________________
प्रथमोऽध्यायः। विकलमुभयोः संप्रतिपत्तेः । नन्विदमयुक्तं तत्त्वार्थश्रद्धानस्य ज्ञानसम्यक्त्वहेतुत्वं दर्शनसम्यग्ज्ञानयोसहचरत्वात् सव्येतरगोविषाणवद्धेतुहेतुमद्भावाघटनात् । तत्त्वार्थश्रद्धानस्याविर्भावकाले सम्यग्ज्ञानस्याविर्भावात्तत्तद्धेतुरिति चासंगतं, सम्यग्ज्ञानस्य तत्त्वार्थश्रद्धानहेतुत्वप्रसंगात् । मत्यादिसम्यग्ज्ञानस्याविर्भावकाल एव तत्त्वार्थश्रद्धानस्याविर्भावात् । ततो न दर्शनस्य ज्ञानादभ्यर्हितत्वं ज्ञानसम्यक्त्वहेतुत्वाव्यवस्थितेरिति कश्चित् । तदसत् । अभिहितानवबोधात् । न हि सम्यग्ज्ञानोत्पत्तिहेतुत्वाद्दर्शनस्याभ्योभिधीयते । किं तर्हि ? ज्ञानसम्यग्व्यपदेशहेतुत्वात् । पूर्व हि दर्शनोत्पत्तेः साकारग्रहणस्य मिथ्याज्ञानव्यपदेशो मिथ्यात्वसहचरितत्वेन यथा, तथा दर्शनमोहोपशमादेर्दर्शनोत्पत्तौ सम्यग्ज्ञानव्यपदेश इति । नन्वेवं सम्यग्ज्ञानस्य दर्शनसम्यक्त्वहेतुत्वादभ्योस्तु मिथ्याज्ञानसहचरितस्यार्थश्रद्धानस्य मिथ्यादर्शनव्यपदेशात् । मत्यादिज्ञानावरणक्षयोपशमान्मत्यादिज्ञानोत्पत्तौ तस्य सम्यग्दर्शनव्यपदेशात् । न हि दर्शनं ज्ञानस्य सम्यग्व्यपदेशनिमित्तं न पुनर्ज्ञानं दर्शनस्य सहचारित्वाविशेषादिति चेत् न । ज्ञानविशेषापेक्षया दर्शनस्य ज्ञानसम्यक्त्वव्यपदेशहेतुत्वसिद्धेः । सकलश्रुतज्ञानं हि केवलमनःपर्ययज्ञानवत् प्रागुद्भूतसम्यग्दर्शनस्यैवाविर्भवति न मत्यादिज्ञानसामान्यवदर्शनसहचारीति सिद्धं ज्ञानसम्यक्त्वहेतुत्वं दर्शनस्य ज्ञानादभ्यर्हसाधनं । ततो दर्शनस्य पूर्व प्रयोगः । कश्चिदाह- ज्ञानमभ्यर्हितं तस्य प्रकर्षपर्यतप्राप्तौ भवांतराभावात् , न तु दर्शनं तस्य क्षायिकस्यापि नियमेन भवांतराभावहेतुत्वाभावादिति । सोपि चारित्रस्याभ्यर्हितत्वं ब्रवीतु तत्प्रकर्षपर्यंतप्राप्तौ भवांतराभावसिद्धेः । केवलज्ञानस्यानंतत्वाच्चारित्रादभ्यो न तु चारित्रस्य मुक्तौ तथा व्यपदिश्यमानस्याभावादिति चेत् । तत एव क्षायिकदर्शनस्याभ्योस्तु मुक्तावपि सद्भावात् अनंतत्वसिद्धेः । साक्षाद्भवांतराभावहेतुत्वाभावाद्दर्शनस्य केवलज्ञानादनभ्यहें केवलस्याप्यभ्यर्हो माभूत् तत एव । न हि तत्कालादिविशेषनिरपेक्षं भवांतराभावकारणमयोगिकेवलचरमसमयप्राप्तस्य दर्शनादित्रयस्य साक्षान्मोक्षकारणत्वेन वक्ष्यमाणत्वात् । ततः साक्षात्परंपरया वा मोक्षकारणत्वापेक्षया दर्शनादित्रयस्याभ्यर्हितत्वं समानमिति न तथा कस्यचिदेवाभ्यहव्यवस्था येन ज्ञानमेवाभ्यर्हितं स्यात् दर्शनात् । नन्वेवं विशिष्टसम्यग्ज्ञानहेतुत्वेनापि दर्शनस्य ज्ञानादभ्य: सम्यग्दर्शनहेतुत्वेन ज्ञानस्य दर्शनादभ्यर्होस्तु श्रुतज्ञानपूर्वकत्वादधिगमजसद्दर्शनस्य, मत्यवधिज्ञानपूर्वकत्वान्निसर्गजस्येति चेन्न । दर्शनोत्पत्तेः पूर्व श्रुतज्ञानस्य मत्यवधिज्ञानयोर्वा अनाविर्भावात् । मत्यज्ञानश्रुताज्ञानविभंगाज्ञानपूर्वकत्वात् प्रथमसम्यग्दर्शनस्य । न च तथा तस्य मिथ्यात्वप्रसंगः सम्यग्ज्ञानस्यापि मिथ्याज्ञानपूर्वकस्य मिथ्यात्वप्रसक्तेः । सत्यज्ञानजननसमर्थामिथ्याज्ञानात्सत्यज्ञानत्वेनोपचर्यमाणादुत्पन्नं सत्यज्ञानं न मिथ्यात्वं प्रतिपद्यते मिथ्यात्वकारणादृष्टाभावादिति चेत् , सम्यग्दर्शनमपि तादृशान्मिथ्याज्ञानादुपजातं कथं मिथ्या प्रसज्यते तत्कारणस्य दर्शनमोहोदयस्याभावात् । सत्यज्ञानं मिथ्याज्ञानानंतरं न भवति तस्य धर्मविशेषानंतरभावित्वादिति चेत्, सम्यग्दर्शनमपि न मिथ्याज्ञानानंतरभावि तस्याधर्मविशेषाभावानंतरभावित्वोपगमात् । मिथ्याज्ञानानंतरभावित्वाभावे च सत्यज्ञानस्य सत्यज्ञानानंतरभावित्वं सत्यासत्यज्ञानपूर्वकत्वं वा स्यात् ? प्रथमकल्पनायां सत्यज्ञानस्यानादित्वप्रसंगो मिथ्याज्ञानसंतानस्य चानंतत्वप्रसक्तिरिति प्रतीतिविरुद्धं सत्येतरज्ञानपौर्वापर्यदर्शननिराकरणमायातं । द्वितीयकल्पनायां तु सत्यज्ञानोत्पत्तेः पूर्व सकलज्ञानशून्यस्यात्मनोनात्मत्वानुषंगो दुर्निवारस्तस्योपयोगलक्षणत्वेन साधनात् । स चानुपपन्न एवात्मनः प्रसिद्धेरिति मिथ्याज्ञानपूर्वकमपि सत्यज्ञानं किंचिदभ्युपेयं । तद्वत्सम्यग्दर्शनमपि इत्यनुपालंभः । क्षायोपशमिकस्य क्षायिकस्य च दर्शनस्य सत्यज्ञानपूर्वकत्वात्सत्यज्ञानं दर्शनादभ्यर्हितमिति च न चोद्यं, प्रथमसम्यग्दर्शनस्यौपशमिकस्य सत्यज्ञानाभावेपि भावात् । नैवं किंचित्सम्यग्वेदनं सम्यग्दर्शनाभावे भवति । प्रथमं भवत्येवेति चेत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org