________________
प्रथमोऽध्यायः। करणमित्यायातं तच्च विरुद्धमेवेति चेत् न, स्वपरिणामपरिणामिनोर्भेदविवक्षायां तथाभिधानात् । दर्शनज्ञानपरिणामो हि करणमात्मनः कर्तुः कथंचिद्भिन्नं वन्हेर्दहनपरिणामवत् । कथमन्यथाऽमिर्दहतीन्धनं दाहपरिणामेनेत्यविभक्तकर्तृकं करणमुपपद्यते । स्यान्मतं । विवादापन्नं करणं कर्तुः सर्वथा भिन्न करणत्वाद्विभक्तकरणवदिति । तदयुक्तं । हेतोरतीतकालत्वात् । प्रत्यक्षतो ज्ञानादिकरणस्यात्मादेः कर्तुः कथंचिदभिन्नस्य प्रतीतेः । समवायात्तथा प्रतीतिरिति चेन्न, कथंचित्तादात्म्यादन्यस्य समवायस्य निराकरणात् । पक्षस्यानुमानबाधितत्वाच्च नायं हेतुः । तथाहि । करणशक्तिः शक्तिमतः कथंचिदभिन्ना तच्छक्तित्वात् , या तु न तथा सा न तच्छक्तिर्यथा व्यक्तिरन्या, तच्छक्तिश्चात्मादेः करणशक्तिस्तस्माच्छक्तिमतः कथंचिदभिन्ना ॥
नन्वेवमात्मनो ज्ञानशक्तौ ज्ञानध्वनिर्यदि । तदार्थग्रहणं नैव करणत्वं प्रपद्यते ॥९॥
न ह्यर्थग्रहणशक्तिर्ज्ञानमन्यत्रोपचारात्, परमार्थतोर्थग्रहणस्य ज्ञानत्वव्यवस्थितेः, तदुक्तमर्थग्रहणं बुद्धिरिति, ततो न ज्ञानशक्तौ ज्ञानशब्दः प्रवर्तते येन तस्य करणसाधनता स्याद्वादिनां सिद्धयेत् । पुरुषाद्भिनस्य तु ज्ञानस्य गुणस्यार्थप्रमितौ साधकतमत्वात् करणत्वं युक्तं, तथा प्रतीतेर्बाधकाभावात् । भवतु ज्ञानशक्तिः करणं तथापि न सा कर्तुः कथंचिदभिन्ना युज्यते ॥ शक्तिः कार्ये हि भावानां सानिध्यं सहकारिणः । सा भिन्ना तद्वतोत्यंतं कार्यतश्चेति कश्चन।।१०
ज्ञानादिकरणस्यात्मादेः सहकारिणः सांनिध्यं हि शक्तिः खकार्योत्पत्तौ न पुनस्तद्वत् खभावकृता शक्तिमतः कार्याचात्यंतं भिन्नत्वात्तस्या इति कश्चित् ॥
तस्यार्थग्रहणे शक्तिरात्मनः कथ्यते कथम् । भेदादर्थातरस्येव संबंधात् सोपि कस्तयोः ॥११॥ न ह्यात्मनोत्यंतं भिन्नाऽर्थग्रहणशक्तिस्तस्येति व्यपदेष्टुं शक्या । संबंधतः शक्येति चेत् , कस्तस्यास्तेन संबंधः?
संयोगो द्रव्यरूपायाः शक्तेरात्मनि मन्यते । गुणकर्मस्वभावायाः समवायश्च यद्यसौ ॥ १२॥
चक्षुरादिद्रव्यरूपायाः शक्तेरात्मद्रव्ये संयोगः संबंधोऽन्तःकरणसंयोगादिगुणरूपायाः समवायश्च शब्दाद्विषयीक्रियमाणरूपायाः संयुक्तसमवायः सामान्यादेश्च विषयीक्रियमाणस्य संयुक्तसमवेतसमवायादिर्यदि मतः ॥
तदाप्यांतरत्वेस्य संबंधस्य कथं निजात् । संबंधिनोवधार्येत तत्संबंधस्वभावता ॥ १३॥ संबंधांतरतः सा चेदनवस्था महीयसी । गत्वा सुदूरमप्यैक्यं वाच्यं संबंधतद्वतोः ॥ १४ ॥ तथा सति न सा शक्तिस्तद्वतोत्यंतभेदिनी । संबंधाभिन्नसंबंधिरूपत्वात्तत्स्वरूपवत् ॥ १५ ॥
ननु गत्वा सुदूरमपि संबंधतद्वतोनॆक्यमुच्यते येनात्मनो द्रव्यादिरूपा शक्तिस्तत्संबंधाभिन्नसम्बन्धिखभावत्वादभिन्ना साध्यते, परापरसंबंधादेव संबंधस्य संबंधिताव्यपदेशोपगमात् । न चैवमनवस्था, प्रतिपत्तुराकांक्षानिवृत्तेः. क्वचित्कदाचिदवस्थानसिद्धेः, प्रतीतिनिबंधनत्वात्तत्त्वव्यवस्थाया इति परे । तेषां संयोगसमवायव्यवस्थैव तावन्न घटते, प्रतीत्यनुसरणे यथोपगमप्रतीत्यभावात् । तथाहि;
संयोगो युतसिद्धानां पदार्थानां यदीष्यते । समवायस्तदा प्राप्तः संयोगस्तावके मते ॥१६॥ कस्मात् समवायोपि संयोगः प्रसज्यते मामके मते ? युतसिद्धिर्हि भावानां विभिन्नाश्रयवृत्तिता । दधिकुंडादिवत्सा च समाना समवायिषु ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org