________________
तत्त्वार्थश्लोकवार्तिके न, तस्यापि सम्यग्दर्शनसहचारित्वात् । तर्हि प्रथममपि सम्यग्दर्शनं न सम्यग्ज्ञानाभावेस्ति तस्य सत्यज्ञानसहचारित्वादिति न सत्यज्ञानपूर्वकत्वमव्यापि दर्शनस्य, सत्यज्ञानस्य दर्शनपूर्वकत्ववत्, ततः प्रकृतं चोद्यमेवेति चेन्न । प्रकृष्टदर्शनज्ञानापेक्षया दर्शनस्याभ्यर्हितत्ववचनादुक्तोत्तरत्वात् । न हि क्षायिक दर्शनं केवलज्ञानपूर्वकं येन तत्कृताभ्यर्हितं स्यात् । अनंतभवप्रहाणहेतुत्वाद्वा सद्दर्शनस्याभ्यर्हः ।।। विशिष्टज्ञानतः पूर्वभावाचास्यास्तु पूर्ववाक । तथैव ज्ञानशब्दस्य चारित्रात् प्राक प्रवर्तनम् ॥३५॥ ___ यद्यत्कालतया व्यवस्थितं तत्तथैव प्रयोक्तव्यमार्षान्यायादिति क्षायिकज्ञानात्पूर्वकालतयावस्थितं दर्शनं पूर्वमुच्यते, चारित्राच्च समुच्छिन्नक्रियानिवर्तिध्यानलक्षणात् सकलकर्मक्षयनिबंधनात्ससामग्रीकात् प्राक्कालतयोद्भवात् सम्यग्ज्ञानं ततः पूर्वमिति निरवद्यो दर्शनादिप्रयोगक्रमः ॥ प्रत्येकं सम्यगित्येतत्पदं परिसमाप्यते । दर्शनादिषु निःशेषविपर्यासनिवृत्तये ॥ ३६ ॥
सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमिति प्रत्येकपरिसमाप्त्या सम्यगिति पदं संबध्यते प्रत्येक दर्शनादिषु निःशेषविपर्यासनिवृत्त्यर्थत्वात्तस्य । तत्र दर्शने विपर्यासमौढ्यादयो मिथ्यात्वभेदाः शंकादयश्चातीचारा वक्ष्यमाणाः, संज्ञाने संशयादयः, सच्चारित्रे मायादयः, प्रतिचारित्रविशेषमतीचाराश्च यथासंभविनः प्रत्येयाः । तेषु सत्सु दर्शनादीनां सम्यक्त्वानुपपत्तेः । तदेवं सकलसूत्रावयवव्याख्याने तत्समुदायव्याख्यानात्सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गो वेदितव्य इति व्यवतिष्ठते । तत्र किमयं सामान्यतो मोक्षस्य मार्गस्त्रयात्मकः सूत्रकारमतमारूढः किं वा विशेषत ? इति शंकायामिदमाह;तत्सम्यग्दर्शनादीनि मोक्षमार्गो विशेषतः। सूत्रकारमतारूढो न तु सामान्यतः स्थितः ॥ ३७॥ कालादेरपि तद्धेतुसामान्यस्याविरोधतः । सर्वकार्यजनौ तस्य व्यापारादन्यथास्थितेः ॥ ३८॥
साधारणकारणापेक्षया हि सम्यग्दर्शनादित्रयात्मकं मोक्षमार्गमाचक्षाणो न सकलमोक्षकारणसंग्रहपरः स्यात् कालादीनामवचनात् । न च कालादयो मोक्षस्योत्पत्तौ न व्याप्रियंते सर्वकार्यजनने तेषां व्यापारात् , तत्र व्यापारे विरोधाभावात् । यदि पुनः सम्यग्दर्शनादीन्येवेत्यवधारणाभावान कालादीनामसंग्रहस्तदा सम्यग्दर्शनं मोक्षमार्ग इति वक्तव्यं, सम्यग्दर्शनमेवेत्यवधारणाभावादेव ज्ञानादीनां कालादीनामिव संग्रहसिद्धेस्तत्तद्वचनाद्विशेषकारणापेक्षयायं त्रयात्मको मोक्षमार्गः सूत्रित इति बुद्ध्यामहे ।।
पूर्वावधारणं तेन कार्य नान्यावधारणम् । यथैव तानि मोक्षस्य मार्गस्तद्वद्धि संवदः ॥३९॥
सम्यग्दर्शनज्ञानचारित्राण्येव मोक्षमार्ग इत्यवधारणं हि कार्यमसाधारणकारणनिर्देशादेवान्यथा तदघटनात् । तानि मोक्षमार्ग एवेति तु नावधारणं कर्तव्यं तेषां स्वर्गाद्यभ्युदयमार्गत्वविरोधात् । न च तान्यभ्युदयमार्गो नेति शक्यं वक्तुं सद्दर्शनादेः खर्गादिप्राप्तिश्रवणात् । प्रकर्षपर्यतप्राप्तानि तानि नाभ्युदयमार्ग इति चेत्, सिद्धं तर्षपकृष्टानां तेषामभ्युदयमार्गत्वम्, इति नोत्तरावधारणं न्याय्यं व्यवहारात् । निश्चयनयात् तूमयावधारणमपीष्टमेव, अनंतरसमयनिर्वाणजननसमर्थानामेव सद्दर्शनादीनां मोक्षमार्गत्वोपपत्तेः परेषामनुकूलमार्गताव्यवस्थानात् । एतेन मोक्षस्यैव मार्गो मोक्षस्य मार्ग एवेत्युभयावधारणमिष्टं प्रत्यायनीयम् ॥
पूर्वावधारणेप्यत्र तपो मोक्षस्य कारणम् । न सादिति न मंतव्यं तस्य चर्यात्मकत्वतः॥४०॥
न ह्यसाधारणकारणाभिधित्सायामपि व्यवहारनयात्सम्यग्दर्शनादीन्येव मोक्षमार्ग इत्यवधारणं श्रेयस्तपसो मोक्षमार्गत्वाभावप्रसंगात् । न च तपो मोक्षस्यासाधारणकारणं न भवति तस्यैवोत्कृष्टस्याभ्यंतरसमुच्छिन्नक्रियाप्रतिपातिध्यानलक्षणस्य कृत्स्नकर्मविप्रमोक्षकारणत्वव्यवस्थितेः । सम्यग्दर्शनज्ञानचारित्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary:org