________________
•
प्रथमोऽध्यायः ।
६५
तपांसि मोक्षमार्ग इति सूत्रे क्रियमाणे तु युज्येत पूर्वावधारणं । अनुत्पन्नतादृक्तपोविशेषस्य च सयोगकेवलिनः समुत्पन्नरत्नत्रयस्यापि धर्मदेशना न विरुध्यतेऽवस्थानस्य सिद्धेः । ततः सकलचोद्यावतारणनिवृत्तये चतुष्टयं मोक्षमार्गो वक्तव्यः । तदुक्तं । दर्शनज्ञानचारित्रतपसामाराधना भणितेति केचित् । तदप्यचोद्यं; तपसश्चारित्रात्मकत्वेन व्यवस्थानात् सद्दर्शनादित्रयस्यैव मोक्षकारणत्वसिद्धेः ॥
ननु रत्नत्रयस्यैव मोक्षहेतुत्वसूचने । किं वार्हतः क्षणादूर्ध्वं मुक्तिं संपादयेन्न तत् ॥ ४१ ॥ प्रागेवेदं चोदितं परिहृतं च न पुनः शंकनीयमिति चेत् न, परिहारांत रोपदर्शनार्थत्वात् पुनश्चयकरणस्य । तथाहि—
सहकारिविशेषस्यापेक्षणीयस्य भाविनः । तदैवासत्त्वतो नेति स्फुटं केचित्प्रचक्षते ॥ ४२ ॥ कः पुनरसौ सहकारी संपूर्णेनापि रत्नत्रयेणापेक्ष्यते ? यदभावात्तन्मुक्तिमर्हतो न संपादयेत्; इति चेत् ;स तु शक्तिविशेषः स्याज्ञ्जीवस्याघातिकर्मणाम् । नामादीनां त्रयाणां हि निर्जराकृद्धि निश्चितः ॥४३॥
दंडकपाटप्रतरलोकपूरणक्रियानुमेयोऽपकर्षणपरप्रकृति संक्रमणहेतुर्वा भगवतः खपरिणामविशेषः शक्तिविशेषः सोंतरंगः सहकारी निश्रेयसोत्पत्तौ रत्नत्रयस्य, तदभावे नामाद्यघातिकर्मत्रयस्य निर्जरानुपपत्तेनिःश्रेयसानुत्पत्तेः । आयुषस्तु यथाकालमनुभवादेव निर्जरा न पुनरुपक्रमात्तस्यानपवर्त्यत्वात् । तदपेक्षं क्षायिकरत्नत्रयं सयोगकेवलिनः प्रथमसमये मुक्तिं न संपादयत्येव तदा तत्सहकारिणोऽसत्त्वात् ॥
क्षायिकत्वान्न सापेक्षमर्हद्रत्नत्रयं यदि । किन्न क्षीणकषायस्य दृक्चारित्रे तथा मते ॥ ४४ ॥
वलापेक्षिणी ते हि यथा तद्वच्च तत्रयम् । सहकारिव्यपेक्षं स्यात् क्षायिकत्वेनपेक्षिता ॥ ४५ ॥ न क्षायिकत्वेपि रत्नत्रयस्य सहकारिविशेषापेक्षणं ' क्षायिकभावानां न हानिर्नापि वृद्धिरिति प्रवचनेन बाध्यते, क्षायिकत्वे निरपेक्षत्ववचनात् । क्षायिको हि भावः सकलखप्रतिबंधक्षयादाविर्भूतो नात्मलाभे किंचिदपेक्षते' येन तदभावे तस्य हानिस्तत्प्रकर्षे च वृद्धिरिति । तत्प्रतिषेधपरं प्रवचनं कृत्स्नकर्मक्षयकरणे सहकारिविशेषापेक्षणं कथं बाधते ? न च क्षायिकत्वं तत्र तदनपेक्षत्वेन व्याप्तं, क्षीणकषायदर्शनचारित्रयोः क्षायिकत्वेपि मुक्त्युत्पादने केवलापेक्षित्वस्य सुप्रसिद्धत्वात् । ताभ्यां तद्वाधकहेतोर्व्यभिचारात् । ततोति सहकारी तद्रत्नत्रयस्यापेक्षणीयो युक्त्यागमाविरुद्धत्वात् ॥
न च तेन विरुध्येत त्रैविध्यं मोक्षवर्त्मनः । विशिष्टकालयुक्तस्य तत्रयस्यैव शक्तितः ॥ ४६ ॥ क्षायिकरत्नत्रयपरिणामतो ह्यात्मैव क्षायिकरत्नत्रयं तस्य विशिष्ट कालापेक्षः शक्तिविशेषः ततोनार्थांतरं येन तत्सहितस्य दर्शनादित्रयस्य मोक्षवर्त्मनस्त्रैविध्यं विरुध्यते ॥ तेनायोगिजिनस्यांत्यक्षणवर्ति प्रकीर्तितम् । रत्नत्रयमशेषाघ विघातकरणं ध्रुवम् ॥ ४७ ॥ ततो नान्योस्ति मोक्षस्य साक्षान्मार्गो विशेषतः । पूर्वावधारणं येन न व्यवस्थामियर्ति नः ॥ ४८ ॥ नन्वेवमप्यवधारणे तदेकांतानुषंग इति चेत्, नायमनेकांतवादिनामुपालंभो नयार्पणादेकांतस्येष्ठत्वात्, प्रमाणार्पणादेवानेकांतस्य व्यवस्थितेः ॥
ज्ञानादेवाशरीरत्वसिद्धिरित्यवधारणम् । सहकारिविशेषस्यापेक्षयास्त्विति केचन ॥ ४९ ॥ तत्त्वज्ञानमेव निःश्रेयसहेतुरित्यवधारणमस्तु सहकारिविशेषापेक्षस्य तस्यैव निःश्रेयससंपादनसमर्थत्वात् । तथा सति समुत्पन्नतत्त्वज्ञानस्य योगिनः सहकारिविशेषसंनिधानात्पूर्वे स्थित्युपपत्तेरुपदेश - प्रवृत्तेरविरोधात्, तदर्थं रत्नत्रयस्य मुक्तिहेतुत्वकल्पनानर्थक्यात्, तत्कल्पनेपि सहकार्यपेक्षणस्यावश्यं भावित्वात्, तत्रयमेव मुक्तिहेतुरित्यवधारणं माभूदिति केचित् ॥
९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org