________________
प्रथमोऽध्यायः । परापरगुरुप्रवाहसभामधितिष्ठतो निर्वाणे विप्रतिपत्त्यभावात्तन्मार्गे विवादात् तत्प्रतिपित्साप्रतिबंधकविध्वंसात्साधीयसी प्रतिपित्सा । सा च निर्वाणमार्गोपदेशस्य प्रवर्तिका । सत्यामेव तस्यां प्रतिपाद्यस्य तत्प्रतिपादकस्य यथोक्तस्यादिसूत्रप्रवर्तकत्वोपपत्तेरन्यथा तदप्रवर्तनादिति प्रतिपत्तव्यं प्रमाणबलायत्तत्वात् ।
___ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥१॥ तत्र सम्यग्दर्शनस्य कारणभेदलक्षणानां वक्ष्यमाणत्वादिहोद्देशमात्रमाह;प्रणिधानविशेषोत्थद्वैविध्यं रूपमात्मनः । यथास्थितार्थश्रद्धानं सम्यग्दर्शनमुद्दिशेत् ॥१॥
प्रणिधानं विशुद्धमध्यवसानं, तस्य विशेषः परोपदेशानपेक्षत्वं तदपेक्षत्वं च, तस्मादुत्था यस्य तत्प्रणिधानविशेषोत्थं । द्वे विधो प्रकारौ निसर्गाधिगमजविकल्पाद्यस्य तद्विविधं, तस्य भावो द्वैविध्यं; प्रणिधानविशेषोत्थं द्वैविध्यमस्येति प्रणिधानविशेषोत्थद्वैविध्यं, तच्चात्मनो रूपं । यथास्थितार्थास्तत्त्वार्थास्तेषां श्रद्धानं सम्यग्दर्शनमिहोद्देष्टव्यं तथैव निर्दोषवक्ष्यमाणत्वात् ॥ सम्यग्ज्ञानलक्षणमिह निरुक्तिलभ्यं व्याचष्टे;खार्थाकारपरिच्छेदो निश्चितो बाधवर्जितः । सदा सर्वत्र सर्वस्य सम्यग्ज्ञानमनेकधा ॥२॥
परिच्छेदः सम्यग्ज्ञानं न पुनः फलमेव ततोनुमीयमानं परोक्षं सम्यग्ज्ञानमिति तस्य निराकरणात् । स चाकारस्य भेदस्य न पुनरनाकारस्य किंचिदिति प्रतिभासमानस्य परिच्छेदः तस्य दर्शनत्वेन वक्ष्यमाणत्वात् । खाकारस्यैव परिच्छेदः सोकारस्यैव वेति च नावधारणीयं तस्य तत्त्वप्रतिक्षेपात् । संशयितोऽकिंचित्करो वा खार्थाकारपरिच्छेदस्तदिति च न प्रसज्यते, निश्चित इति विशेषणात् । विपर्ययत्मिा स तथा स्यादिति चेन्न, बाधवर्जित इति वचनात् । बाधकोत्पत्तेः पूर्व स एव तथा प्रसक्त इति चेन्न, सदेति विशेषणात् । कचिद्विपरीतखार्थाकारपरिच्छेदो निश्चितो देशांतरगतस्य सर्वदा तद्देशमबामुवतः सदा बाधकवर्जितः सम्यग्ज्ञानं भवेदिति च न शंकनीयं, सर्वत्रेति वचनात् । कस्यचिदतिमूढमनसः सदा सर्वत्र बाधकरहितोपि सोस्तीति तदवस्थोतिप्रसंग इति चेन्न, सर्वस्येति वचनात् । तदेकमेव सम्यग्ज्ञानमिति च प्रक्षिप्तमनेकधेति वचनात् । तत्र निश्चितत्वादिविशेषणत्वं सम्यग्ग्रहणालब्धं । वाथोकारपरिच्छेदस्तु ज्ञानग्रहणात्, तद्विपरीतस्य ज्ञानत्वायोगात् ।
सम्यक् चारित्रं निरुक्तिगम्यलक्षणमाह;भवहेतुप्रहाणाय बहिरभ्यन्तरक्रिया-। विनिवृत्तिः परं सम्यक्चारित्रं ज्ञानिनो मतम् ॥३॥ विनिवृत्तिः सम्यक्चारित्रमित्युच्यमाने शीर्षापहारादिषु खशीर्षादिद्रव्यनिवृत्तिः सम्यक्त्वादिखगुणनिवृत्तिश्च तन्माभूदिति क्रियाग्रहणं । बहिःक्रियायाः कायवाग्योगरूपाया एवाभ्यंतरक्रियाया एव च मनोयोगरूपाया विनिवृत्तिः सम्यकूचारित्रं माभूदिति क्रियाया बहिरभ्यंतरविशेषणं । लाभाद्यर्थ तादृशक्रियानिवृत्तिरपि न सम्यक्चारित्रं भवहेतुप्रहाणायेति वचनात् । नापि मिथ्यादृशः सा तद्भवति ज्ञानिन इति वचनात् । प्रशस्तज्ञानस्य सातिशयज्ञानस्य वा संसारकारणविनिवृत्तिं प्रत्यागूर्णस्य ज्ञानवतो बाह्याभ्यंतरक्रियाविशेषोपरमस्यैव सम्यक्चारित्रत्वप्रकाशनात् , अन्यथा तदाभासत्वसिद्धेः । सम्यग्विशेषणादिह ज्ञानाश्रयता भवहेतुप्रहाणता च लभ्यते । चारित्रशब्दाबहिरभ्यंतरक्रियाविनिवृत्तिता सम्यक्चारित्रस्य सिद्धा तदभावे तद्भावानुपपत्तेः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org