SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः। ६१ आत्मा चार्थग्रहाकारपरिणामः स्वयं प्रभुः । ज्ञानमित्यभिसंधानकर्तृसाधनता मता ॥ २३ ॥ तस्योदासीनरूपत्वविवक्षायां निरुच्यते । भावसाधनता ज्ञानशब्दादीनामबाधिता ॥ २४ ॥ ननु च जानातीति ज्ञानमात्मेति विवक्षायां करणमन्यद्वाच्यं, निःकरणस्य कर्तृत्वायोगादिति चेन्न । अविभक्तकर्तृकस्य खशक्तिरूपस्य करणस्याभिधानात् । भावसाधनतायां ज्ञानस्य फलत्वव्यवस्थितेः प्रमाणत्वाभाव इति चेन्न, तच्छक्तेरेव प्रमाणत्वोपपत्तेः ॥ तथा चारित्रशब्दोपि ज्ञेयः कर्मानुसाधनः । कारकाणां विवक्षातः प्रवृत्तेरेकवस्तुनि ॥ २५॥ चारित्रमोहस्योपशमे क्षये क्षयोपशमे वात्मना चर्यते तदिति चारित्रं, चर्यतेनेन चरणमात्रं वा चरतीति वा चारित्रमिति कर्मादिसाधनश्चारित्रशब्दः प्रत्येयः । ननु च "भूवादिगृग्भ्यो णित्र" इत्यधिकृत्य "चरेवृत्ते” इति कर्मणि णित्रस्य विधानात् , कादिसाधनत्वे लक्षणाभाव इति चेत् न, बहुलापेक्षया तद्भावात् । एतेन दर्शनज्ञानशब्दयोः कर्तृसाधनत्वे लक्षणाभावो व्युदस्तः । “युड्वा बहुलम्" इति वचनात्, तथा दर्शनाच्च । दृश्यते हि करणाधिकरणभावेभ्योन्यत्रापि प्रयोगो यथा निरदंति तदिति निरदनं, स्पंदतेस्मादिति स्पंदनमिति । कथमेकज्ञानादि वस्तु काद्यनेककारकात्मकं विरोधात् इति चेन्न, विवक्षातः कारकाणां प्रवृत्तेरेकत्राप्यविरोधात् । कुतः पुनः कस्येति कारकमावसति विवक्षा कस्यचिदविवक्षेति चेत् ; विवक्षा च प्रधानत्वाद्वस्तुरूपस्य कस्यचित् । तदा तदन्यरूपस्याविवक्षा गुणभावतः ॥२६॥ नन्वसदेव रूपमनाद्यविद्यावासनोपकल्पितं विवक्षेतरयोर्विषयो न तु वास्तवं रूपं यतः परमार्थसती षटारकी स्यादिति चेत् ॥ भावस्य वासतो नास्ति विवक्षा चेतरापि वा । प्रधानेतरतापायाद्गगनांभोरुहादिवत् ॥ २७॥ प्रधानेतरताभ्यां विवक्षेतरयोर्व्याप्तत्वात् पररूपादिभिरिव स्वरूपादिभिरप्यसतस्तदभावात्तदभावसिद्धिः॥ सर्वथैव सतोनेन तदभावो निवेदितः । एकरूपस्य भावस्य रूपद्वयविरोधतः ॥ २८ ॥ न हि सदेकांते प्रधानेतररूपे स्तः। कल्पिते स्त एवेति चेन्न, कल्पितेतररूपद्वयस्य सत्ताद्वैतविरोधिनः प्रसंगात् । कल्पितस्य रूपस्यासत्त्वादकल्पितस्यैव सत्त्वान्न रूपद्वयमिति चेत्तीसतां प्रधानेतररूपे विवक्षेतरयोर्विषयतामास्कंदत इत्यायातं । तच्च प्रतिक्षिप्तं । स्याद्वादिनां तु नायं दोषः । चित्रैकरूपे वस्तुनि प्रधानेतररूपद्वयस्य स्वरूपेण सतः पररूपेणासतो विवक्षेतरयोर्विषयत्वाविरोधात् ॥ विवक्षा चाविवक्षा च विशेष्येनंतधर्मिणि । सतो विशेषणस्यात्र नासतः सर्वथोदिता ॥२९॥ न सर्वथापि सतो धर्मस्य नाप्यसतोऽनंतधर्मिणि वस्तुनि विवक्षा चाविवक्षा च भगवद्भिः समंतभद्रखामिभिरभिहितास्मिन् विचारे । किं तर्हि ? कथंचित्सदसदात्मन एव प्रधानताया गुणतायाश्च सद्भावात् । कुतः कस्यचिद्रूपस्य प्रधानेतरता च स्यायेनासौ वास्तवीति चेत्; स्वाभिप्रेतार्थसंप्राप्तिहेतोरत्र प्रधानता । भावस्य विपरीतस्य निश्चीयेताप्रधानता ॥३०॥ नैवातः कल्पनामात्रवशतोसौ प्रवर्तिता । वस्तुसामर्थ्यसंभूततनुत्वादर्थदृष्टिवत् ॥ ३१ ॥ कर्तृपरिणामो हि पुंसो यदा खाभिप्रेतार्थसंप्राप्तेर्हेतुस्तदा प्रधानमन्यदा त्वप्रधानं स्यात्, तथा करणादिपरिणामोपि । ततो न प्रधानेतरता कल्पनामात्राप्रवर्तितास्या वस्तुसामर्थ्यायत्तत्वादर्थदर्शनवत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001683
Book TitleTattvarthashloakvarttikam
Original Sutra AuthorVidyanandi
AuthorManoharlal
PublisherRamchandra Natharangji Mumbai
Publication Year1918
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy