________________
६२
तत्त्वार्थश्लोकवार्तिके
नन्वभिप्रेतोर्थो न परमार्थः सन्मनोराज्यादिवत्ततस्तत्संप्राप्त्यप्राप्ती न वस्तुरूपे यतस्तद्धेतुकयोः प्रधानेतरभावयोर्वस्तुसामर्थ्यसंभूततनुत्वं सिद्ध्यत् तयोर्वास्तवतां साधयेत् इति चेत् । स्यादेवं, यदि सर्वोभिप्रेतोर्थोऽपरमार्थः सन् सिद्ध्येत् । कस्यचिन्मनोराज्यादेरपरमार्थत्वसत्त्वप्रतिपत्तेरबाधिताभिप्रायविषयीकृतस्याप्यपरमार्थसत्त्वसाधने चंद्रद्वयदर्शन विषयस्यावस्तुत्वसंप्रत्ययादबाधिताखिलदर्शन विषयस्यावस्तुत्वं साध्यतामभिप्रेत्वदृष्टत्वहेतोरविशेषात् । स्वसंवेदनविषयस्य च स्वरूपस्य कुतः परमार्थसत्त्वसिद्धिर्यतः संवेदद्वैतं चित्राद्वैतं वा खरूपस्य स्वतो गतिं साधयेत् । यदि पुनः स्वरूपस्य खतोपि गतिं नेच्छेत्तदा न स्वतः संवेद्यते नापि परतोस्ति च तदिति किमघशीलवचनं । न स्वतः संवेद्यते संवेदनं नापि परतः किंतु संवेद्यत एवेति तस्य सत्त्ववचने, न क्रमान्नित्योर्थः कार्याणि करोति नाप्यक्रमात् ; किं तर्हि ? करोत्येवेति ब्रुवाणः कथं प्रतिक्षिप्यते ? नैकदेशेन खावयवेष्ववयवी वर्तते नापि सर्वात्मना किंतु वर्तते एवेति च । नैकदेशेन परमाणुः परमाण्वंतरैः संयुज्यते नापि सर्वात्मना किं तु संयुज्यत एवेत्यपि ब्रुवन्न प्रतिक्षेपार्होनेनापादितः । यदि पुनः क्रमाक्रमव्यतिरिक्तप्रकारासंभवात्ततः कार्यकरणादेरयोगादेवं ब्रुवाणस्य प्रतिक्षेपः क्रियते तदा खपरव्यतिरिक्तप्रकाराभावान्न ततः संवेदनं संवेद्यत एवेत्यप्रतिक्षेपार्ह : सिद्ध्येत् । संवेदनस्य प्रतिक्षेपे सकलशून्यता सर्वस्यानिष्टा स्यादिति चेत्, समानमन्यत्रापि । ततः खयं संवेद्यस्य दृश्यस्य वा रूपादेः परमार्थसत्त्वमुपयताभिप्रेतस्याप्यव्यभिचारिणस्तन्न प्रतिक्षेप्तव्यं सर्वथा विशेषाभावात् । परमार्थसत्त्वे च स्वाभिप्रेतार्थस्य सुनयविषयस्य तत्संप्रात्यसंप्राप्ती वस्तुरूपे सिद्धे तद्धेतुकयोश्च प्रधानेतरभावयोर्वस्तुसामर्थ्य संभूततनुत्वं नासिद्धं यतस्तयोर्वास्तवत्वं न साधयेदिति । तत्र विवक्षा चाविवक्षा च न निर्विषया येन तद्वशादेकत्र वस्तुन्यनेककारकात्मकत्वं न व्यवतिष्ठेत ॥
1
निरंशस्य च तत्त्वस्य सर्वथानुपपत्तितः । नैकस्य बाध्यतेऽनेककारकत्वं कथंचन ॥ ३२ ॥
नात्मादितत्त्वे नानाकारकात्मता वास्तवी तस्य निरंशत्वात्, कल्पनामात्रादेव तदुपपत्तेरिति न शंकनीयं । बहिरंतर्वा निरंशस्य सर्वथार्थक्रियाकारित्वायोगात् । परमाणुः कथमर्थक्रियाकारीति चेन्न, तस्यापि सांशत्वात् । न हि परमाणोरंश एव नास्ति द्वितीयाद्यंशाभावान्निरवयवत्ववचनात् । न च यथा परमाणुरेकप्रदेशमात्रस्तथात्मादिरपि शक्यो वक्तुं सकृन्नानादेशव्यापित्वविरोधात् । तस्य विभुत्वान्न द्विरोध इति चेत् । व्याहतमेतत् । विभुश्चैकप्रदेशमात्रश्चेति न किंचित्सकले भ्योंशेभ्यो निर्गतं तत्त्वं नाम सर्वप्रमाणागोचरत्वात् खरशृंगवत् । यदा त्वंशा धर्मास्तदा तेभ्यो निर्गतं तत्त्वं न किंचित्प्रतीतिगोचरतामंचतीति सांशमेव सर्वं तत्त्वमन्यथार्थक्रियाविरोधात् । तत्र चानेककारकत्वमबाधितमवबुद्ध्या महे भेदनयाश्रयणात् । तथा च दर्शनादिशब्दानां सूक्तं कर्त्रादिसाधनत्वं ॥
पूर्व दर्शनशब्दस्य प्रयोगोऽभ्यर्हितत्वतः । अल्पाक्षरादपि ज्ञानशब्दाद्वंद्वोत्र संमतः ॥ ३३ ॥ दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्राणीति इतरेतरयोगे द्वंद्वे सति ज्ञानशब्दस्य पूर्वनिपातप्रसक्तिरल्पाक्षरत्वादिति न चोद्यं, दर्शनस्याभ्यर्हितत्वेन ज्ञानात्पूर्वप्रयोगस्य संगतत्वात् । कुतोभ्यर्हो दर्शनस्य न पुनर्ज्ञानस्य सर्वपुरुषार्थसिद्धिनिबंधनस्येति चेत्;
ज्ञानसम्यक्त्वहेतुत्वादभ्यर्हो दर्शनस्य हि । तदभावे तदुद्भूतेरभावाद्दूरभव्यवत् ॥ ३४ ॥
इदमिह संप्रधार्यं ज्ञानमात्रनिबंधना सर्वपुरुषार्थसिद्धिः सम्यग्ज्ञाननिबंधना वा ? न तावदाद्यः पक्षः संशयादिज्ञाननिबंधनत्वानुषंगात् । सम्यग्ज्ञाननिबंधनाचेत्, तर्हि ज्ञानसम्यक्त्वस्य दर्शनहेतुकत्वात् तत्त्वार्थश्रद्धानमेवाभ्यर्हितं । तदभावे ज्ञानसम्यक्त्वस्यानुद्भूतेर्दूरभव्यस्येव । न चेदमुदाहरणं साध्यसाधन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org