव्यते, समाधावुत्थापितधर्मजनितायामृद्धौ नानाशरीरादिनिर्माणद्वारेण संचितकर्मफलानुभवस्येष्टत्वात् । समाधिश्चारित्रात्मक एवेति चारित्रान्मुक्तिसिद्धेः सिद्धं स्याद्वादिनां मतं सम्यक्त्वज्ञानानंतरीयकत्वाच्चारित्रस्य ॥
सम्यग्ज्ञानं विशिष्टं चेत्समाधिः सा विशिष्टता । तस्य कर्मफलध्वंसशक्तिर्नामांतरं ननु ॥५३॥ मिथ्याभिमाननिर्मुक्तिर्ज्ञानस्येष्टं हि दर्शनम् । ज्ञानत्वं चार्थविज्ञप्तिश्चर्यात्वं कर्महंतता ॥५४॥ शक्तित्रयात्मकादेव सम्यग्ज्ञानाददेहता । सिद्धा रत्नत्रयादेव तेषां नामांतरोदितात् ॥ ५५ ॥
सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः, सम्यग्ज्ञानं मिथ्याभिनिवेशमिथ्याचरणाभावविशिष्टमिति वा न कश्चिदर्थभेदः, प्रक्रियामात्रस्य भेदान्नामांतरकरणात् ।।
एतेन ज्ञानवैराग्यान्मुक्तिप्राप्त्यवधारणम् । न स्याद्वादविघातायेत्युक्तं बोद्धव्यमंजसा ॥ ५६ ॥
तत्त्वज्ञानं. मिथ्याभिनिवेशरहितं सद्दर्शनमन्वाकर्षति, वैराग्यं तु चारित्रमेवेति रत्नत्रयादेव मुक्तिरित्यवधारणं बलादवस्थितं । “दुःखे विपर्यासमतिस्तृष्णा वा बंधकारणं । जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छती"त्यप्यर्हन्मतसमाश्रयणमेवानेन निगदितं; दर्शनज्ञानयोः कथंचिद्भेदान्मतांतरासिद्धेः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org