________________
६०
तत्त्वार्थश्लोकवार्तिके
.. नन्वयुतसिद्धानां समवायित्वात् समवायिनां युतसिद्धिरसिद्धेति चेत् ॥
तद्वद्वृत्तिर्गुणादीनां स्वाश्रयेषु च तद्वताम् । युतसिद्धिर्यदा न स्यात्तदान्यत्रापि सा कथम् ॥ १८ ॥ गुण्यादिषु गुणादीनां वृत्तिर्गुण्यादीनां तु खाश्रये वृत्तिरिति कथं न गुणगुण्यादीनां समवायिनां युतसिद्धिः? पृथगाश्रयाश्रयित्वं युतसिद्धिरिति वचनात् । तथापि तेषां युतसिद्धेरभावे दधिकुंडादीनामपि सा न स्याद्विशेषलक्षणाभावात् ॥
लौकिको देशभेदश्चेद्युतसिद्धिः परस्परम् । प्राप्ता रूपरसादीनामेकत्रायुतसिद्धता ॥ १९ ॥ विभूनां च समस्तानां समवायस्तथा न किम् । कथंचिदर्थतादात्म्यान्नाविष्वग्भवनं परम् ॥ २० ॥
लौकिको देशभेदो युतसिद्धिर्न शास्त्रीयो यतः समवायिनां युतसिद्धिः स्यादित्येतस्मिन्नपि पक्षे रूपादीनामेकत्र द्रव्ये विभूनां च समस्तानां लौकिकदेशभेदाभावाद्युतसिद्धेरभावप्रसंगात् समवायप्रसक्तिः । अविष्वग्भवनमेवायुतसिद्धिर्विष्वग्भवनं युतसिद्धिरिति चेत्, तत्समवायिनां कथंचित्तादात्म्यमेव सिद्धं ततः परस्याविष्वग्भवनस्याप्रतीतेः ॥
तदेवावाधितज्ञानमारूढं शक्तितद्वतोः । सर्वथा भेदमाहंति प्रतिद्रव्यमनेकधा ॥ २१ ॥
कथंचित्तादात्म्यमेव समवायिनामेकममूर्त सर्वगतमिदमिति प्रत्ययनिमित्तं समवायोऽर्थभेदाभावादिति मामंस्त, तस्य प्रतिद्रव्यमनेकप्रकारत्वात्, तथैवाबाधितज्ञानारूढत्वात् । मूर्तिमद्रव्यपर्यायतादात्म्यं हि मूर्तिमज्जायते नामूर्त, अमूर्तद्रव्यपर्यायतादात्म्यं पुनरमूर्तमेव, तथा सर्वगतद्रव्यपर्यायतादात्म्यं सर्वगतं, असर्वगतद्रव्यपर्यायतादात्म्यं पुनरसर्वगतमेव, तथा चेतनेतरद्रव्यपर्यायतादात्म्यं चेतनेतररूपमित्यनेकधा तत्सिद्धं शक्तितद्वतोः सर्वथा भेदमाहंत्येव ॥
ततोर्थग्रहणाकारा शक्तिर्ज्ञानमिहात्मनः । करणत्वेन निर्दिष्टा न विरुद्धा कथंचन ॥ २२ ॥ न ह्यंतरंगबहिरंगार्थग्रहणरूपात्मनो ज्ञानशक्तिः करणत्वेन कथंचिन्निर्दिश्यमाना विरुध्यते, सर्वथा शक्तितद्वतोर्भेदस्य प्रतिहननात् । ननु च ज्ञानशक्तिर्यदि प्रत्यक्षा तदा सकलपदार्थशक्तेः प्रत्यक्षत्वप्रसंगादनुमेयत्वविरोधः । प्रभाणबाधितं च शक्तेः प्रत्यक्षत्वं । तथाहि — ज्ञानशक्तिर्न प्रत्यक्षास्मदादेः शक्तित्वात् पावकादेर्दहनादिशक्तिवत् । न साध्यविकलमुदाहरणं पावकादिदहनादिशक्तेः प्रत्यक्षत्वे कस्यचित्तत्र संशयानुपपत्तेः । यदि पुनरप्रत्यक्षा ज्ञानशक्तिस्तदा तस्याः करणज्ञानत्वे प्राभाकरमतसिद्धिः, तत्र करणज्ञानस्य परोक्षत्वव्यवस्थितेः फलज्ञानस्य प्रत्यक्षत्वोपगमात् । ततः प्रत्यक्षं करणज्ञानमिच्छतां न तच्छक्तिरूपमेषितव्यं स्याद्वा दिभिरिति चेत् । तदनुपपन्नं । एकांत तोस्मदादिप्रत्यक्षत्वस्य करणज्ञानेन्यत्र वा वस्तुनि प्रतीतिविरुद्धत्वेनानभ्युपगमात् । द्रव्यार्थतो हि ज्ञानमस्मदादेः प्रत्यक्षं, प्रतिक्षणपरिणामशक्त्यादिपर्यायार्थतस्तु न प्रत्यक्षं । तत्र स्वार्थव्यवसायात्मकं ज्ञानं स्वसंविदितं फलं प्रमाणाभिन्नं वदतां करणज्ञानं प्रमाणं कथमप्रत्यक्षं नाम । न च येनैव रूपेण तत्प्रमाणं तेनैव फलं येन विरोधः । किं तर्हि ? साधकतमत्वेन प्रमाणं साध्यत्वेन फलं । साधकतमत्वं तु परिच्छेदनशक्तिरिति प्रत्यक्षफलज्ञानात्मकत्वात् प्रत्यक्षं शक्तिरूपेण परोक्षं । ततः स्यात् प्रत्यक्षं स्यादप्रत्यक्षमित्यनेकांतसिद्धिः । यदा तु प्रमाणाद्भिन्नं फलं हानोपादानोपेक्षाज्ञानलक्षणं तदा खार्थव्यवसायात्मकं करणसाधनं ज्ञानं प्रत्यक्षं सिद्धमेवेति न परमतप्रवेशस्तच्छक्तेरपि सूक्ष्मायाः परोक्षत्वात् । तदेतेन सर्वे कर्त्रादिकारकत्वेन परिणतं वस्तु कस्यचित् प्रत्यक्षं परोक्षं च कर्त्रादिशक्तिरूपतयोक्तं प्रत्येयं । ततो ज्ञानशक्तिरपि च करणत्वेन निर्दिष्टा नखागमेन युक्त्या च विरुद्धेति सूक्तं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org