________________
५८
तत्त्वार्थश्लोकवार्तिके
संप्रति मोक्षशब्दं व्याचष्टे ;
"
निःशेषकर्मनिर्मोक्षः स्वात्मलाभोऽभिधीयते । मोक्षो जीवस्य नाभावो न गुणाभावमात्रकम् ॥ ४ ॥ न कतिपय कर्मनिर्मोक्षोऽनुपचरितो मोक्षः प्रतीयते स निःशेषकर्मनिर्मोक्ष इति वचनात् । नाप्यखात्मलाभः स खात्मलाभः इति श्रुतेः । प्रदीपनिर्वाणवत्सर्वथाप्यभावश्चित्तसंतानस्य मोक्षो न पुनः स्वरूपलाभ इत्येतन्न हि युक्तिमत् तत्साधनस्यागमकत्वात् । नापि बुद्ध्यादिविशेषगुणाभावमात्रमात्मनः सत्त्वादिगुणाभावमात्रं वा मोक्षः, स्वरूपलाभस्य मोक्षतोपपत्तेः । खरूपस्य चानंतज्ञानादिकदंबकस्यात्मनि व्यवस्थितत्वात् । नास्ति मोक्षोऽनुपलब्धेः खरविषाणवदिति चेत् न, सर्वप्रमाणनिवृत्तेरनुपलब्धेरसिद्धत्वादागमानुमानोपलब्धेः साधितत्वात्, प्रत्यक्ष निवृत्तेरनुपलब्धेरनैकांतिकत्वात्, सकलशिष्टानामप्रत्यक्षेष्वर्थेषु सद्भावोपगमात् । तदनुपगमे स्वसमयविरोधात् । न हि सांख्यादिसमयेस्मदाद्यप्रत्यक्षः कश्चिदर्थो न विद्यते । चार्वाकस्य न विद्यत इति चेत् किं पुनस्तस्य स्वगुरुप्रभृतिः प्रत्यक्षः । कस्यचित्प्रत्यक्ष इति चेत, भवतः कस्यचित्प्रत्यक्षता प्रत्यक्षा न वा ? न तावत्प्रत्यक्षा, अतींद्रियत्वात् । सा न प्रत्यक्षा चेत् यद्यस्ति तदा तयैवानुपलब्धिरनैकांतिकी । नास्ति चेत् तर्हि गुर्वादयः कस्यचिदप्रत्यक्षाः संतीत्यायातं । कथं च तैरनैकांतानुपलब्धिर्मोक्षाभावं साधयेद्यतो मोक्षोऽप्रसिद्धत्वाद्यथोक्तलक्षणेन लक्ष्यो न भवेत् ॥ कः पुनस्तस्य मार्ग इत्याह ;
/
•--
स्वाभिप्रेतप्रदेशाप्तेरुपायो निरुपद्रवः । सद्भिः प्रशस्यते मार्गः कुमार्गोन्योवगम्यते ॥ ५ ॥
न हि स्वयमनभिप्रेतप्रदेशाप्तेरुपायोऽभिप्रेतप्रदेशा तेरुपायो वा मार्गो नाम सर्वस्य सर्वमार्गत्वप्रसंगात् । नापि तदुपाय एव सोपद्रवः सद्भिः प्रशस्यते तस्य कुमार्गत्वात् । तथा च मार्गेरन्वेषणक्रियस्य करणसाधनेष्यंति ? सति मार्ग्यतेऽनेनान्विष्यतेऽभिप्रेतः प्रदेश इति मार्गः, शुद्धिकर्मणो वा मृजेर्मृष्टः शुद्धोसाविति मार्गः प्रसिद्धो भवति । न चेवार्थाभ्यंतरीकरणात्सम्यग्दर्शनादीनि मोक्षमार्ग इति युक्तं, तस्य स्वयं मार्गलक्षणयुक्तत्वात्, पाटलिपुत्रादिमार्गस्यैव तदुपमेयत्वोपपत्तेर्मार्गलक्षणस्य निरुपद्रवस्य कार्यतोऽसंभवात् । तदेकदेशदर्शनात्तत्र तदुपमानप्रवृत्तेः । प्रसिद्धत्वादुपमानं पाटलिपुत्रादिमार्गोऽप्रसिद्धत्वान्मोक्षमार्गोस्तूपमेय इति चेन्न, मोक्षमार्गस्य प्रमाणतः प्रसिद्धत्वात् । समुद्रादेरसिद्धस्याप्युपमानत्वदर्शनात् तदागमादेः प्रसिद्धस्योपमेयत्वप्रतीतेः । न हि सर्वस्य तदागमादिवत्समुद्रादयः प्रत्यक्षतः प्रसिद्धाः । समुद्रादेरप्रत्यक्षस्यापि महत्त्वादुपमानत्वं तदागमादेः प्रत्यक्षस्याप्युपमेयत्वमिति चेत्, तर्हि मोक्षमार्गस्य महत्त्वादुपमानत्वं युक्तमितरमार्गस्योपमेयत्वमिति न मार्ग इव मार्गोंयं खयं प्रधानमार्गत्वात् ॥
तत्र भेदविवक्षायां स्वविवर्तविवर्तिनोः । दर्शनं ज्ञानमित्येषः शब्दः करणसाधनः ॥ ६ ॥ पुंसो विवर्तमानस्य श्रद्धानज्ञानकर्मणा । स्वयं तच्छक्तिभेदस्य साविध्येन प्रवर्तनात् ॥ ७ ॥ करणत्वं न बाध्येत वन्हेर्दहनकर्मणा । स्वयं विवर्तमानस्य दाहशक्तिविशेषवत् ॥ ८ ॥
यथा वन्हेर्दहनक्रियया परिणमतः खयं दहनशक्ति विशेषस्य तत्साविध्येन वर्तमानस्य साधकतमत्वात् करणत्वं न बाध्यते, तथात्मनः श्रद्धानज्ञानक्रियया स्वयं परिणमतः सांविध्येन वर्तमानस्य श्रद्धानज्ञानशक्तिविशेषस्यापि साधकतमत्वाविशेषात् । ततो दर्शनादिपदेषु व्याख्यातार्थेषु दर्शनं ज्ञानमित्येषस्तावच्छब्दः करणसाधनोवगम्यते; दर्शनशुद्धिशक्तिविशेषसन्निधाने तत्त्वार्थान्पश्यति श्रद्धत्तेऽनेनात्मेति दर्शनं, ज्ञानशुद्धिशक्तिविशेषसन्निधाने जानात्यनेनेति ज्ञानमिति । नन्वेवं स एव कर्ता स एव
१ सहकारित्वेन ।
Jain Education International
For Private & Personal Use Only
4
www.jainelibrary.org